पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । प्रभा. - रिस्पन्दापेक्षया यस्य सूर्यपारस्पन्दोऽधिकः स ज्येष्ठः यस्य न्यूनः स कनिष्ठः । कालिक- परत्वापरत्वे जन्य द्रव्य एव ।। अत्र कालिकपरत्वापरत्वयोः ॥ १२३ ॥ १२४ ।। परत्वापरत्वयोरिति ॥ मूलस्थासमवायिशब्दस्य न समवायोति व्युत्पत्त्या समवायिकारणभिन्नसामान्याबों. धकत्वादसङ्गतिः अतस्तादृशपदस्य कारणविशेषपरत्वमाह ॥ असमवायिकारणमिति । तदाश्रय इति ॥ मूलस्थतच्छब्दस्य कालिकपरत्वादिपरत्वे तदाश्रय निष्टदिक्म योगस्यैवासमवायिकारणत्वं लभ्यते तथा सति ५- रमाणुदिक्संयोगस्यासमवाथिकारणत्वालाभेन परमाणो दैशिकपरत्वाद्यनुत्पत्तिप्रसङ्गात् अतः तदाश्रय इत्ति मूल. स्थतत्पदं दैशिकपरत्वादिपरतया व्याचष्टेदेशिकपरत्वापरत्वाश्रय इति॥ कालिकपरत्वादी निमित्तकार. मसमवायिकारणं चाह ॥ मुले दिवाकरेत्यादि । परत्वभपरत्वं च तदीयाल्पत्वबुद्धित इति मूलस्थपरत्वा- दिशब्दात् झटिति कालिकपरत्वापरत्वाद्युपस्थितिः न भवति । पूर्व देशिकपरत्वादेखोपस्थितत्वेन तस्यानु- पस्थितत्वादतो मूलस्थपरत्वादिशब्दस्य कालिकपरत्वाद्यर्थकत्वमाह ॥ अत्रेति ॥ परत्वमपरत्वं चेति ॥ कारिकाघटकामत्यर्थः। Fi गनु दिवाकरपरिस्पन्देल्यादियथाश्रुतमूलात् दिवाकरपरिस्पन्दविशेष्यकभूयस्त्वादिप्रका- रकज्ञानस्य कालिकपरत्वादिनिमित्तत्वं लभ्यते तदयुक्तं तज्ज्ञानस्य कालिकपरत्वादिव्याधिकरणत्वात् समूहालम्ब- नात्मकतादृशज्ञानमादाय विषयतासंबन्धघटित सामानाधिकरण्योपपादने कनिष्ठेऽपि तेन संबन्धेन तादृशज्ञानस. स्वात् परत्वोत्पत्त्यापत्तिः । अतः तादृशमूलस्य प्रतीकमकृत्वा तात्पर्यार्थमाह ॥ यस्येति ॥ यदुत्पत्तिप्रभू- तिकालिकपरत्वबुद्धयुत्पत्तिकालपर्यन्तं जायमानसूर्यक्रियासमुदायपर्याप्त सङ्खयापेक्षयेत्यर्थः ॥ यस्य सूर्यप- रिस्पन्द इति ॥ यदुयत्तिप्रभृतिकालिकपरत्वबुद्धभुत्पत्तिकालपर्यन्तं जायमानसूर्यक्रियासमुदाय इत्यर्थः ॥ अधिक इति ॥ अधिकसङ्घयापर्याप्त्यधिकरणमित्यर्थः ॥ स ज्येष्ठ इति। तादृशाधिकरणमेव कालि. कपरत्वाश्रयः तांद्वशेषज्येष्ठत्वाश्रयश्चेत्यर्थः । तथाच समवायेन तदवाधिकपरत्वं प्रति तदुत्पत्तिप्रभृत्तिकालिक. परत्वबुद्धयुत्पत्तिकालपर्यन्तं जायमानसूर्यपरिस्पन्दसमुदायपर्याप्तसङ्ख्याधिकसङ्ख्यापर्याप्त्यधिकरणसूर्यपरि- स्पन्दसमुदायावधिभूतोत्पत्याश्रयत्वज्ञानं निमित्तकारणमेव समवायेन तदवाधिकज्येष्टत्वं प्रति तज्जन्मप्रभृति- कालिकपरत्वबुद्धयत्पत्तिपर्यन्तं जायमान सूर्यपरिस्पन्दसमुदायपर्याप्त सङ्ख्याधिकसङ्खथापयर्याप्त्यधिकरणतपनप- रिस्पन्दसमुदायावधिभूतजन्माश्रयत्वज्ञानं निमित्तकारणमित्यर्थलाभान्न पूर्वोक्तदोषप्रसक्तिरिति भावः ॥ य. स्येति ॥ यस्य सूर्यपरिस्पन्दापेक्षयेति आदावनुवर्तते सूर्यपरिस्पन्द इति यत्स्येत्युत्तरमनुवर्तते अर्थस्तु पूर्व- रीत्या ज्ञेयः ॥ न्यून इति । न्यून सङ्ख्यापर्याप्त्यधिकरणमित्यर्थः ॥ स कनिष्ठ इति । निरुक्तन्यूनस- तथापर्याप्त्यधिकरणमेव कालिकापरत्वाश्रयस्तद्विशेषकनिष्ठत्वाश्रयश्वेत्यर्थः । कार्यकारणभावश्च कालिकपरत्वे तद्विशेषज्येष्टत्वे च बहुतरतपनपरिस्पन्दान्तरितोत्पन्नत्वतादृशजन्मत्वज्ञानहेतुत्वरीत्या ज्ञेयः अत्र ज्येष्ठत्वादिः कालिकपरत्वादिविशेषः नतु कालिकपरत्वादिसामान्यरूपं प्रामाणिकानां प्राणशून्यघटादौ ज्येष्ठत्वादिबुद्धे. रनुदयात् केवलकालिकपरत्वादिबुद्धेरनुदयाच्च शरीरे चोमयबुद्धयुदयाचेति बोध्यम् । नन्वेतादृशापेक्षाबुद्धेः कालिकपरत्वादिहेतुत्वे नित्ये परमावादी कालिकपरत्वाद्यनुत्पत्त्यापत्तिरित्याशवामिष्टापत्त्या पारहरति ॥ कालिकेति ॥ जन्यद्रव्य एवेति ॥ जन्यद्रव्यवर्तिनी एवेत्यर्थः । नित्यद्रव्यावर्तिनी इति यावत । नन्वतादृशापेक्षाबुद्धेः कालिकपरत्वादिनिमित्तत्वे जन्यगुणादौ तादशपरत्वाद्युत्पत्त्यापत्तिरित्याशङ्को कारणान्तर- घिरहप्रदर्शनेन परिहरति ॥ मूलेऽत्र त्विति ॥ कालिकपरत्वादावित्यर्थः । असमवायी स्यादिति ॥ असमवायिकारणं भवतीत्यर्थः । संयोगः कालपिण्डयोरिति ॥ कालजन्यद्रव्ययोरित्यर्थः । तथाच कालिकपरत्वादिकं प्रति जन्यद्रव्यकालसंयोगस्यासमवायिकारणतया जन्यगुणादौ समवायेन तादृशासमवा- यिकारणाभावेन न तादृशपरत्वाद्युत्पत्तिरिति भावः । इदमुपलक्षणं भावकार्य प्रति व्यस्यैव समवायि- कारणतया जन्यगुणादौ तादात्म्येन द्रव्याभावान गुणोत्पत्त्यापत्तिरित्यापि बोध्यं अन दैशिकपरत्वादौ अवधिीनरूपकयोरैक्याभावात् । एकस्मिन्नेकनिरूपितं भिन्नावधिकं परत्वादिकमुत्पद्यते एवमेकस्मिन्नेकावधि- काभिननिरूपितं परत्वादिकमुत्पद्यते यथा प्रयागे काशीनिरूपितमेव पाटलिपुत्रावधिकं परत्वं कुरुक्षेत्रावधिक