पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड: प्रभा. तिव्याप्तिब्युदासः । तथाच तद्विरोधविशिदैशिकाविशेषणतासंसाँवच्छिन्न प्रकारतानिरूपकत्वं तत्संशयत्वम् । एतन्मते संशयस्तु भावाभावप्रकारक एवेति स्फुटीकरणाय भावाभावप्रकारकामत्युकं नतु लक्षणघटकं प्रयोजना- भावात् ।तकालङ्कारमते तनिष्ठप्रकारतानिरूपिता या प्रतियोगितासंबन्धावच्छिन्न तनिष्ट प्रकारतानिरूपिताभावत्वा. बंच्छिन्नप्रकारतानिरूपिता च विशेष्यता तनिरूपकत्वं तत्संशयत्वं केवलविशेष्यत्वाभिन्नविशेष्यताकत्वमित्युको पर्वतो वह्निमानिति ज्ञानीयविशेष्यत्वस्यापि स्वामिन्नतया तवातिव्याप्तेः अतो भावाभावप्रकारतानिरूपितविशे- ध्यत्वयोरभिन्नत्वोपपादानं भट्टाचार्य सार्वभौममते तन्निष्टपकारतानिरूपितविशेष्यत्वावच्छिन्ना या प्रतियोगितासं- बन्धावच्छिन्नतन्नियप्रकारतानिरूपिताभावत्वावच्छिन्न प्रकारतानिरूपिता विशेष्यता तन्निरूपकत्वं तत्संशयत्वम् । केवल विशेष्यत्वावच्छिन्नविशेष्यताकत्वमित्युक्तौ विशेष्यं वहिमदिति ज्ञानीयवह्निनिष्ठप्रकारतानिरूपितविशेष्यत्व- स्यापि विशेष्यत्वावच्छिन्नतया तत्रातिव्याप्त्यापत्तिरत ईटशविशेष्यतयोरवच्छेद्यावच्छेद कभावप्रदर्शनामिति रीत्या मतभेदेन संशयस्य लक्षणत्रयं पर्यवसितामिति भावः । अत्र ज्ञानविशेष एव तादशलक्षणसत्त्वान्नान्य. तेति स्फुटीकरणा य मूल मुक्तावळ्यां च संशयलक्षणवाक्ये मतिपदप्रयोगो ज्ञानपदप्रयोगश्च नतु ज्ञानव- स्य लक्षण प्रवेशलाभाय गौरवात् प्रयोजनाभावाचति हृदयम् । केचित्तु हृदपर्वतौ वहितदभाववन्ताविति ज्ञानेऽतिव्याप्तिवारणाय कविशेष्यकेति एकधर्मितावच्छेद कविशिष्टविशेष्यताकत्वावच्छिनेत्यर्थः । तेन पर्वता वहिमान् द्रव्यं वह्नरभाववादति ज्ञानच्युदासः वृक्षासंयोगवांस्तदभाववांश्रेति समुच्चयवारणाय ॥ विरु देति ॥ विरोधावगाहित्वमित्यर्थः । घटो द्रव्यं पृथिवी चेति ज्ञानवारणाय भावाभावेति । इच्छाब्युदासा- र्थ विशेष्यभागः । वस्तुतस्तु एकधर्मावच्छिन्नविशेष्यताकत्वानिवेशे विभिन्नरूपेणैकधर्मितावच्छेदक कज्ञान स्य संशयत्वापत्तिरे कधर्मावच्छिन्नविशेष्यतावच्छेदकताकत्वनिवेशे च निरवच्छिन्नविशेष्यतावच्छेदकताकसं- शयासहप्रसङ्गः विभिन्नरूपेण धर्मितावच्छेदकतावच्छेदकावगाह ज्ञानस्य संशयत्वप्रसङ्गश्चेति स्वायककोटि- प्रकारतावच्छिन्न प्रतिवध्यतानिरूपित प्रतिबन्धकतावच्छेदकीभूतापरकोटिप्रकारताशालिज्ञानत्वं संशयत्वमिति ध्येयमित्याहुः तदसत् संशयसमुत्र ययावलक्षात्याय संशय एव कोटव्य विरोध संसर्गावगाहित्वस्वीकारात् पर्वत- हुदो वह्नितदभाववन्ताविति ज्ञानस्य निश्चयरूपतया तादृशज्ञानीयवहयभावनिष्ठप्रकारता था विरोधसंसर्गाव- च्छिन्नत्वाभावेन ताशप्रकारताघटित लक्षणस्य तत्रासत्त्वात् अतिव्यात्यप्रसक्त्यक पर्मिकत्वविशेषणस्योक्तप्र. योजनासंभवात् पर्वतो वहि मान द्रव्यं बढ़वभाववदिति ज्ञानस्यापि विरोधविशिरदेशिकविशेषणतासंबन्धाद च्छिन्न प्रकार ताकवाभावादेव तत्रातिव्याप्त्व प्रसक्त्या एकभिकेत्यस्य एकधर्मितावच्छेद कविशिष्टविशेष्यक- स्वावच्छिन्नार्थकत्वस्याप्ययुक्तत्वात् । यच घटो द्रव्यं पृथिवी चेति ज्ञानवारणाय भावाभावेति इच्छाब्युदा- साथ विशेष्यभाग इति च तदुभयमप्य युक्तं घटो द्रव्यं पृथिवी चेति ज्ञानस्येच्छायाश्च विरोधसंसर्गावच्छि प्रकारताकत्वाभावादेव तत्रातिव्याप्त्यप्रसक्त या प्रकारतायां भावाभावनिष्ठत्व विशेषणस्य ज्ञानत्वरूपविशे- ध्यभागस्य च व्यर्थत्वात् । यच्चोक्तं वस्तुतस्त्वित्यादिना एकधर्मावच्छिन्नविशेष्यकत्वनिवेशे विभिन्नरूपेणे. कधर्मितावच्छेदककस्य पर्वतत्ववान वह्निमान जातिमान् यहयभाववानिति ज्ञानस्य संशयत्वापत्तिः तस्य संशयत्ववारणायकधर्मावच्छिन्नविशेष्यतावच्छेदकत्वनिवेशे च निरवच्छिन्नविशेष्यतावच्छेदकताकस्य पर्वतो वह्निमान्नवेति संशयस्यासहप्रसङ्गः विभिन्नरूपेण धर्मितावच्छेदकतावच्छेदकावगाहिनः नीलत्ववद्वान् गन्ध- वान जातिमद्वान् गन्धाभाववानिति झानस्य संशयत्वप्रसङ्गश्चेति तदप्नयुक्त पर्वतत्ववान् वहिमान् जाति. मान् वह्नयभाववाति ज्ञानस्य काटयाविरोधसंसर्गावगाहित्वे प्रमाणाभावेन तद्धटितलक्षणस्य तत्रातिव्या- दिनकरीयम्. निवेशे च निरवच्छिन्नविशेष्यतावच्छेदकताकसंशयासङ्ग्रहप्रसङ्गः । विभिन्नरूपेण धर्मितावच्छेदकतावच्छेद- कावाहिज्ञानस्य संशयत्वप्रसङ्गश्चेति स्वायककोटिप्रकारतावच्छिन्न प्रतिबध्यतानिरूपित प्रतिबन्धकतावच्छे.. दकीभूतापरकोटिप्रकारताशालिज्ञानत्वं संशयत्वमिति ध्येयम् । यत्तु संशयत्वं जातिविशेष इति तन्न चाक्षुष- स्वादिना सकरप्रसङ्गात् । सन्दिग्ध इति क्रियापदम् । सन्देहवान् भवतीत्यर्थः । एषमप्रेऽपि । समा.