पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः - निश्चयमानजनकत्वस्वाभाव्यात् । किंतु तत्र शब्देन कोटिद्वयज्ञानं जन्यते संशयस्तु मानस एवेति । एवं ज्ञाने प्रामाण्य संशयाद्विषयसंशय इति । एवं व्याप्यसंशयादपि व्यापकसंशय प्रभा. पत्तिस्त्विति ॥ एवार्थकस्तुशब्दः नेत्युत्तरं योज्यः । शब्दो नियो नवेत्यादीत्यादिपदात् एर्वतो वह्निमानवे-- त्यादेः परिग्रहः ॥ शब्दात्मिकेति ॥ शब्दज्ञानात्मकेलार्धः । विप्रतिपत्तिरिति पूर्वेणान्वयः ॥ न संशय- कारणमिति ॥ अर्थस्मृतिद्वारा संशयकारणं नैव भवतीत्यर्थः । तथाच तादृशविप्रतिपत्तेरथस्मृतिद्वारा सं- शयजनकतानङ्गीकारात् प्रमाणाभावेन संशयात्मकशाब्दवोधोऽपि नाही कर्तव्य इति भावः । निरुतषिप्रति- पत्तेः संशयाजनकत्वं व्यवस्थापयति ॥ शब्दव्याप्तिज्ञानादीनामिति ॥ शब्दज्ञानत्वविशिष्टस्य व्याप्ति- ज्ञानत्वविशिष्टस्य चेत्यर्थः । ज्ञानादीत्यादिपदादति देशवाक्यार्थज्ञानस्य परिग्रहः । तत्र व्याप्तिज्ञानातिदेशवा- क्यार्थज्ञानयोरुपादानं दृष्टान्तार्थमिनि बो यम् ॥ निश्चयमात्रेति ॥ कृत्स्ननिश्चय इत्यर्थः । प्रत्यक्षान्यनिश्चय इ. ति यावत् ॥ जनकत्वस्वाभाव्यादिति ।। जनकावरूपासाधारणधर्मत्रत्वादित्यर्थः । तथाच शब्दज्ञानं न सं- शयजनकं प्रत्यक्षान्यनिश्चयकारणत्वात् व्याप्तिज्ञानादिवदित्यनुमानाद्विप्रतिपत्तेः संशयाजनकत्वसिद्धिरिति भा- वः। ननु विप्रतिपत्तेसंशयाजनकत्वे निरुक्तसूत्रस्याप्रामाण्यापत्तिरत आह ॥ किंत्विति तत्रेति ॥ विप्र. तिपत्तिस्थल इत्यर्थः एतत्संशय इत्युत्तरेणान्वयः ॥ शब्देनेति ॥ शक्तिज्ञान प्रहकृतशब्दज्ञानेनेत्यर्थः ॥ को. टिद्वयज्ञानमिति ॥ भावाभावरूपकोटिद्वयस्मरणमात्रमित्यर्थः ॥ अन्यत इति ॥ तथाच कोटिद्वयव्या. प्यवत्ताज्ञानस्थले परस्पर प्रतिबन्धाद्यथानुमितिसामान्यानुत्पत्तिः तथा भावाभावरूपकोटिद्वयविषयकशाब्द- सामग्रीसत्त्वे एकैकशाब्दं प्रत्यपरशादसामय्याः प्रतिबन्धकत्वाद्विप्रतिपत्तिस्थले शाब्दसामान्यानुत्पत्तिरिति भावः । ननु तत्र कथमनुभूयमानसंशयोपपत्तिरत आहे ॥ संशयस्विति ॥ संशयोऽपीत्यर्थः ।। मान- स एवेति ॥ मनःकरणको न विप्रतिपत्तिकरणक इत्यथः । तथाच मतदयेऽपि तत्र तादृशकोटिवयस्मृति- सहकृतमनसैव संशयोत्पत्तिस्वीकारात् विप्रतिपत्तरिति सूत्रस्थपञ्चम्याः प्रयोजकत्वपरवाच नोक्त दोषप्रस-- किरिति भावः ॥ ज्ञान प्रामाण्यसंशयाद्विपयसंशय इति ॥ केचित्तत्र प्रामाण्यपदमप्रामाण्यत्याप्यु- पलक्षकं तेन प्रामाण्यसंशयस्याप्रामाण्यसंशयस्य च विषयसंशये स्वातन्येण महत्त्वमिति भाव इत्याहुः । एत- न्मते घटवद्भूतलामिति ज्ञानं प्रमा न वेति प्रामाण्यसंशयस्य घटवद्विशेष्यकत्वविशिष्टघट प्रकारकत्वतदभा- वैतदुभयात्मकप्रामाण्य तदभावकोटिकतया तस्य घटामावोपस्थितिरूपत्वा भावात् । कारणाभावेन तदुत्तरवि. पयसंशयोपपत्तेरतः प्रामाण्य संशयादित्यस्य यथाकथञ्चित् कोटिद्वयोपस्थितिकालीननिरुक्तप्रामाण्यसंशयादि- सर्थ परिकल्प्य तन्मतं सगमनीयम् । अस्मद्गुरुचरणास्तु प्रामाण्यसंशयादिति भ्रमभिन्नत्वतदभावरूपप्रामा- ग्यतदभावकोटिकसंशयादित्यर्थः । तथाच घटाभावादिमद्विशेष्यकत्वविशिष्टघटादिप्रकारकत्ववद्भिन्नत्वरूपप्रा. माण्य तादृशरूपभिन्नत्वाभावात्मकघटाभावादिविशेष्यकत्वविशिष्टघटादिप्रकारकत्वरूपाप्रामाण्यैतदुभयकोटि- कसंशयस्य घटतदभावाद्यात्मककोटिद्वयोपस्थितिरूपतया तादृशप्रामाण्य संशयोत्तरं नियमेन विषयसंशय आवश्यक इति भावः । एवंच प्रामाण्यवदं नाप्रामाण्योपलक्षक नवा प्रामाण्यसंशयादिति वाक्यं कोटिद्वयोपस्थितिकालीनप्रामाण्यसंशयपरं गौरवादिति व्याचक्रुः ॥ व्याप्यसंशयादिति ॥ वयादिव्या- दिनकरीयम्. नानेकधर्मोपपत्तेविप्रतिपत्तरित्यादिसूत्रे विप्रतिपत्तिवाक्यजन्यशाब्दसंशयस्योकत्वात् साधारणधर्मासाधारण. धर्मज्ञानजन्यसंशयवद्विप्रतिपत्तिवाक्यजन्यम्तृतीयोऽपि संशय इति मतनिरासायाह ॥विप्रतिपत्तिस्त्वि.. ति ॥ व्याप्तिज्ञानादीनामित्यादिनातिदेशवाक्यार्थज्ञानपरिप्रहः । ननु तर्हि सूत्रस्थपञ्चम्यनुपपत्तिरित्यत आ- ह ॥ किंत्विति ॥ तथा च सूत्रस्थपञ्चमी प्रयोजकतायामिति भावः। एवं ज्ञाने प्रामाण्यसंशयाद्विषयसंश- य इत्यत्र प्रामाण्यपदमप्रामाण्यस्याप्युपलक्षकं तेन प्रामाण्यसंशयस्याप्रामाण्यसंशयस्य च विषयसन्देहे खा. तन्त्र्येण हेतुत्वमिति भावः ॥ एवं व्याप्येति ॥ अथ व्याप्यसंशयस्य व्यापकसंशयहेतुत्वे किं मानं कोटि-