पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । प्रभा. प्यत्वेन गृह्यमाणधूमादिकोरिकसंशयादित्यर्थः ॥ व्यापकसंशय इति ॥ ननु वह्नयादिकोटिकसंशय इत्य- र्थः । ननु व्याप्यसंशयस्य व्यापकसंशयहेतुत्वे मानाभावः विशेषादर्शनकोटिद्वयस्मरणादित एव तत्संभवात् । नच केवलवह्निव्यायधूमवान्न वा पर्वत इत्यादिसंशयस्य व्यापकसंशयाहेतुत्वेऽपि व्यापकतदभावसामानाधि. करण्येन गृह्यमाणो यो व्याप्यतदभावौ तत्कोटिकज्ञानरूपव्याप्यसंशयस्य व्यापकतदभावरूपकोटिद्वयस्मार- कतया तद्दारा ताशसंशयस्य व्यापकसंशयहेतुत्वे वाधकाभाव इति वाच्यम् । तादृशसंशयस्य कोटिद्वयस्मार- कत्वेऽपि व्यापकसंशयं प्रत्यन्वयव्यतिरेकाभ्यां कोटिद्वयोपस्थितेरेव जनकत्वस्वीकारेण निरुक्तव्याप्यसंशय- स्यान्यथासिद्धत्वादिति चेन्न महानसादौ वहिं हृदादौ वलयभावं च स्मरतः पर्वतादिकं पश्यतो धूमादिरूपव्याप्य- संशयवत्त्वे वह्रिसंशयोत्पत्तेः तादृशव्याप्यसंशयासत्त्वे वह्निसंशयानुत्पत्तेश्च गृहीतत्वेनान्वयव्यतिरेकाभ्यां तस्या. पि संशय हेतुत्वस्वीकारात् अत एव व्याप्यस्योत्कटकोटिकसंशयात् व्याप कस्योत्कटकोटिकसंशयः कारणोत्कर्षेणैः व कार्योत्कर्षसंभवादिति गङ्गे शोपाध्यायप्रभृतीनां तत्र तत्र लेखनं सङ्गच्छते । नच व्याप्यसंशयस्य व्यापकसंशयः हेतुत्वं न सूत्रकाराभिमतमिति वाच्यम् । सूत्रस्थच कारस्यानुक्तसमुच्चायकत्वेन व्याप्यसन्देहादेरपि लाभात् । त थाहि समानाने कधोपपत्तेवि प्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षा विमर्श: संशय इति सूत्रं त- स्यार्थः कोटिद्वय सहचरितत्वेन गृह्यमाणधर्मः अनेकस्मात् सपक्षविपक्षाधावृत्तत्वेन गृह्यमाणो धर्मः अनेकथ- म: तयोरुपपत्तिानं तस्माद्विप्रतिपत्तिः भावाभावकोटियप्रतिपादकं वाक्यं तस्मादल पञ्चम्याः प्रयोजक- त्वमर्थः नतु हेतु उपलब्धिः तइति तस्त्रकारकत्वरूप प्रामाण्य मनुपलब्धिः प्रामाण्याविरोधि तदभाववति त - प्रकारकरवरूपभ्रमत्वं तयोरव्यवस्था संशयः । तथाच तद्वति तत्यकारकत्वतदभावैतदुभयकोटिकसंशयजन्यः तदभाववति तत्प्रकारकत्व तद्भाबैतदुभयकोटिकसंशयजन्यश्च विषय संशय इति फलितार्थः । अथवा उपल- ब्धिः भ्रममिन्नत्वरूपप्रामाण्यं तदभाववत्ति तत्प्रकारकत्ववद्भिन्नत्व रूपमिति यावत् अनुपलब्धिः तादृशभि- नत्वाभाध; तदभाववति तत्प्रकारकत्वरूपाप्रामाण्यामिति यावत् तयोरव्यवस्था निरुक्तोभयकोटिकसंशयः ए. वच निरुतप्रामाण्याप्रामाण्यरूपकोटिद्वयावाहिसंशयजन्यो विषयसंशय इति तात्पर्यार्थः । चकारायाप्य सन्दे. हजन्यव्यापकसन्देह साधनाव्यापकव्याप्यत्वसन्देहजन्यसाधनाव्यापकत्वसन्देहयोः परिग्रहः । विशेषापेक्षो विमर्श इति तु तल्लक्षणं एकधर्मिकभावाभावप्रकारकत्वरूपविशेषवान्विमर्शः ज्ञानमिति इत्यादिकं बोध्यामि.. त्यत्रादिपदात् साधनाव्यापकव्याप्यत्वसन्देहजन्य साधनाव्यापकत्यसन्देहपारिंग्रहः । अत्र साधारणधर्मज्ञानादेः तादृशज्ञानस्वादिना न संशय सामान्यहेतुत्वं व्याभिचारादनायत्या वावच्छिन्नाव्यवहितोत्तरक्षणोत्पत्तिकत्वसं-- दिनकरीयम् . स्मरणादित एव तत्सम्भवात् क्वचित्तदनुविधानम्य तु व्याप्यतदभावयोव्यापकतदभावसाहचर्यस्य गृही- तत्वेन तत्स्मरण एवोपक्षीणत्वात्तदग्रहे तु व्याप्यवंशयात् व्यापकसंशयस्याप्यभावादिति चेदनाहुः । महान. से हुताशनो न जलहद इति स्मरतां पर्वतादिकमपि पश्यतां धूमादिसंशयभावाभावाभ्यां हुताशनसंशयभा. वाभावदर्शनात्तस्यापि तद्धेतुत्वम् । अत एवोत्कटकोटिकव्याप्यसंशयात् व्यापकस्याप्युत्कटकोटिकः संशयः का-- रणोत्कर्षेणैव कार्योत्कर्षात् । नचैतद्भगवत्सूत्र कृदनभिमतामाते वाच्यं सूत्रस्थच कारस्याप्यनुक्तसमुचायकत्वात् तथाहि समानानेकधर्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्य व्यवस्थातश्च विशेषापेक्षो विमर्शः संशय इति सूत्रं त. स्य वार्थमाहुर्भाध्यकृत्प्रमुखाः । समानधर्मः कोटिद्वयसहचरितधर्मः अनेकस्मात्सपक्षविपक्षात् व्यावृत्तो धर्मः अ. नेकधर्मः तयोरुपपत्तिानं तस्माद्विप्रतिपत्तिविरुद्धकोरिप्रतिपादकं वाक्यं तस्मादन पञ्चम्याः प्रयोजकत्वमर्थो न हेतुत्वं उपलब्धिः प्रामाण्यं अनुपलब्धिः प्रामाण्यविरोधिभ्रमत्वं तयोरव्यवस्थातच संशयः । एवंच प्रा- माण्यसंशयजन्यो भ्रमत्वसंशयजन्यश्च विषयसंशयः चकारो व्याप्यसन्देहादिजन्यध्यापकसन्देहादेः सङ्ग्राह- कः । विशेषापेक्षो विमर्श इति तु लक्षण एकभिकभावाभावप्रकारकत्वरूपविशेषवान् विमर्शी ज्ञानमिति तद- र्थः । इत्यादिकमित्यादिना साधनाव्यापकव्याप्यत्वसन्देहादितः साध्यव्यापकत्वसन्देहो बोध्यः । साधारणज्ञा- नादेः कार्यतावच्छेदके चाव्यहितोत्तरत्वं देयं तेन परस्परं न व्यभिचारः । ननु साधारणधर्मज्ञानादेरिव ध.