पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रमा-दिनकरीयसमन्विता । अथ के प्रत्यक्षे तु विशेष्येण विशेपणवता समम् । सनिकर्षो गुणस्तु स्यादथ त्वनुमितौ पुनः ।। १३२ !! पक्षे साध्यविशिष्टे तु परामर्शो गुणो भवेत् । शक्थे सादृश्यबुद्धिस्तु भवेदुपमितौ गुणः ।। १३३ ॥ शाब्दबोधे योग्यतायास्तात्पर्यस्याथ वा प्रमा। गुणः स्याद्भमभिन्नं तु ज्ञानमत्रोच्यते प्रमा ।। १३४ ॥ गुणा इत्याकाङ्क्षायां प्रत्यक्षादौ क्रमेण गुणान् दर्शयति । प्रत्यक्षे त्वि- ति ॥ प्रत्यक्षे विशेषणवद्विशेष्यसन्निकर्षों गुणः । अनुमितौ साध्यवति साध्यव्याप्यवैशि- ष्टयज्ञानं गुणः । एवमप्रेऽप्यूह्यम् । प्रमां निरूपयति ॥ भ्रमभिन्नमिति ॥ १३२ ।। १३३ ॥ १३४ ॥ ननु यत्र शुक्तिरजतयोरिमे रजते इति ज्ञानं जातं तत्र रजतांशेऽपि प्रमा न स्यात् । प्रभा. श्यं वाच्यत्वादित्यर्थः । अन्यथा उक्तदोषापत्तरिति भावः । अत्र प्रत्यक्षप्रमा प्रत्येव पित्तादिदोषाभावत्यापि उक्तदोषवारणाय हेतुत्वं वाच्यम् । एवं प्रत्यक्षत्रमं प्रत्येव गुणाभावस्याप्युक्तदोषचारणाय हेतुत्वं वाच्यं न त्वनुमित्यादौ साध्यतत्पक्ष विशेष्यकपरामर्शादिरूपगुणसत्त्वे साध्याभाववपक्षविशेष्यकपरामादिरूप दोषा- प्रसक्त्या प्रमानुमित्यादौ न हेतुत्वं ताशदोषाभावस्य प्रमाणाभावात् । एवं साध्याभाववत्पक्षविशेष्यकपरा- मर्यादिरूपदोषसत्ले साध्यवपक्षविशेष्यकपरामर्शादिरूपगुणसत्त्वाप्रसक्त्या भ्रमानुमित्यादौ तादृशगुणाभाव- स्यापि न हेतुत्वं प्रमाणाभावादित्यपि बोध्यम् ।। १३१ ॥ एवमग्रेऽप्यूह्यामिति ॥ उपमितिप्रमायां शक्यविशेष्यकसादृश्यप्रकारकशानं शाब्दप्रमायां यो. ग्यताप्रमा तात्पर्यनमा वा गुण इत्ति बोध्यमित्यर्थः । इदमुपलक्षणं तत्र प्रत्यक्षादिप्रमाचतुष्टयसाधारण- भगवज्ज्ञानानिरूपितानुभवसामान्यनिरूपित तनिष्ठप्रकारतानिरूपिततदाश्रयनिष्टविशेष्यताशालित्वावच्छिन्नं प्र- ति तत्समानाकारकभगवज्ञानव्याक्तित्वावच्छिन्नमेकमेव गुणः लाघवादित्यपि बोध्यम् । भ्रमभिन्नन्तु ज्ञानम- त्रोच्यते प्रमेति मूलं न प्रमासामान्यलक्षणपरं भ्रमस्यापि किञ्चिदंशे प्रमात्वेन लक्ष्यतया तत्र भगवज्ञानानि- रूपितविषयताशालिज्ञानभिन्नत्वरूपभ्रमभिन्नत्वघटित्तलक्षणस्याव्याप्तिप्रसङ्गात् किन्तु तदभाववनिष्ठविशेष्यता. निरूपिततनिष्ठप्रकारताशालिज्ञानभिन्नतत्प्रकारकज्ञानत्वरूपप्रमाविशेषलक्षणपरं एवंच इदन्त्वेन शुक्त्यादि- विशेष्यकरजतत्वादिप्रकारकज्ञानस्य शुक्तिनिष्टइदन्त्वाभाववद्विशेध्यकइदन्त्वप्रकारकज्ञानभिन्नत्वात्तस्येदन्त्वप्र- मात्वमुपपद्यते रजतत्त्वाभाववद्विशेष्य करजतत्वप्रकारकज्ञानभिन्नत्वाभावात् न तस्य रजतत्वाशे प्रमात्वमिति बोध्यम् ॥ १३२ ॥ १३३ ॥ १३४ ॥ एतल्लक्षणं दूषयित्वा उत्तरलक्षणमवतारयति ॥ नन्विति ॥ भ्रमस्य कि- चिदंशे प्रमात्वेन लक्ष्यत्वेऽपि भगवज्ञानानिरूपितविषयताभिन्नविषयताशालित्वरूपभ्रमभिन्नत्वस्य प्रमासामान्यलक्षणघटकत्वस्वीकारेणैव एतादृशसामान्यलक्षणस्यापि भ्रमे समन्वयसंभवात् । अव्या. प्त्यप्रसक्त्या उक्तमूलस्य प्रमाविशेषलक्षणपरत्वे बीजाभाव इति वाच्यं निरुक्तपारिभाषिकभ्रमभिन्नत्वस्य भ्रमभित्रन्तु ज्ञानमित्यादिकारिकाघटकपदप्रतिपाद्यत्वाभावेन मूलकाराननुमतत्त्वात् निरुक्कसामान्यलक्षणघट-- दिनकरीयम् . एवमग्रेऽप्यूह्यामिति ॥ उपमिती शक्ये सादृश्यज्ञानं शाब्दवोधे योग्यतायाः तात्पर्यस्य वा प्रमैव गुण इति भावः ।। १३२ ॥ 1३३॥ १३४ ॥ नच