पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड: अथवा तत्प्रकारं यज्ज्ञानं तद्विशेष्यकम् । तत्प्रमा न प्रमा नापि भ्रमः स्यानिर्विकल्पकम् ॥ १३५ ॥ तज्ज्ञानस्य भ्रमभिन्नत्वाभावादत आह ॥ अथवेति । तद्वद्विशेष्य कत्वे सति तत्प्रकारकं झान प्रभा. कज्ञानत्वस्यैव प्रमासामान्यलक्षणत्वसंभवेन शेषवैयापत्तेश्च तस्मान्मूलभ्य सामान्यलक्षणपरत्वा संभवात प्रमाविशेषलक्षणपरत्वमावश्य कमिति ॥ यत्रेति ॥ यदीत्यर्थः तस्य ज्ञानेन सहान्वयः ॥ शुक्तिरजतयो- रिति । इदन्वेन शुक्तिरजतोभयविशेष्यकरजतत्वप्रकारकसमूहालम्बनात्मकं यत् ज्ञानं जातमित्यर्थः ॥ तत्रेति ॥ तादृशज्ञानमित्यर्थः ।। रजतांशेऽपि प्रमा न स्यादिति । शुक्तिविषयकत्वावच्छेदेन यथा रजतत्वप्रमावशून्यं तथा रजतविषयकत्वावच्छेदेनापि रजतत्वप्रमावशून्यं स्यादित्यर्थः । तत्र हेतुमाह ॥ तज्ज्ञानस्थति ॥ निरुक्त समूहालम्बनज्ञानस्येत्यर्थः ॥ भ्रमभिन्नत्वाभावादिति ॥ रजतत्वाभाववद्भिः शेष्य कर जतत्व प्रकारकज्ञानसामान्यमित्रत्वाभावादित्यर्थः । यद्यपि रजतत्वाभाववन्निष्टविशेष्यतानिरूपितरजा तत्वप्रकारताशालिज्ञानभिन्नरजतत्त्वग्नकारताशालिज्ञानत्वस्य मूलप्रतिपाद्यस्य रजतत्व प्रमालक्षणापेक्षया ताह- शप्रकारताभिन्नं रजतत्वप्रकारताशालिज्ञानत्वस्यैव रजतत्वप्रमालक्षणत्वमुचितं द्विधा ज्ञानवप्रवेशापेक्षया लाघवात्तस्य मूलघटकपदाप्रतिपाद्यत्वेऽपि मूलतात्पर्यार्थस्वसंभवात् । एवं चोक्तसमूहालम्बनस्य रजतांश निरुतरजतत्वप्रमात्वोपपादनसंभवाल्लक्षणान्तरानुसरणे निरुक्तानुपपत्तन प्रसक्ति: । अत एव भ्रमभिन्नत्वं न यथाश्रुतं आंशिकप्रमायां अव्याप्तेः किन्तु भ्रमत्व घटकनिरूप्यनिरूपकभावापन्नविषयताभिन्न विषयत्ताशालिवमि. त्यस्मद्गुरुचरणोक्तिरपि सङ्गच्छते । तथापि तन्नि प्रकारतायां तनिष्टविशेष्यतानिरूपितत्वघटितवक्ष्यमाणलक्षणा. पेक्षया तनिष्ठप्रकारता यां तदभाववानिष्टविशेष्यतानिरूपितत्तन्निष्टप्रकारताभिन्नत्वघटितनिरुक्ततत्तत्प्रमालक्षण- स्यापि गुरुत्वादेतल्लक्षण परित्यज्य लक्षणान्तरमनुमृतमिति हृदयम् । ननु तत्प्रकारकं यज्ज्ञानं तद्वद्विशेष्यक. मिति यथाश्रुतमूलात्तत्प्रकारकत्वविशितद्वदिशेयकत्वविशिष्टज्ञानत्वं तत्प्रमालक्षणमिति लभ्यते तचानुपपन्न- मिदन्त्यावच्छिन्नरजतविशेष्यकदव्यत्वप्रकारकेदत्वावच्छिन्न शुक्तिविशेष्यकरजतत्वप्रकार केदं व्यमिदं रजत- मिांत समूहालम्बनात्मकरजतस्य रजतत्ववाद्विशेष्यकत्वात् शुक्यंशे रजतत्वप्रकारकत्वाच तत्र रजतत्वप्रमा. लक्षणस्यातिव्याप्त्यापत्तरित्याशङ्का तन्मूलस्य तात्पयार्थप्रकाशनेन परिहरति ॥ मुक्तावळ्यां तहद्विशे- ध्यकमिति ॥ तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्व वज्ञानत्वं तत्प्रमालक्षणमित्यर्थः ययोर्विषयतयोर्निरूप्य निरूपकभावः ज्ञाननिष्ठतादृशविषयतानिरूपकत्वयोरेवावच्छेद्यावच्छेदकभावस्वीकारात् निष्ठविशेष्यतानि रूपिततज्ज्ञानीय तनिष्ठप्रकारताकत्वं तत्प्रमालक्षणमिति फलितम् । एवंच निरुक्तसमूहालम्बनात्मकज्ञानी- यरजतत्त्वनिष्ठप्रकारताया: रजतत्ववनिष्टविशेष्यतानिरूपितत्वाभावात् तद्धटितलक्षणस्य न तत्रातिव्याप्ति. प्रसक्तिः इच्छादावतिव्याप्तिवारणाय ज्ञानत्वनिवेश: तदपि प्रकारतायां ज्ञाननिरूपितत्वलाभाय नतु स्वातन्त्र्येण तस्य निवेशः । तथासति तादृशप्रकारताकत्वविशिष्टज्ञानत्वस्य लक्षणत्वे तज्ज्ञानत्वविशिष्टता. दृशप्रकारताकत्वमादाय विशेषणविशेध्यभावे विनिगमनाविरहप्रयुक्तलक्षणद्वयस्वीकारपत्तेः तादृशप्रकारताक त्वज्ञानत्वोभयत्वावच्छिन्नस्य लक्षणत्वे लक्षणतावच्छेदकासाधारणसंबन्धाप्रसिद्धघासंभवापत्तेः अत्र तद्वन्नि- घविशेष्यत्वं तत्संबन्धिनिष्ठत्वमेव न तु तदधिकरणानिष्टत्वं घटादिविशेष्यकतादात्म्येन च्यादिप्रकार- कप्रमायामव्याप्त्यापत्तेः नवमपि घटपठोभयं घट इत्याकारकघरत्वप्रकारकत्रमस्यापि घटत्वसंबन्धिनि- विशेष्यतानिरूपित तज्ज्ञानीयपरत्वप्रकारताकत्वात् घटत्व-भालक्षणस्यातिव्याप्तिरिति वाच्यं विशेष्यत्तायां दिनकरीयम् . नन्वेवं रङ्गरजतयोरिमे रजतरजे इति ज्ञानेऽतिव्याप्तिरत आह ।। तद्वद्विशेष्यकत्वे सतीति ॥ तद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्ववज्ज्ञानीमत्यर्थः । सतिसप्तम्या अवच्छिन्नत्वार्थकत्वात् । तत्प्रकारकभ्रमे ऽतिव्याप्तस्त द्विशेष्यकेति । रजत एव द्रव्यमिति ज्ञाने रजतत्वप्रमात्वापत्तिरतस्तत्प्रकारकेति । ज्ञानपदं च