पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड: तत्र गुरूणां मते ज्ञानस्य स्वप्रकाशकत्वात्तज्ञानप्रामाण्यं तेनैव गृह्यत इति । भट्टानां मते ज्ञानमतीन्द्रियं ज्ञानजन्या ज्ञातता प्रत्यक्षा तया च ज्ञानमनुमीयते । मुरारिमिश्राणां मतेऽनु- प्रभा. यपि अप्रमा च प्रमा चेति विभागकारिकया अप्रमावस्यैव प्रथममुपस्थितत्वात्तस्यैवादो परतोग्राह्यत्वव्यव- स्थापनमुचितं तथाप्यप्रमावस्य प्राभाकरमतेऽलीकत्वात् तद्धर्मिाण प्रकाराभावस्य व्यवसायाविषयत्वात् भट्टादिमतेऽपि अनमात्वं परतोग्राहामेवेति तस्य स्वतोग्राह्यत्ववादिनिराकरणाप्रसक्त्या सौलभ्यात् आदौ तम्यो- पस्थितत्वेऽपि परतोग्राह्यत्वव्यवस्थापनमकृत्वा प्रमात्वस्य स्वतोग्राह्यत्वनिराकरणपूर्वकपरतोग्राह्यत्व व्यवस्था - पनस्य कष्टतया ऋष्टमनुभुज्य सुखं भोकव्यमिति न्यायेन सर्वैरपि प्रमावस्यैव परतोग्राह्यत्वेन व्यवस्थापि- तत्वात् तदनुसारेण मूलकृतापि तथैव कृतमिति ध्येयम् । ननु मीमांसकमतासिद्धं स्वताप्राह्मत्वमप्रति- पाद्य मूले तन्निराकरणमयुकं तस्यैवाज्ञानादित्याशङ्कां मतभेदेन सिद्धस्वती ग्राह्यत्वप्रतिपादनेन परिहत्य त. न्मूलं सामयितुमादौ तन्मतमुपन्यस्यति ।। मुक्तावळ्यां मीमांसका हीति ॥ प्रमात्वमिति ॥ त द्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वपर्यवसितप्रमात्चामत्यर्थः । तत्तन्मतसिद्धस्वतोपाह्यत्वं कमेणोपपादयति ॥ तत्रेति ॥ त्रिघु मीमांसकेषु मध्य इत्यर्थः । गुरूणां मत इति ॥ प्राभाकरमत इत्यर्थः ॥ स्वप्रकाशकत्वा- दिति ॥ स्थाभिन्नज्ञानविषयत्वावश्यकत्वादित्यर्थः तथाच ज्ञागस्य नगतप्रामाण्यस्य वा ज्ञानान्त रग्राह्यत्वे ता. दृशज्ञानान्तरस्य तद्गतप्रामाण्यस्य च ग्रहार्थ ज्ञानान्तरापेक्षायामनवस्थापत्या स्वप्रकाशरूपत्वमावश्य कमिति भावः ॥ तज्ज्ञानप्रामाण्यमिति ॥ तज्ज्ञाननिष्टनिरुतप्रमात्वमित्यर्थः ॥ तेनैव गृह्यत इति ॥ त- ब्राहकसामप्रीमात्रेण गृह्यत इत्यर्थः तबाहकयावत्सामग्रीप्राह्यमिति यावत् तज्ज्ञाननिष्ठनिरुक्तप्रमात्वं स्वाश्र- यत्राहकसामग्रीत्वव्यापकस्वप्राहकसामप्रीत्वकं स्वाध्यमहत्वव्यापकविषयितानिरूपकं वेति फलितोऽर्थः । त- थाच ताशसामग्रीकत्वं तादृशविषयतानिरूपकत्वं वा तन्मते स्वतस्त्वमिति भावः । ननु तन्मते ज्ञानस्य स्वाभिन्नज्ञान विषयत्वेऽपि स्वस्य स्वनिष्ठप्रामाण्यावगाहित्ये प्रमणाभाव इति चेन्न तादृशशब्दोल्लेखिप्रत्ययस्यैव मानवात् । तथाहि तन्मते अयं घटो घटमहं जानामीत्येव ज्ञानोल्लेखः तत्र घटपदार्थघटत्वविशिष्टत्य द्विती. यार्थघटत्वनिष्ठनकारतानिरूपितविशेष्यतायां आधेयत्वसंबन्धनान्वयः तस्य ज्ञाधात्वर्थज्ञाने निरूपकत्वसंबन्धेना न्वयः तस्यास्मत्पदार्थे समवायेनान्वयः तथाच घटत्ववनिष्टघटत्वनिष्ठप्रकारतानिरूपितविशेष्यतानिरूपकत्व- विशिष्टज्ञानाश्रयोऽहमिति शाब्दबोधः । एवं चैतादृशशाब्दवोधग ज्ञानांशे घटत्वनिष्ठप्रकारतानिरूपितघटत्वव निष्ठविशेष्यताकत्वरूपप्रमावविषयकतया तादृशशब्दोल्लेखिप्रत्ययस्यापि प्रमात्वविषयकत्वमव्याहतम् । नच निरुतप्रमावस्यानुपस्थितत्वात् अनुव्यवसाये विशेषणतया भानासंभव इति वाच्यम् प्राभाकरमते विशिश्वुद्धौ विशेषणज्ञानस्याहेतुत्वात् प्रमात्वविशिष्टवैशिष्टयावगाहिबुद्धौ प्रमात्वप्रकारकनिर्णयस्याहेतुत्वाच्च तत्रानुपस्थित. स्यापि प्रमावस्य भाने बाधकाभाव इति । अनुमानप्रायत्वेन सिद्धसाधनवारणाय स्वप्राहकसामग्रीत्वे स्वाथ यप्राहकसामप्रीत्वसमानाधिकरणत्वं विषयतायां स्वाश्रयमहत्वसमानाधिकरणत्वं च परित्यज्य तत्र तत्र तद्वपा- पकत्वं निवेशितम् ॥ ज्ञानमतीन्द्रियमिति ॥ ज्ञानसामान्य लौकिकविषयताशून्यमित्यर्थः । आत्मसमवेत. तिलौकिकविषयतासंबन्धेन प्रत्यक्ष प्रति धर्माधर्मादरिव ज्ञानस्यापि तादात्म्यसंबन्धेन प्रतिबन्धकत्वादित्या. शयः ॥ ज्ञानजन्यज्ञातसेति ॥ ज्ञानजन्यविषयसमवेतपदार्थान्तररूपेत्यर्थः ॥ प्रत्यक्षेति ॥ ज्ञातो घट इति प्रत्यक्षनिरूपितलौकिकविषयतावतीत्यर्थः । तथाच प्रत्यक्षप्रमाणेन ज्ञातताया: सिद्धत्वान्नैयायिकानां प्रमाणाभा- वप्रयुकत्वाकिस्बोक्तिरसङ्गतेति भावः ॥ तथाचेति ॥ प्रत्यक्षप्रमाणसिद्धज्ञानतया चेत्यर्थः समुदायार्थचश- ब्दः ज्ञानमित्युत्तरं योज्यः ॥ ज्ञानमनुमीयत इति ॥ ज्ञानं तद्गतप्रामाण्यं चानुमीयत इत्यर्थः। तथाचत- दिनकरीयम् . काशकत्वादिति ॥ स्वविषयकवादित्यर्थः ॥ तेनैव गृह्यत इति ॥ ज्ञाने गृह्यमाणे । तन्निष्टझानत्वा- दिधर्मवत्तनिष्ठप्रामाण्यस्यागि प्रहे बाधकाभावात्तन्मते सर्व ज्ञानमयं घटो घटमहं जानामीत्याद्याकारकमिति भावः । तया चेति । अयमत्रानुमानप्रकारः इयं ज्ञातता घटविशेष्यकपठत्वप्रकारकज्ञानजन्या घटवत्ति-