पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ७४९ व्यवसायेन ज्ञानं गृह्यते । सर्वेषामपि मते तज्ज्ञानविषयकज्ञानेन तज्ज्ञानप्रामाण्यं गृह्यते प्रभा. ज्ज्ञातता घटविशेष्यकरदत्वप्रकारकज्ञानजन्या घटसमवेतपरत्वप्रकारकज्ञाततात्वात् घटसमवेतघटत्वप्रका- रकलाततान्तरवाहित्यनुमानात या यत्समवेतयत्प्रकारकज्ञाततात्ववती सा तद्विशेष्य कतत्प्रकारकज्ञानजन्या प- टसमवेतपटत्वप्रकारकज्ञाततावदित्यनुमानाद्वा ज्ञानं तद्वतप्रामाण्यं च सिध्यतीति भावः । ननु तल्लिङ्गकपरा- मर्शोत्पत्तिः तेन तद्गतश्रामाण्यानुत्पत्तिश्च कथमिति चेदित्यं घटचक्षुसंयोगानन्तरं अयं घट इति प्रत्यक्षं त. तो विषये समवायेन स्वरूपेण वा ज्ञाततोत्पत्तिः तदुत्तरक्षणे इन्द्रियसंबन्धविशेषणतया ज्ञाततायाः तस्यां तादृशविशेषणविशेषणतया घटत्वप्रकारकत्वस्य उपनयादिसन्निकर्षवशादाधेयतासंबन्धेन घटस्य च घदवृत्तिः घटस्वप्रकारिकाज्ञाततेत्याकारकप्रत्यक्षं तदुत्तरक्षणे तादृशप्रत्यक्षरूपोद्बोधकसहकृतेन एतज्ज्ञानीयसंस्कारेण एतजन्मीयसंस्कारेण जन्मान्तरसंस्कारेण वा घट समवेतघटत्वप्रकारकज्ञाततात्वं घटविशेष्यकघटत्वप्रकारक. ज्ञानजन्यत्वव्याप्यामिति व्याप्तिस्मरणं तदुतरक्षणे तादृशज्ञानजन्यत्वव्याप्य ज्ञाततात्ववतीय मिति स्वरूपसंबन्धे. न व्याप्यवत्तापरामर्श तदुत्तरक्षणे ज्ञाततायां ज्ञानजन्यत्वावगाहिनि ज्ञाने निरुक्तप्रामाण्यावगाहिनी चानुमिति भवति एतन्मते स्वाश्रयानुमितिजन कसामग्रीत्वव्यापकस्त्रप्राहकसामग्रीत्वकत्वं स्वाश्रयानुमितित्वव्यापकवि. षयताकत्वं वा स्वतस्त्वमिति हृदयम् । ननूक्तप्रणाळ्या घटे ज्ञातताप्रत्यक्षोत्तरं इयं ज्ञातता ज्ञानसामान्यजन्या ज्ञाततात्वात् पटादिवृत्तिज्ञाततावदित्यनुमानात् घटसमवेतज्ञातताविशेष्य कज्ञानसामान्यजन्यत्वावधेयकानुमि- युत्पत्ती तादृशानुमितिसामग्या अपि स्वाश्रयविषयकानुमितिजनकसामप्रीत्वात्तत्र वप्राहकसामग्रीवाभावात् निरुक्तानुमितेरपि स्वाश्रयविषयकानुमितित्वात् तत्र स्वनिष्ठविषयतानिरूपितवियित्वाभावाञ्च प्रमात्ये भाम- तासद्धस्वतस्त्वासंभव इति चेन्न स्वाश्रयनिष्ठसविशेष् यकसप्रकारकत्वविषयकानुमितिजनकसामग्रीत्वव्यापकस्व- ग्राहकसामनीकत्वस्य तादृशानुमितित्वव्याप कविषयितानिरूपकत्वस्य वा तन्मते स्वतस्त्वरूपत्वेन निरुक्तानुमि- तौ तत्सामग्यां च व्यायामाचेन व्यापकाभावेऽपि क्षत्यभावात् प्रमात्वेन तन्मतसिद्धस्वतस्त्वानुपपत्तिः । नन्वे- वमपि पूर्वोक्तप्रणाळ्या घटव्यक्तिसमवेतज्ञातताविशेष्यकज्ञानसामान्य जन्यत्वानुमित्युत्तरं एतद्यक्तिसमवेतज्ञात- ताजनकज्ञानमनमा घटस्वप्रकारकज्ञातताजनकज्ञानत्वात् घटत्वप्रकारक ज्ञानत्वाद्वा मृत्पिण्डव्यफिसमवेतघटत्वप्र. कारकतातताजनकज्ञानवदित्यनुमानात् तादृशमानविशेष्य काप्रमात्वविधेयकानुमित्युत्पत्तौ तादृशानुभितेरपि स्वा. श्रयनिष्ठविशेष्यकत्वसप्रकारकत्वविषयकत्वात् तत्र स्वविषयकत्याभावात् तादृशानामतिजनकसामय्या अपि स्वा- श्रयनिष्ठसविशेष्यकत्वादिविष्यकानुमितिजनकसामप्रीत्वात् तत्र स्वविषयकानुमितिजनकसामप्रीत्वरूपव्याप- काभावात् प्रमात्वे भद्रमतसिद्धनिरुतस्वतस्त्वानुमितिर्दुवारेति चेन्न । स्वाश्रयनिष्ठसविशेष्यकत्वादिविषयका. नुमितौ स्वाश्रयविशेष्यकाप्रामाण्यप्रहासभवहितत्वस्य तादृशानुभितिजनक सामय्यां तादृशाप्रामाण्य प्रकारक- ज्ञानजनकदोषासमवाहितत्वं च विशेषणीयत्वात् निरुक्तानुमितेः स्वात्मकतादृशाप्रामाण्यप्रहसमवहितत्वात् ता- दृशानुमितिसामय्याश्वानमात्वरूपसाध्यशून्यज्ञानरूपपक्षविशेष्यकपरामर्शरूपदोषसमवहितत्वाच प्रमात्वेन त- न्मतासिद्धस्वतस्त्वानुपपत्तिः । एवंच स्वाश्रयविशेष्यकाप्रामाण्यप्रकारकज्ञानजनकदोषासमवाहितत्वाश्रयनिष्ठ- सविशेष्यकत्वसप्रकारकत्वविषयकानुमितिजनक सामग्रीत्वव्यापकस्वप्राहकसामप्रीत्वकत्वं स्वाश्रयविशेष्यका- प्रामाण्यमहासमवहितस्वाश्रयनिष्ठसविशेष्यकत्वादिविषय कानुमितित्वव्यापकविषयितानिरूपकत्वं वा तन्मत. सिद्धानळितस्वतस्त्वमिति न काप्यनुपपत्तिः ॥ मिश्राणां मते विति || अत्राप्यर्थकतुशब्दः अनुन्य- वसायेनेत्युत्तरं योज्यः । अनुव्यवसायेनेति ॥ प्राथमिकानुव्यवसायेनापीत्यर्थः ॥ ज्ञानं गृह्यत इति ॥ ज्ञानं तद्तनिरुतप्रामाण्यं च विषयोक्रियत इत्यर्थः । ननु विषयचक्षुस्संयोगानन्तरं पुरोवृत्तिविशेष्यकरज- तत्वप्रकारकज्ञाने सति रजत्तविशेष्यकेष्टसाधनताज्ञानाधीनरजतप्रवृत्त्युत्तरं रजतलाभे रजतं रजततया जाना- दिनकरीयम् . घटत्वप्रकारकज्ञाततात्वात् या यत्तिर्यप्रकारिका ज्ञातता सा तद्विशेष्यकतत्प्रकारकज्ञानसाध्या यथा पटे पटत्वप्रकारिका ज्ञाततेति ॥ अनुव्यवसायेनेति ॥ ननु ज्ञानज्ञानस्य विषयाविषयकत्वात् कथं विषयघ-