पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । 1 ति ॥ संशयेति । यदि शानभ्य प्रामाण्यं स्वतोग्राह्यं स्यात् तदानभ्यासदशापन्नशाने प्रामाण्यसंशयो न स्यात् तत्र हि यदि ज्ञानं ज्ञातं तदा त्वन्मते प्रामाण्यं ज्ञातमेवेति कथं प्रभा. जायमानव्यवसायनिष्ठलौकिकविषयताशालिप्रत्यक्षमात्रस्य न ज्ञानवमात्रेण ज्ञानविषयकजानामीत्य नुव्यवसा- यरूपता किन्तु ज्ञानांश घटत्वादिविशिष्टवैशिष्ट्यावगाहिघटमहेजानामीत्याद्यनुव्यवसायरूपतैवेति विषयघाट- तनमात्वेन तन्मतसिद्धस्वतस्त्वस्य नानुपपत्तिीति । केचित्तु ननु ज्ञानज्ञानस्य विषयाविषयकत्वात् । कथं वि । घयवाटतप्रामाण्यं तस्थ विषय इत्यतो ज्ञानज्ञानस्य विषयविषयकत्वे प्रभाणमाह विषयनिरूप्यं हीति विषयाविषयकप्रत्यक्षाविषयक इत्यर्थः ज्ञानवित्तिवेद्यो विषय इति विषयविषयतानियतत्व वि. षयताकप्रत्यक्षज्ञानमित्यर्थः । अतो न साध्य हेत्वोः वैयधिकरण्यं तथाच ज्ञानविषयविषमतानियतश्चाविषयता कप्रत्यक्षकं विषयावि यकप्रत्यक्षाविषयत्वे सति प्रत्यक्षविषयत्वात् इत्यनुमानं ज्ञानप्रत्यक्षस्य विषयविषयक त्वे प्रमाणमिति भाव इत्याहुः तदसत् उक्तहेतोः कथञ्चिदपि विषयं निरूप्य शब्दप्रतिपाद्यस्वाभावात् निरुक्तसा. ध्यस्य ज्ञानवित्तिवेद्यशब्दप्रतिपाद्यत्वाभावाचौदक्षरत्वापत्तेः किञ्च जानामति वाक्यजन्य शाब्दबोधेऽपि ज्ञानवि- षयतायास्सत्त्वात् तत्र ज्ञानविषयविषयत्वाभावेन विषयविषयितानियतस्वविषयत्वाप्रसिद्धथा विशिष्ट साध्याप्र- सिद्धेः स्वविषयिताकप्रत्यक्षकत्वे विषयविषयिताव्याप्यत्वसत्वेन विषयविषयितानियतस्वविषयिताशालिप्रत्य- क्षत्वकत्वस्य साध्यत्वस्वीकारे दृष्टान्तपक्षसाधारणस्वत्वस्याभावेन एकैकस्वत्वघटितसाध्यस्यान्यनाभावात् हेतोयभिचारित्वापत्तेः । अपिच स्वविषयिताशालिप्रत्यक्षत्वे विषयविषयित्वव्याप्यत्वज्ञानमन्तरा विशिष्टसाध्य- ज्ञानासंभवेन उक्तहेतौ विशिष्टसाध्यनिरूपितव्याप्यत्वज्ञानस्य सुतरामसंभवात् प्रथमतस्तज्ज्ञानस्यावश्यकत्वे ताट शज्ञानविषयस्वविषयताशालिप्रत्यक्षस्वलिङ्गनानुव्यवसाये विषयविषयित्वसाधनेनैव इष्टसिद्धेः विषयाविषयकप्र. त्यक्षाविषयत्वघटित हेत्वन्तरे तादृशप्रत्यक्षत्वकत्वव्याप्यत्वज्ञान सम्पाद्य तादृशहेत्वन्तरेण विषयविषयित्वाविधे- यकविषयविवयित्वसिद्धिपर्यवसिततादृशप्रत्यक्षत्वकत्वसाधने प्रयोजनविरहात् किंच विषयाविषयकप्रत्यक्षाप्र. सिद्धथा तद्विषयत्वघटितहेतोः सुतरामप्रसिद्धत्वात् । ननु ज्ञानपदस्य घटादिज्ञान विशेषपरतया विषयपदस्य स्वविषधार्थकतया च घटादिज्ञानस्य स्वविषयविषयत्वव्याप्यस्वविषयताशालिंप्रत्यक्षत्वकं घटादिज्ञान विषया. विषयकप्रत्यक्षाविषयत्वे सात प्रत्यक्षविषयत्वात् यद्यद्विपयाविषयकप्रत्यक्षाविषयत्वे सति प्रत्यक्षनिरूपित- विषयतावद्भवति तत् स्वविषयविषयत्वव्याप्यस्वविषय ताशालिप्रत्यक्षत्वकं भवति यथा घटादीच्छावत् इत्यनुमानपर्यवसानात् घटादिज्ञानविषयाविषयकपटादिप्रत्यक्षस्यैव प्रत्यक्षसिद्धत्वात् न तद्धटितहेतोरप्रसिद्धि- रिति चेन्न । ज्ञानप्रत्यक्षस्य ज्ञान विषयविषयकत्वासेद्धेः प्राक् घटादिज्ञानस्य घटाद्यविषयक प्रत्यक्षाविषयत्व: स्यासिद्धथा तद्धटित हेतोस्सुतराम प्रसिद्धत्वेन तेन हेतुना निरुक्तसाध्यसाधनासंभवात् तस्मात् विषयनिरूप्यं हीत्यादिमुक्तावळीग्रन्थस्य नोक्कार्थसंभव इति दिक् ॥ तन्मतमिति । प्राभाकराद्यभिमतनिरुतस्वतस्त्वन- यमित्यर्थः संशयानुपपत्तित इति मूलेन प्रामाण्यस्य स्वतस्त्वपक्षे संशयानुफ्पत्तिक्ता तत्र हेतुप्रदर्शनाय त- न्मूलार्थमाह ॥ यदीति । अनभ्यासदशापनेति ॥ नैयायिकैः प्रमात्वेनानिर्णीतेत्यथः । ज्ञाने प्रा. माण्यसंशयो न स्यादिति ॥ मीमांसकानां तादृशज्ञानविशेष्यकप्रमात्वसंशयो न स्यादित्यर्थः ॥ ज्ञाल. मेवेति । नितमेवेत्यर्थः तव मते उज्ज्ञानविषयकज्ञानस्य तज्ज्ञाननामाण्यावगाहित्यनियमादिति भावः । ननु प्राभाकरमते घटादिज्ञानस्यैव तज्ज्ञानविषयकत्वात् तज्ज्ञाननिष्टप्रामाण्यावमाहित्वावश्यकतया संशयानु- पपत्तिसत्त्वेऽपि भट्टादिमते प्राथमिकघटादिज्ञानस्य तज्ज्ञानाविषयकतया प्रमत्त्व विषयकवाभावात् प्राथामि दिनकरीयम् . ताकप्रत्यक्ष ज्ञानमित्यर्थः । अतो न साध्यहेत्वोयधिकरण्यम् । तथा च ज्ञानं विषयविषयकतानियतस्ववि. षयकताकप्रत्यक्षकं विषयाविषयक प्रत्यक्षाविषयत्वे सति प्रत्यक्षविषयकवादित्यनुमानं ज्ञानप्रत्यक्षस्य विषय- विषयकत्वे प्रमाणामिति भावः । भट्टमते च प्रत्यक्षस्थानाभिषिका ज्ञाततालिकानुमितिरेव बोध्येत्यन्यत्र वि. स्तरः ॥ अनभ्यासदशापनेति ॥ अनवधृतप्रामाण्यसजातीयेत्यर्थः ।। ज्ञातमेव निश्चितमेव ॥ गन्धव-