पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । प्रमालक्षणे तद्वद्विशेष्यकत्वविशेषणं व्यर्थम् । नच रङ्गे रजतार्थिनः प्रवृत्तिभ्रमजन्या न स्या- त्तव मते भ्रमस्याभावादिति वाच्यम् । तत्र हि दोषाधीनस्य पुरोवर्तिनि स्वतन्त्रोपस्थितरज- प्रभा. त्वविशिष्टतत्प्रकारकत्वस्य व्याप्यतया गृह्यमाणधर्मवद्विशेष्यकत्वविशिष्टव्यापकप्रकारकत्वव्याप्यत्वादिति नि- यमस्य प्रकृते प्राप्त्यर्थं स्नेहरूपगुणे जलत्वव्याप्यत्वनिश्चयस्यापेक्षणीयतया पुरोवृत्तिनि जलवव्याप्यत्वेन गृह्यमाणस्नेहवत्तानि येनैव इदं जलं न वेति जलवाभावकोटिकसंशयानुत्पत्तेः प्रामाण्यानुमानमफलमिति चेन खतस्त्वसिद्धिशङ्काविरहस्थले निरुक्तनियमप्रापकस्नेहादिविशेष्यकजलत्वव्याप्यत्वनिश्चयस्यानावश्यक तया तत्र विषयसंशायकप्रामाण्यसंशयनिरासायो कानुमितेरावश्यकत्वात् । इदमुपलक्षणं प्रामाण्यस्यानुसेय. त्ववत् द्वितीयानुव्यवसायवेद्यत्वमपि संभपति तथाहि जलं जानामीति प्राथमिकानुव्यवसायोत्तरं प्रवृत्तौ स- त्यांजललाभे सति जलमेव समवायेन जलत्वेन जानामीति द्वितीयानुव्यवसाय: जलत्वसमवायज्ञानानामुप- स्थितिवशाज्जायते तत्र तन्मतसिद्धप्रामाण्यमपि विषय इत्यपि बोध्यं तत्रोक्तलिङ्गेन प्राथमिकानुव्यवसायो. त्तरकालीनप्रमात्वानुमित्युत्तरं जलवादिप्रकारकप्रमावानमित्यनुव्यवसायः तादृशद्वितीयानुव्यवसायविषय. त्वमेव तन्मतसिद्धप्रमात्वस्य वाच्यमित्यस्मद्गुरुचरणाः । प्राभाकर.३शङ्कते ॥ नन्विति ॥ सधैषी ज्ञाना नामिति ॥ घटस्वादिधर्मप्रकारकज्ञानमात्रस्येत्यर्थः । यथार्थत्वादिति ॥ घटत्वादिमनिष्ठविशेष्यताकत्वादि- त्यर्थः। घटरवादिमनिष्ठविशेष्यताक्रत्वस्य घटत्वादिप्रकारकज्ञानत्वव्यापकत्वादिति समुदितवाक्यार्थः ॥ प्रमा. लक्षण इति ॥ घटत्वादिप्रमालक्षण इत्यर्थः घटकरवं सप्तम्यथः अन्न यश्चास्य तद्वद्विशेष्यकत्व विशेषणे ॥ तद्ध. द्विशेष्यकत्वविशेषणमिति । घटत्वादिमनिष्ठविशष्यताकत्वविशेषणमित्यर्थः ॥ व्यर्थमिति ॥ अति. व्याप्त्यवार कमित्यर्थः अलक्ष्यस्यैवाळीकत्वादिति भावः यथाश्रुतन्तु न सम्यक् अन्यथाख्यात्यङ्गीकर्तृमतेऽपि भ्रमस्यापि किश्चिदंशे प्रमात्वेन ज्ञानत्वरूपप्रमात्वस्यैव प्रमासामान्य लक्षणतया तस्य तद्वद्विशेष्यकत्वाघटितत्वेन तादृशविशेषणवैयर्थ्यशङ्काया असाझयापत्तेः॥ रङ्गे रजतार्थिन इति ॥ रजतार्थिनः रके भ्रमजन्या प्रवृत्तिर्न स्यादिति योजना ॥ भ्रमजन्येति ।। इदन्त्वेन रङ्गविशेष्यकरजतत्वप्रकारकज्ञानजन्येत्यर्थः ॥ रङ्गे प्रवृत्ति- रिति ॥ रविशेष्यकरजतत्वप्रकारिका प्रवृत्तिरित्यर्थः । तीनमात्रस्य तदभाववति तत्प्रकारकत्वानभ्युप- गमेऽपि इच्छादेस्तदभ्युपगमादिति भावः ॥ न स्यादिति ॥ नोत्पद्यतेत्यर्थः तथाच विशेष्यतासंबन्धेन तद्ध- मप्रकारक प्रवृत्तौ विशेष्यतासंबन्धेन तद्धर्म प्रकारकेच्छायास्तेन संवन्धेन तद्धर्म प्रकारकेच्छायां तेन संबन्धेन तद्धर्मप्रकारकज्ञानस्य च हेतुत्वमिति रीत्या ज्ञानेच्छादीनां समान प्रकारकत्वेन विशेष्यतासंबन्धघटितसामा- नाधिकरण्य प्रत्यासत्त्या कार्यकारणभावस्य सकलतान्त्रिकमतसिद्धत्वात् । तव मते रङ्गविशेष्यकरजतत्वप्रका. रकज्ञानाप्रसिद्धया कारणाभावेन रजतार्थिनः रङ्गे प्रवृत्त्यनुपपत्तिरिति भावः । विसंवादिप्रवृत्तौ विशिष्टनमहे. तुतावादिमते तद्धेतुतया पूर्व भेदाप्रहसत्त्वस्यावश्यकतया तम्यैव तादृशप्रवृत्तौ हेतुत्वमस्त्वित्याशयेन विसं- वादिप्रवृत्यादौ कारणभेदं प्रकल्प्य समाधत्ते ॥ तत्रेति ॥ इदरलेन रङ्गगोचररजतार्थिरजतत्वप्रकारकप्रवृत्ता- वित्यर्थः । ननु रङ्गे रजतभेदसत्त्वेन सामग्रीबलात् भेदप्रकारकप्रत्यक्षोत्पत्त्या भेदामहासत्वात् कथं रो रज- तार्थिनः प्रवृत्तिरित्यत आह ॥ दोषाधीनस्येति ॥ निरुक्तभेदग्रहप्रतिबन्धकदोषप्रयोज्यस्येत्यर्थः। तथाच तत्र रजतभेदप्रत्यक्षसामग्रीसत्त्वेऽपि दोषात्मकप्रतिबन्धकसत्त्वेन तदभावरूपकारणाभावात् तत्प्रत्यक्षानुत्पत्त्या दिनकरीयम् . रोपर्तिनि पुरुषत्वव्याप्यकरादिप्रहस्यावश्यकतया तेनैवायं पुरुषो न वेति सन्देहप्रतिबन्धसम्भवादलं प्रामा- ण्यानुमानेनेति चेन्न करादौ पुरुषत्वव्याप्यत्वप्रहं विनापि करादिमति पुरुषत्वप्रकारकत्वहेतोः पुरुषत्वघटितप्रा. माण्यव्याप्यत्वप्रहसम्भवेन प्रामाण्यानुमानसम्भवात् । एवं न्यायमतेऽनुमितेरिव द्वितीयानुभ्यवसायस्यापि प्रामाण्यप्राहकत्वमित्यन्यत्र विस्तरः । गुरुः शङ्कने । नन्विति ॥ व्यर्थमिति ॥ व्यावाया अन्यथाख्या तेरभावादिति भावः ॥ भ्रमजन्येति ॥ न्यायनये भ्रमजन्या प्रवृत्तिस्तव मते न स्यादित्यर्थः ॥ भ्रमस्या- न्यथाख्यातेः ॥ तत्र गोचरविसंवादिरमसार्थिप्रवृत्तौ । रजते इदं रजतामेति ज्ञानकाले रजतभेदाग्रहसत्वा