पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । प्रभा. रजगोचररजतार्थिप्रवृत्तित्समुच्चीयते ॥ भेदामह एवेति ॥ निरुक्त संवन्धेन धर्मधर्म्युपस्थितिद्वयविशिष्टभेदा. ग्रह एवेत्यर्थः एवकारेण विशिष्टज्ञानहेतुत्वव्यवच्छेदः । तथाच विशेष्यतासंबन्धेन रजतत्वप्रकारकप्रतिसा- मान्यं प्रत्युपस्थितौ पुरोत्तिनिष्ठ विषयत्वानिरूपितविषयताशालिस्वरूपस्वातन्त्र्यविशेषणमपहाय एककाला- वच्छिनैकात्मत्ववृत्तिसंबन्धेन इदन्त्वावच्छिन्नोपस्थितिरजतोपस्थितिद्वयविशिष्टरजतभेदप्रकारकज्ञानत्याव- च्छिन्नविशेष्यतासंबन्धावच्छिन्न प्रतियोगिताकाभावत्वावच्छिन्नस्य वा दैशिकविशेषणतया हेतुत्वस्वीकारात् नास्माकं कार्यकारणभावद्वयकल्पनाप्रयुक्तगौरवप्रसक्तिरिति भावः । ननु प्रवृत्तिसामान्ये निरुक्तभेदाग्रहस्थ हेतुत्वे नैयायिक्रमतसिद्धरजतविशेष्यकरजतभेदप्रकारकनेदरजतमितिभ्रमस्थानाभिषिक्तदन्त्वावच्छिन्नवि- षयकोपस्थितिरजतभेदशब्दोपस्थितिद्वयकालेऽपि तत्र प्रवृत्त्यापत्तिः अन्यथाख्यात्यनङ्गीकारण रजते निरुक्त- भेदाप्रसत्वादिति चेन्न रजतभेदाग्रह इति वाक्य घटकरजतभेदप्रहशब्देन रजतभेदस्य ग्रहो यस्मादिति व्युत्प. त्या रजताभेदमहाभावलाभात् । तथाच विशेष्यतासंवन्धावच्छिन्नरजताभेदग्रहत्वावच्छिन्न प्रतियोगिताका. भावस्य पूर्वोकसंबन्धन रजतभेदोपस्थितिविशिष्टस्य दैशिकविशेषणतासंबन्धेन प्रतिबन्धकत्वं दैशिकविशेष- गतासंबन्धावच्छिन्नतादृशाभावत्वावच्छिन्नप्रतियोगिताकाभावस्य पूर्वोक्तसंबन्धेन धर्मधर्म्युष स्थितिद्वयविशि- पृस्य दैशिकविशेषणतासंबन्धेन प्रवृत्तिसामान्यं प्रति हेतुत्वमिति लब्धम् । एवंच नेदं रजतमिति तादृशो- पस्थितिद्वयकाले रजतस्वरूपपुरोव्यको रजताभेदग्रहनिष्ठनिरुक्तसंबन्धावच्छिन्नप्रतियोगिताकाभावरूपप्रतिब- ग्धकस्य रजतभेदोपस्थितिविशिष्टत्यैव सत्त्वेन तदभावरूपकारणामावान प्रवृत्त्यापत्तिः इदन्त्वेन रङ्गविषय केदं- रजतमिति तादृशोपस्थितिद्वयकाले रङ्गे प्रवृन्युपपत्तये प्रतिबन्धकीभूतनिरुक्ताभावे रजतभेदोपस्थितिवैशिष्टय . निवेशः । नचैवमपि पटो न रजतमित्युपस्थितिइदन्वेनर अगोचरइदरजतमित्युपस्थितिद्वय-एतस्त्रितयकाले रङ्गे रजतार्थप्रवृत्तिर्न स्यात् निरुक्तोपस्थितिविशिष्टप्रतिबन्धकीभूतनिरुताभावसत्त्वादिति वाच्यम् । रङ्गविशेष्यक- रजतभेदग्रप्रतिबन्धकदोषस्योत्तेजकत्वस्वीकारात् प्रकृते रङ्गे रजतभेदसत्त्वेऽपि चक्षुम्सनिकषेसत्त्वेऽपि च रजत. भेदप्रत्यक्षानुत्पत्त्या तत्र तत्प्रतिबन्धकदोषसत्त्वस्यावश्यकत्वेन तादृशोत्तेजकाभावविशिष्टप्रतिबन्धकासत्वान्न तत्र तादृशप्रवृत्त्यनुपपत्तिः। एवंच निरुकप्रतिबन्धकरजतभेदोपस्थितिवैशिष्ट्यं न निवेशनीयं रजतभेदोपस्थिति. शून्यकालीनरङ्गविषयकेदरजतमितिभ्रमस्थानाभिषिक्तज्ञानद्वयकाले निरुक्त प्रतिबन्धकसत्वेऽपि तस्य तादृशभे दप्रप्रतिबन्धकदोषरूपोत्तेजकविशिष्टत्वेन उत्तेजकाभावविशिष्टप्रतिबन्धकासत्त्वात् । इत्थंच यदा रङ्गे नेदं रजत- मिति ज्ञानाभावः इदन्त्वेन रोपस्थित्यभावः रजतोपस्थित्यभावो वा तदा र निरुक्तप्रतिबन्धकासत्वात् प्रवृत्ति.. वारणाय कारणीभूतनिरुक्ताभावे धर्म्युपस्थितिधर्मोपस्थितिद्वयवैशिष्टयमपि निवेशनीयम् । केवलेदमित्युपस्थिति : काले केवलरजतमित्युपस्थितिकाले वान प्रवृत्तेरननुभवादिति दिक्। केचित्तु नच र रजतभ्रमजनकदोष एवं उत्तेजकोऽस्तु किं रजतभेदप्रहप्रतिबन्धकदोषस्य उत्तेजकत्वस्वीकारेण एवंच रजतभेदोपस्थितिवैशिष्टयमपि प्रतिबन्धके विशेषणन्न देयमेव रजतभेदानुपस्थितिकाले रङ्गे इदं रजतमिति ज्ञानादप्रवृत्तिप्रसाभावात् तन रज- दिनकरीयम् . ते तत्र रजते भेदग्रहाभावस्य सत्त्वादन्यथान्यथाख्यात्यापत्तेरिति । यद्यपि पुरोवर्तिविशेष्यकस्य रजतभेदा- संसर्गप्रहस्य समवायेनाभावो विशेषणतयात्मनिष्ठः प्रतिबन्धकस्तदभावः कारणामिति फलितम् । तथाच र- के इदं न रजतमिति अहेऽपि प्रवृत्त्यापत्तिः रङ्ग विशेष्यकरजतभेदासंसर्गप्रहस्यान्यथाख्यात्यनङ्गीकर्तृमतेऽप्र--- सिद्धत्वेन तदभावस्य प्रतिबन्धकत्वासम्भवात् तथापि विषयतासम्बन्धेन प्रवृत्ति प्रति रजतभेदासंसर्गप्रहस्य विशेश्यतासम्बन्धावच्छिन्न प्रतियोगिताको योऽभावः स विशेषणतासम्बन्धेन प्रतिबन्धक इति विषयनिष्ठत- या प्रतिबध्यप्रतिबन्धकभावकल्पनानोक्तदोषः । एवं च तत्पुरुषीयत्वं प्रतिबध्यप्रतिबन्धकत्वयोरवच्छेदक. कोटौ निवेशनीयमतो न पुरुषभेदमादाय दोषः । नचैवं रङ्गे इदं रजतमिति श्रमानन्तरं तत्र प्रवृत्तिर्न स्यात् रजतभेदासर्गप्रहस्यान्यथाल्यात्यापश्या तज्ञानीकारेण तदभावरूपस्य प्रतिबन्धकस्य सत्त्वादिति वा. च्यं रजतभेदोपस्थितिविशिष्टस्यैव रजतभेदासंसर्गप्रहाभावरूपस्य प्रतिबन्धकत्वोपगमात्। नचैवमपि रो इदं