पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । तत्कारणं विसंवादिप्रवृत्तौ च भेदाग्रहः कारणमिति वाच्यं लाघवेन प्रवृत्तिमात्रे तस्य हे- तुत्वकल्पनात् । इत्थंच रङ्गे रजतत्वविशिष्टबुद्धधनुरोधेन ज्ञानलक्षणाप्रत्यासत्तिकल्पनेऽपि न प्रभा. ति रनिष्ठविशेष्यतासंबन्धेन रजतत्त्वप्रकारकप्रवृत्ति प्रत्यपीति वार्थः । संवादिप्रवृत्तिदृष्टान्तेनेति इत्यादिः । तत्कल्पनादिति ॥ रङ्गविशेष्यकरजतत्वप्रकारकज्ञानहेतुत्वस्य रङ्गनिष्ठविशेष्यतासंबन्धेन रजतत्वप्रकारक- ज्ञानहेतुत्वस्य वा अनुमानादित्यर्थः । तथाच पुरोवृत्तिविशेष्य केष्टतावच्छेदकप्रकारकज्ञानजन्या पुरोवृत्तिनिप्रवि- शेष्यतासंबन्धेन इष्टतावच्छेदकप्रकारकज्ञानजन्या वा प्रवृत्तित्वात् संवादिप्रवृत्तिवदित्यनुमानात् विसंवादिप्र- वृत्तिहेतुतया अन्यथाख्यातासाद्धारति भावः । नन्वयं हेतुरसाधकः सन्दिग्धव्यभिचारित्वात् । नचेशव्य. भिचारसन्देहस्य पक्षे साध्यसन्देहाधीनत्वेन पक्षीयव्याभिचारसंशय रूपतया व्याप्तिनिर्णयाप्रतिबन्धकत्वात् नासाधकत्वं हेतोरिति वाच्यं व्यभिचाररूपैककोटिभानप्रतिबन्ध कानुकूलतर्कविरहेण यभिचारशकापरम्प- राया एवं जायमानत्वात् तादृशानुकूलतर्कविरहविशिष्टव्यभिचारसंशयसामग्रोरूपप्रतिबन्धकसत्त्वेन व्याप्तिनि- श्चयासंभवादित्यभिप्रायेणाशते । नचेति ॥ संवादिप्रवृत्ताविति ॥ इष्टे विशेष्यतासंवन्धेन इष्टता- वच्छेदकप्रवृत्तावित्यर्थः ॥ तदिति ॥ इष्टानेष्ठविशेष्यतासंबन्धेन इष्टतावच्छेदकप्रकारकज्ञानमित्यर्थः ॥ का- रणमिति ॥ लघुधर्मावच्छिन्ननियतपूर्ववृत्तित्वेन उभयमतसिद्धमित्यर्थः । विसंवादिप्रवृत्ताविति ॥ वि.. शेष्यतासंबन्धेन इष्टभिन्न विशेष्यकेष्टतावच्छेदकप्रकारकप्रवृत्तावित्यर्थः ॥ भेदाग्रह इति ॥ निरुक्तभेदाग्रह एवेत्यर्थः । कारणमिति ॥ इष्टनिष्ठविशेष्यतासंबन्धेन इष्टतावच्छेदकप्रकारकज्ञानं संचादिनियतपूर्ववृत्तित्वे- नोभयमतसिद्ध इष्टभित्रपुरोवृत्तिविशेष्यकेष्टतावच्छेदकप्रकारकज्ञानन्तु विसंवादिप्रवृत्तिनियतपूर्ववृत्तित्वेन नो. भयमतासिद्धं तैरन्यथाख्यात्यनभ्युपगमादिति समुदितार्थः । तथाच एतादृशमतद्वयवाक्यश्रवणानन्तरं मध्य- स्थस्य पक्षात्मकविसंवादिप्रवृत्ती निरुक्तसाध्यसन्देह जननात् हेतावपि तदधीनव्यभिचारसंशयस्यानिवार्यत्वे- न व्याप्तिनिश्चयासंभवाद्धेतोरसाधकत्वमेवेति भावः ॥ लाघवेनेति ॥ लाघवज्ञानेनेत्यर्थः । विसंवा- दिप्रवृत्त्यादिभेदेन निरुक्तभेदाग्रहत्वनिरुक्तविशिष्टज्ञानत्वाभ्यां कार्यकारणभावद्वय कल्पनापेक्षया प्रवृत्ति- सामान्ये एकरूपेण एककार्यकारणभावकल्पने लाघवामति लाघवज्ञानेन प्रवृत्तिसामान्ये गुरुरूपे - ण एककारणत्वकल्पनापेक्षया लघुरूपेण एककारणत्वकल्पने लाधवमिति लाघवज्ञानेन चोते फलितार्थः। त थाच प्राथमिकगौरवज्ञानेन विसंवादिप्रवृत्त्यादिभेदन कार्यकारणभावद्वयासिद्धाचपि प्राथमिकलाघवज्ञानेन प्र. वृत्तिसामान्य निरुतभेदाग्रहत्वेनापि हेतुत्व प्राप्त्या द्वितीयगौरवज्ञानेन तद्रूपेणापि हेतुत्वासिद्धौ द्वितीयलाघव. ज्ञानेन प्रवृत्तिसामान्ये निरुक्तविशिष्टज्ञानत्वे हेतुत्वसिद्धौ ईदृशकार्य कारणभावग्रहस्वरूपानुकूलतर्कस्य जाग-- ककत्वात् अनुकूलतर्कविरह विशिष्टव्याभिचारसंशयसामग्रारूपप्रतिबन्धकासत्वेन व्याप्तिनिश्चयोत्पत्तेः उक्तहे. तोस्साधकत्वस्य निर्विवादतया उक्तानुमानात् पक्षात्मकविसंवादिप्रवृत्ताबपि निरुतविशिष्टज्ञानजन्यस्वसि- द्धिनिष्प्रत्यूहेति भावः ॥ इत्थं चेति ॥ उक्तानुमानात् विसंवादिप्रवृत्तावपि विशिष्टज्ञानजन्यत्वासिद्धौ चेत्य- र्थः ॥ रङ्गे रजतत्वविशिष्टबुद्धयनुरोधेनेति ॥ रङ्गविशेष्यकरजतत्वप्रकारकप्रवृत्तिप्रयोजकरावेशेष्यक- रजतत्वप्रकारक ज्ञाननिर्वाहा येत्यर्थः ॥ ज्ञानलक्षणाप्रत्यासत्तिकल्पनेऽपीति ॥ ज्ञानलक्षणायाः प्रत्या. सातत्वकल्पनाप्रयुक्तगौरवानर्णये सत्यपीत्यर्थः ॥ न क्षतिरिति ॥न प्रवृत्तित्वविशिष्टज्ञानत्वाभ्यां कार्यकार- दिनकरीयम्. न्तरस्य कल्पनं तु गौरवदोषदुष्टमित्यभिमान: । हेतुताया इत्यस्यान्वयव्यतिरेकाभ्यामिति शेषः । अन्यत्रापि॥ रङ्ग गोचररजतार्थिप्रवृत्तावपि तत्कल्पनात् ॥ विशिष्टज्ञानहेतुत्वकल्पनात् । नचात्र मानाभाव इति वाच्यं रझे रजतार्थिप्रवृत्तिरिष्टप्रवृत्तिविषयावशिष्टज्ञानसाध्या प्रवृत्तित्वाद्रजते रजतत्वप्रकारकप्रवृत्तिवदित्यनुमानस्यैव तत्र मानत्वात अत्राप्रयोजकत्वमाशङ्कते ॥ न चेति ॥ लाघवेनेति ॥ संवादिविसंवादिभेदेन कार्यकारणभाव द्वयमपेक्ष्य प्रवृत्तिमात्रे विशिष्टज्ञानस्यैव हेतुत्वकलानालाघवेनेत्यर्थः । तथा च लाघवज्ञानरूपानुकूलतर्कस्य सत्त्वानाप्रयोजकत्वमिति भावः । रजतांशेऽपि सन्निकर्षाभावानान्यथाख्यातिः सम्भवतीति प्राभाकरोकं दू