पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । सङ्केपः ॥ १३५ ।। १३६ ॥ प्रभा. मितिहेतुत्वमिति नैयायिक मताश्रयणेऽपि प्राभाकरस्यान्यधाख्यातेरावश्यकत्वप्रतिपादकयदिचविशिष्टज्ञान कारणमित्यादिमुक्कावळीग्रन्थनिरासपूर्वकतया इत्थंचे त्याद्युत्तरप्रन्धस्य यद्वेत्यादिना द्वितीयावतरणं तदप्य- सञ्जतं चक्षुस्संयुक्तसमवाय सन्निकर्षवशात् वहिव्याप्यह्रदत्ववान् हद इति ह्रदत्वविशिष्टज्ञानोत्पत्त्या तदुत्तरं ह्रदे वयनुमित्यापत्तेः विशिष्टबोधशब्दस्य पक्षे हेतुविशिष्टबोधहेतौ व्याप्तिविशिष्टबोधतदुभयपरत्वं स्वीकृत्य तादृशानुमित्यापत्तिनिवारणेऽपि लिङ्गासंसर्गाग्रहस्य लिङ्ग यससीग्रहहेतुत्वमप्रामाणिकमेव ह्रदे वहिव्याप्य. धूमवद्भेदग्रहकालेऽपि नैयायिकमतसिद्धहदविशेष्यकवह्निप्रकारकप्रात्यक्षिकनमस्थानाभिषिक्तवह्नयसंसर्गाग्र- हे व्यतिरेकन्यभिचारात् । नच लिङ्गासंसर्गाग्रहोत्तरवृत्तिलिङ्गयसंसर्गाप्रहं प्रति तस्य हेतुत्वस्य स्वीकारात् नोकव्यभिचार इति वाच्यम् । तथाप्रति घटादिज्ञानोत्तरवृत्तित्वविशिष्टवयसंसर्गाग्रहं प्रति घटादिज्ञानस्य हेतुत्वापत्तेः नचेष्टापत्तिः सकलतान्त्रिकासम्मतत्वात् । वस्तुतो विशिष्टबोध सामग्रीविरहस्थल एव दुर्लभः स- र्वत्र लौकिकप्रत्यक्षसामग्यसंभवेऽपि अलौकिकप्रत्यक्षानुमित्युपमितिशाब्दबोधाभ्यतमसामग्यास्सुलभत्वात् किं चानुमिति प्रति विशिष्टज्ञानस्यैव हेतुत्वपक्षावलम्बनेन साध्यविशिष्टहेतुविशिष्टपक्षबोधकसामप्रीविरहस्थले लिशासंसाग्रहात लिङ्गसंसर्गाग्रहस्वीकारेऽपि तादृशविशिष्टबोधसामग्रीसमवधानस्थले विशिष्टज्ञानरूपकारणो. स्पत्त्या तत्र अनुमितेरावश्यकतया कपिसंयोगव्याप्यकपिविभागवान् मूलावच्छिन्नो वृक्ष इति प्रमात्मकपरा. मर्शात् मूलावच्छिन्नः वृक्षः कपिसंयोगीत्यनुमितेरावश्यकतया तथाप्यन्यथाख्यातिसिद्धनि प्रत्यूहत्वात् । यदि चात्र विशिष्टपरामर्शसत्त्वेऽप्यन्यथाख्यात्यापत्तिमात्रेणानुमितिमपलप्यान्यसंसर्गाप्रहः स्वीक्रियते तदा वि. शिष्टपरामर्शस्यासंसर्गाग्रहहेतुत्व प्राप्तिः पर्वतेऽपि तादृशपरामर्शोत्तरमसंसर्गाग्रहस्वीकारापत्त्या अनुमितिमा त्रोच्छेदापत्तेः चार्वाकमतप्रवेशापत्तेश्च तस्मादित्थं चेत्यादिप्रन्थस्य यद्वेत्यादिना द्वितीयावतरणमयुक्तमेवेति । अन शुक्तिविशेष्यकर जतत्वप्रकारकज्ञानमङ्गीकृत्य तत्स्थानेऽगृहीतासंसर्गकरजतस्मरणपुरोवृत्त्यनुभवोभयस्वी- कारेऽनन्तरं रजतं पश्यामीत्यनुव्यवसायानुपपत्तिः पूर्वं रजतप्रत्यक्षाभावात् । एवंच वह्निव्यायधूमवान् हृद इति भ्रमस्थानाभिषिक्तज्ञानोत्तरं हृदो वह्निमानिति भ्रमात्मकानुमितिस्थानाभिषिक्तनिरुक्तज्ञानद्वयस्वीकारे तदुत्तरं वह्निमनुमिनोमीत्यनुव्यवसायानुपपत्तिः पूर्वं वह्नयनुमितेरभावात् एवं ताम्रादिप्रतिमासु अयं गोस दृश इति भ्रमस्थानाभिषिक्ततादृशज्ञानद्वयोत्तरं गवयत्वेन रूपेण पुरोवृत्तिविशेष्यकगवयपदवाच्यत्वप्रकारकत्र. मात्मकोपमितिस्थानाभिषिक्ततादृशज्ञानद्वयस्वीकारे तदुत्तरं गवयपदवाच्यत्वमुपमिनोमीत्यनुव्यावसायानु- पपत्तिः पूर्व गनयपदवाच्यत्वोपमितेरभावात् एवंच वह्निना सिञ्चतीति वाक्यात् वह्निकरणत्वप्रकारकसेचनवि- शेष्यकशाब्दभ्रमस्थानाभिषिक्ततादृशज्ञानद्वयस्वीकारे तदुत्तरं वह्निकरणत्वं शाब्दयामीत्यनुव्यवसायानुयपत्तिः पूर्व तद्विषयकशाब्दबोधाभावात् उक्तस्थले तादृशानुव्यवसायानामपलापेऽन्यत्रापि पश्यामि अनुमिनोमि उप- मिनोमि शाब्दयामीत्यनुव्यवसायस्यापलपितुं शक्यतया प्रत्यक्षत्वादिप्रमिति विभाजकधर्मचतुष्टयासिद्धया. पत्तेः तत्तदवच्छिन्ननिरूपितकरणताश्रयप्रत्यक्षादिप्रमाणचतुष्टयस्याप्यप्रसिद्धयापत्तेश्च नचेष्टापतिः सकलता- न्त्रिकसिद्धान्तविरोधापत्तेः प्रमाणषट्कवादिभवसिद्धान्तविरोधापत्तेश्च । किंच ज्ञानलक्षणायाः प्रत्यासत्ति- स्वानङ्गीकारे घटं जानामीत्याद्यनुव्यवसायानुपपत्तिः बटादिना मनसः लौकिकसन्निकर्षाभावात् तस्मादन्य- थाख्यातिः ज्ञानलक्षणप्रत्यासत्तिश्च त्वयाप्यवश्यमङ्गीकार्येति प्रतिभाति । उतार्थ हृदि निधायैव विश्वनाथ- पञ्चाननेन समाप्तिद्योतक-इतिपदमात्रमनुक्ता इति सङ्केप इत्युक्तम् । केचित्तु ननु तादृशानुव्यवसायो नेदवि. शेध्यकज्ञाने रजतत्वप्रकारकत्वविशिष्टबुद्धिरूपः परन्तु रजतत्वप्रकारकत्वासंसर्गाप्रहरूप एवेत्यत आह ॥ स. दिनकरीयम् . कारोऽप्यर्थः । ननु तादृशानुव्यवसायो नेदंविशेष्यकज्ञाने रजतत्वप्रकारकत्वविशिष्टबुद्धिरूपः परं तु रजत- स्वप्रकारकत्वासंसर्गाग्रहरूप एवेत्यत आह ॥ सङ्केप इति ॥ विद्यमानेऽपि भेदभहे आहार्यप्रत्यक्षोत्पादा. दिच्छाया उत्तेजकत्वं वाच्यं इच्छानामुत्तेजकत्वानुरोधेन चानुमितिवादीनामेव कार्यतावच्छेदकत्वात् प्रव-