पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । कत्वात्तदभावः कारणमित्यर्थः । एवमन्वयव्यतिरेकाभ्यां सहचारप्रहस्यापि हेतुता भूयोदर्श- नं तु न कारणं व्यभिचारास्मृतौ सकृदर्शनेऽपि कचिद्वयाप्तिग्रहान् कचिद्वयभिचारशङ्कावि- प्रभा. स्वावच्छिन्न प्रतियोगिताकाभाव इत्यर्थः ॥ सहचारग्रहश्चेति ॥ साधनविशेष्यकसाध्य सामानाधिकरण्यप्रका. रकप्रहश्चेत्यर्थः अग्रहशब्दोत्तरं श्रूयमाणसमुच्चयार्थ कापिशब्दस्य ग्रहपदोत्तरं योजन या प्रहपदोत्तरं भ्रूययाणसाध्य- साधनोभयार्थकमूलस्थतया शब्दस्य सहचारपदपूर्व योजनया च उक्तार्थलाभात् ।। व्याप्तिग्रह इति ॥ व्याप्ति- निश्चय इत्यर्थः । व्यभिचारज्ञानाभावसहवारज्ञानयोः व्याप्तिनिश्चयकारणत्वं क्रमेणोपपादयति ॥ व्यभिचा. रग्रहस्येति ॥ साध्य तावच्छेदकधार्मिकसानसमानाधिकरणप्रतियोगितावच्छेदकत्वरूपव्यभिचारप्रकारकहा- नत्वावच्छिन्नस्यत्यर्थः ॥ व्याप्तिग्रह इति । व्याप्तिघटकसाधनसमानाधिकरणाभावप्रतियोगितानवच्छेदक. स्वविशिष्टसाध्यतावच्छेदक निर्णय इत्यर्थः । प्रतिवन्धकत्वादिति ।। प्राह्याभावाव माहितया प्रतिबन्धकत्वा- दित्यर्थः ॥ तदभाघ इति ॥ तादृशव्यभिचारज्ञानसामान्याभाववरूपलिङ्गविशिष्ट इत्यर्थः ॥ कारणमिति ॥ यथेत्यादिः । व्याप्तिघटकाव्यभिचारांशनिश्चयनिरूपितकारणत्वविधेयकानुमित्युद्देश्य इत्यर्थः। तथाच व्याप्तिघट. काव्यभिचारांशनिश्चयहेतुत्वात् विशिष्टव्याप्तिग्रहोपयोगित्वामेति भावः ॥ एवमिति ॥ तवेत्यर्थः ॥ अ. न्वयव्यतिरेकाभ्यामिति ॥ नियमघटितान्वयव्यतिरेकाभ्यामित्यर्थः तादृशान्वयव्यतिरेकग्रहसहकृत प्रत्यक्ष- प्रमाणेनेति यावत् । रासभादौ घटादिकं प्रति नियमाघटितान्वयव्यतिरेकप्रहसत्त्वेऽपि तत्सहकृतचक्षुषा अभ्रान्तस्य कारणत्वप्रत्यक्षानुत्पत्त्या यथाश्नुतासङ्गतेः ॥ सहचारज्ञानस्यापीति ॥ निरुक्तसाध्यसाधन- सहचारनिर्णयस्यापीत्यर्थः । अपिशब्दायभिचारज्ञानाभावस्य पारिग्रहः ।। हेतुलेति ॥ बोध्यति शेषः । तथा च प्रतिबन्धकाभावत्वालिङ्गेन तादृशव्यभिचारज्ञानाभावे यथा तत्कारणत्वं निर्णायते तथा निरुक्कसहचारज्ञा. नेऽपि निरुक्तान्वयव्यतिरेकसहकृतप्रत्यक्षेण तत्कारणत्वं निीयत इति समुदितग्रन्थतात्पर्यार्थः । यद्यपि सामा- नाधिकरण्यज्ञाने विशेषणज्ञानविधयैव हेतुत्वं शक्यते वक्तुं व्याप्ते साध्य सामानाधिकरण्यविशिष्टहेतुतावच्छे- दकरूपतया सामानाधिकरण्यघटितत्वेन तज्ज्ञानस्य विशेषणज्ञानरूपत्वात् दीधितिकारप्रभृतिभिः विशेषणज्ञा- नत्वेनैव तस्य हेतुत्व प्रतिपादनाच्च तथापि साध्यवदन्यावृत्तित्वरूपव्याप्तेः खावच्छिन्नसमानाधिकरणाभावप्र- तियोगितानवच्छेदक साध्यतावच्छेदकधर्मवत्त्वरूपच्याप्तेर्वा सामानाधिकरण्याघटिततया तादृशव्याप्ति- अहे सामानाधिकरण्यवानस्य विशेषज्ञानविधया हेतुत्वं न संभवतीति सकलव्याप्तिग्रहे तादशज्ञानस्य हेतुत्व. सिद्धयर्थं तादृशप्रत्यक्षप्रमाणमुपन्यस्तमिति ध्येयम् । अत्र सकृद्दर्शनं न व्याप्तिग्राहकं रासभवह्नयोः सकृ- सहचारदर्शने व्याप्त्यग्रहात् किंतु भूयोदर्शनं तथा एवं च बहिशून्य देशेऽपि रासभदर्शनेन भूयोदर्शनरूपकार. णाभावात् रासभादौ न व्याप्तिग्रह इति प्राचीन कदेशिमतं दूषयति ॥ भूयोदर्शनमिति ॥ भूयस्सु स्थाने. षु साध्यसाधनसहचारदर्शनं भूयसां साध्यानां साधनानां सहचारदर्शनं साध्यसाधनसहचारविषयकबहुत्व- विशिष्टदर्शनं चेत्यर्थः एतादृशत्रिविधभूयोदर्शनलाभायैव अनुक्तसमुच्चायकचार्थकतुशब्दप्रयोगः ॥ न कारणमिति ॥ न व्याप्तिनिश्चयकारणमित्यर्थः निरुतत्रिविधभूयोदर्शनस्य हेतुत्वाभावे व्यतिरेकव्यभिचा- ररूपहेतुं वक्तुं इतरकारणसम्पत्तिमाह ॥ व्यभिचारास्मृताविति ॥ व्यभिचारज्ञानसामान्याभावरूपप्रति. बन्धकाभाव सत्त्व इत्यर्थः । अत्र स्मृतिपदं ज्ञानमात्रोपलक्षकं व्यभिचारानुभवकालेऽपि व्याप्त्यनिश्वयात् ॥ सकृद्दर्शनेऽपीति ॥ निरुतत्रिविधभूयोदर्शनान्यत्तमशून्यत्वविशिष्टसाध्यसाधनसहचारविषयकैकदर्शने- पोत्यर्थः ॥ क्वचिदिति ॥ एतद्रूपवान् एतद्रसादित्यादावित्यर्थः ॥ व्याप्तिग्रहादिति ॥ एतद्रसवि- शेष्यकैतद्रूपनिरूपितव्याप्तिप्रकारकनिश्चयोत्पत्तरित्यर्थः तथाच एतद्रूपवान् एतद्रसादित्यादौ साध्यसाधनयोरने- काधिकरणाप्रसिद्धिप्रयुक्तानेकाधिकरणावच्छेद्यसाध्य साधनसहचारदर्शनरूपकारणाप्रसिद्धया साध्यसाधनयोरे- दिनकरीयम् . प्रहस्य व्याप्तिप्राहकतामुपपादयति ॥ व्यभिचारग्रहस्येति ॥ सहवारग्रहस्य तामुपपादयति ॥ एवमि ति ॥ भूयोदर्शनस्य कारणत्वं खण्डयति ॥भूयोदर्शनं त्विति ।। व्यतिरेकव्यभिचारमाह ॥ सकदर्शनेऽ.