पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । मयोः कार्यकारणभावस्य प्रतिसन्धानान्निवर्तते यद्ययं वह्निमान्न स्यात्तदा धूमवान्न स्यात् कारणं विना कार्यानुत्पत्तेः । यदि च कचित्कारणं विनापि कार्य भविष्यति तदाहेतुक एव TAT लान्तरीयधूमसंबन्धितत्तदधिकरणेषु साध्याभावभ्रमप्रयुक्तवाहित्वधर्मिकतत्तदधिकरणविशेषघटित समानाधि- करणाभावप्रतियोगितावच्छेदकत्वरूपव्यभिचारज्ञानं तत्तदधिकरणविशेष्यकवयभावप्रकारकत्रमाविरोधितत्त. दधिकरणविशेष्यकवह्निप्रकारकप्रत्यक्षरूपभूयोदर्शनं किञ्चिज्ज्ञानां न संभवति सर्वज्ञानां तादृशभूयोदर्शनं व्य- धिकरणतया नास्मदादेतत्तदधिकरणविशेष्यकवह्नयभावप्रकारकभ्रमविरोधीति सर्वज्ञतादृशभूयोदर्शनात् न निवर्तत इति तादृशव्यभिचारझाननिरासकतया अवश्यं तस्वीकार इति कचिद्याप्तिज्ञानप्रयोजकत्वं तर्कस्या- प्यक्षतामति नोक्तभाष्यविरोध इति समुदितान्धतात्पर्यार्थः । स्थलविशेष व्यभिचारश शानिवर्तकवश्यमाण तर्के कारणीभूतापायव्वाप्यापादकवत्तानिश्चय प्रतिबन्धकव्यभिचार शङ्कानुत्पत्तिकारणं आदौ दर्शयति ।। तथाहीत्यादिना ॥ वह्निविरहिण्यपीति । संयोगसंबन्धावच्छिन्नवह्नित्वावच्छिन्न प्रतियोगिताकाभाव- वत्यपीत्यर्थः । धूमस्स्यादिति ॥ संयोगेन धूमोत्पत्तिः स्यादिति संयोगसंबन्धावच्छिन्नोत्पत्त्यवच्छेदक- तासंबन्धेन धूमस्स्यादिति वार्थः । अपिना संयोगेन यह्निमति धूमोत्पत्तिः समुचीयते तेन संयोगेन धूमोत्थ. त्यवच्छेदकाधिकरणे संबोगेन बहिमत्वनिर्णयेन स्वावच्छिनोऽव्यवहितोत्तरक्षणावच्छेद्यः यः स्वावच्छिन्नता याप्ये तरयावत्कारणाधिकरणवृत्त्यभावः तत्प्रतियोगिरूपकार्योत्पत्तिकत्वरूपान्वयव्यभिचारशङ्काया वाहत्वेऽनुत्प- त्तिः संयोगेन धूमात्पत्त्यवच्छेदकाधिकरणविशेषे वयभावभ्रमेण संयोगेन धूमोत्पत्त्यवच्छेदकाधिकरणवृत्त्य- भावप्रतियोगितावच्छेदकत्वरूपव्यतिरकव्यभिचार प्रकार काहित्यविशेष्यकशाया उत्पत्तिश्च लभ्यत इति ॥ यद्याशङ्का भवतीति ॥ इत्याशका यदि भवतीति योजना वहित्वधर्मिकनिरुक्तव्यतिरकव्याभिचा. रशङ्कायाः तत्सामग्री काल एव जायमानत्वात् यदीत्युक्तम् ॥ तदा सेति ॥ ताशसमवधानका- लीननिरुक्तव्यतिरेकव्यभिचारशक्रेत्यर्थः ॥ वह्निधूमयोः कार्यकारणभावस्येति । धूमनिष्टकार्य- स्वस्य वह्निनिष्ठकारणत्वस्य चेत्यर्थः । धूमसमानाधिकरणासावप्रतियोगितानवच्छेदकत्वान्यथासिद्धयनि- रूपकत्वोभयविशिष्टवह्नित्ववत्वरूपवह्निनिष्टधूमकारणत्वस्येति फालतार्थः ॥ प्रतिसन्धानादिति ॥ निश्चयादित्यर्थः प्रयोज्यत्वं पञ्चम्यर्थः तस्य निवृत्तिपदार्थेऽन्वयः ॥ निवर्तत इति ॥ उत्पत्त्यभा- ववतीत्यर्थः इदानीं संयोगेन धूमोत्पत्त्यवच्छेदकाधिकरणघटितनिरुक्तव्यभिचारशाजनकतदधिकरणविशेष्य- कवद्भयभावभ्रमनिवर्तकतर्क माह ॥ यदीति । अयमिति ॥धूमोत्पत्त्यवच्छेदकतया निर्णीतपदार्थ इत्यर्थः ॥ वह्निमान्न स्यादिति ॥ संयोगेन वह्निमद्देदवान् स्यादिति वार्थः ॥ धूमवान्न स्यादिति ॥ संयोगसं- बन्धावच्छिन्नोत्पत्त्यवच्छेदकत्वसंवन्धेन धूमवान्न स्यात् धूमनिष्ठसंयोगासंबन्धावच्छिन्नोत्पत्त्यवच्छेदकत्ववान् न स्यादिति वार्थः । अत्रापाद्यव्याप्यापादकवत्ताज्ञानस्य तद्धेतुतया तादृशतके धूमनिष्टसंयोगसंबन्धावच्छिन्नो- त्पत्त्यवच्छेदकत्वाभावरूपापाद्यध्याप्तिविशिष्टवह्नयभावरूपापादकवत्ताज्ञानं हेतुस्तनापादके आपाद्यव्यभिचार- ज्ञान प्रतिबन्धकं तदपि धूमवह्नयोः पूर्वोक्त कार्यकारणभावग्रहान्निवर्तत इति न तर्कानुमितिरित्याह । कार- ण विनेति ॥ कारणतावच्छेदकसंबन्धेन कारणाभाववति कार्यानिष्टकार्यतावच्छेदकसंबन्धावच्छिन्नोत्पत्त्यव. च्छेदकत्वस्य सत्वासंभवादित्यर्थः । तथाच कारणतावच्छेदकसंबन्धेन कारणाभावस्य कार्यनिष्टकार्यतावच्छे- दकसंबवावच्छिन्नोत्पत्त्यवच्छेदकत्वाभावव्याप्यताया आवश्यकत्वेन वहिल्प कारणाभावेऽपि कार्यकारणभा- वाहबलात् तादृशावच्छेदकत्वाभावव्याभिचारशङ्कानुत्पत्या तादृशावच्छेदकत्वाभावनिरूपितव्याप्यत्वस्य सुग्र- हत्वात्ताशतर्कोत्पत्तिनिराबावेति भावः । ननु उक्तरीत्या तादृशतर्कावतारः धूमवयोः कार्यकारणभावनि- दिनकरीयम्. इति ॥ शङ्कापनयनार्थं तर्कोऽपेक्षित इत्यर्थः । तद्दयति ॥ तथा हीत्यादिना ।। यद्ययामिति ॥ अयं धूमचान् पर्वतः ॥ कारणं विनेति ॥ तथा व धूमो बहिव्यभिचारी स्याद्वह्निजन्यो न स्यादिति त- काकारो बोध्यः यथाश्रुते वद्धिमान स्याद्भुमचान स्थादिति तर्कस्य विषयपरिशोधकस्य व्याप्तिग्रहानौपयि- 97