पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । स्वाभिमतव्यापकत्वे सति साधनत्वाभिमताव्यापकल्वमुपाधिरित्यर्थः । ननु स श्यामो मि- वातनयत्वादित्यत्र शाकपाकजन्यत्वं नोपाधिः स्यात् तस्य साध्यव्यापकत्वाभावात् श्याम- त्वस्य घटादावपि सत्त्वात् । एवं वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्त्वं नो- प्रभा- वाश्चेत्याशङ्का परिहरति ॥ मुक्तावळ्यां साध्यत्वाभिमतेति !! साध्यतावच्छेदकत्वेनाभिमतधूमत्वावच्छि. वेत्यर्थः॥साधनत्वाभिमतेति॥ साधनत्वावच्छेदकत्वेनाभिमतवह्नित्वाद्यवच्छिन्नेत्यर्थः तेन गुणकर्मान्य - स्वविशिष्टसत्तावान् जातेरित्यादौ संयोगी गुणकर्मान्यत्वविशिष्टसत्त्वादित्यादौ च द्रव्यत्वादौ अव्याप्तेरतिव्याप्तेश्च नावकाशः। व्यापकत्वाव्यापकत्वे एकधर्मावच्छिन्नत्वेन एकसंबन्धावच्छिन्नत्वेन च विवक्षणीये इति तेन वह्निमान् धूमादित्यादौ एकरूपेण एकसंबन्धेन साध्यव्यापकस्य द्रव्यत्वादेः रूपान्तरेण संभन्धान्तरेण च साधनाव्या- पकत्वेऽपि नातिव्याप्तिः तथाच तत्संबन्धघटितसाध्यतावच्छेदकत्वेनाभिमतधर्मावच्छिन्नव्यापकतावच्छेदक- तत्संबन्धघटितसाधनतावच्छेदकलेनाभिमतधर्मावच्छिन्नाव्यापकतावच्छेदकधर्मविशिष्टं तद्धर्मावच्छिन्नसाध्य-- कतद्धर्मावच्छिन्नहेतौ तेन रूपेण उपाधिरिति फलितम् । अत्र साध्यतावच्छेदकत्वादिनाभिमतत्वं न विशेष. णं यत्र न तादृशाभिमानः तत्रयोपाधाकव्याप्त्यापत्तेः किन्तु अनुगमार्थमुपलक्षणं तदिति बोध्यम् । यद्यपि उपाधिपदस्य साध्यव्यापकत्वादिविशिष्टरूढत्वेऽपि उप स्वसमीपवर्तिनि स्वीयधर्ममादधातीति योगेन तस्य साध्यव्यापकत्वविशिष्टबोधकत्वात् साध्यसमव्यापकत्वघटितमेवोपाधिलक्षणमावश्यकं तथापि हेतौ स्वब्यभि- चारेण साध्यव्यभिचारोन्नायकत्वादिरूपदूषकताबीजस्य विषमव्यापकेऽपि सत्त्वात्तस्यापि उपाधित्वमिष्टमिाते नवीनमतानुसारेण साध्यव्याप्यत्वरूपयोगार्थांघटितं उपाधिलक्षणमेव कृतमिति हृदयम् ॥ स श्याम इ. ति ॥ अत्र तच्छन्दः काकपरः न दयाममित्रातनयव्यक्तिपरः ध्वसो विनाशी जन्यत्वादित्यादिवक्ष्यमाणेन पौनरत्यापत्तेः काकपरत्वे प्रथमहेतोः स्वरूपासिद्धत्वरूपदोषान्तरसङ्कीर्णव्यभिचारित्वात् वक्ष्यमाणजन्यत्वरू. पहेतोर्बाधितत्वरूपदोषान्तरसङ्कीर्णव्याभिचारित्वाच्च न पौनरुक्त्यप्रसक्तिः । वस्तुतस्तु तच्छन्दस्य मिलातन- यविशेषपरत्वेऽपि न पौनरुत्य मित्रातनयत्वहेतोः केवलव्यभिचारित्वात जन्यत्वहेतोः बाधितत्वरूपदोषा- न्तरसकीर्णव्यभिचारित्वाच्च । नच तस्य बाधितत्वे प्रमाणाभाव इति वाच्यम् । ध्वंसस्य ध्वंसस्वीकारे घटोन्म. जनप्रसङ्गरूपबाधकस्यैव प्रमाणत्वादित्यत्रेत्यायसन्न्यायघटकहेतूपदप्रतिपाद्यहेतावित्यर्थः ॥ शाकपा- कजत्वमिति ॥ शाकाद्याहारपरिणामजन्यत्वमिति तदर्थः ॥ तस्येति ॥ शाकपाकजव्वस्येत्यर्थः ॥ सा- ध्यध्यापकत्वाभावादिति ॥ केवलसाध्यव्यापकत्वाभावादित्यर्थः एतदेवोपपादयति ॥ श्यामत्वस्ये- ति॥ श्यामस्वरूप साध्यस्येत्यर्थः ।। घटादाविति ॥ आदिपदेन शाकपाकजत्वशून्यश्यामद्रव्यमात्रपरिग्रहः अपिशब्दाच्छाकपाकजेऽपि या मत्वसत्त्वं समुच्चीयते तथाच शाकपाक जत्वस्य श्यामत्वसमानाधिकरणत्वेऽपि तधापकत्वाभावात् केवल साध्यव्यापकत्वघटितोपाधिलक्षणं तनाव्याप्तमिति भावः । यद्यपि स श्याम इत्या- दौ शाकपाकजत्वस्य वायुः प्रत्यक्ष इत्यादौ उद्भूतरूपस्य ध्वंसो विनाशीत्यादौ भावत्वस्य चोपाधित्वानङ्गी- कारेऽपि क्षतिविरहात् तत्र निरुवलक्षणासत्त्वेऽपि क्षतिविरहः नच तेषां अनुपाधित्वे तत्तद्धेतूनामनौपाधिक स्वापत्त्या व्यभिचारे चावश्यमुपाधिरिति नियमभङ्गप्रसङ्ग इति वाच्यम् व्यभिचारनिरूपकाधिकरणान्यत्वा- दिनकरीयम् . वक्षिते तेन द्रव्यत्वत्वेन समवायसम्बन्धेन च वह्नि प्रति व्यापकस्य द्रव्यवस्य द्वित्वादिना संयोगादिसम्ब- न्धेन च धूमं प्रत्यव्यापकरवेऽपि वह्निमान् धूमादित्यत्र द्रव्यत्वादौ नातिव्याप्तिः ॥ स श्याम इति ॥ का. का क्यामो मिन्नातनयत्वादित्यादावित्यर्थः । तेन वक्ष्यमाणेन ध्वंसो विनाशी जन्यत्वादित्यनेन न पौनरू- तयं अस्य साधनाबाच्छन्नसाध्यव्यापकत्वादप्रिमस्य साधनरूपपक्षधर्मावच्छिन्नसाध्यव्यापकत्वात् । साध्या- व्यापकत्वमुपपादयति ॥ श्यामत्वस्येति ॥ ननु साधनावच्छिन्नसाध्यव्यापकत्वं विवक्षणीयमतो नोक्का व्याप्तिरतः पक्षधर्मावच्छिन्नसाध्यव्यापकोपाधावव्याप्तिमाह ॥ एवं वायुरिति ॥ अत्र प्रत्यक्षं प्रत्युद्भूतरू-