पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७४ कारिकावली [गुणखण्ड: पाधिः स्यात् प्रत्यक्षत्वस्यात्मादिषु सत्त्वात् तत्र रूपाभावात् । एवं ध्वंसो विनाशी ज. न्यत्वादित्यत्र भावत्वं नोपाधिः स्याद्विनाशित्वस्य प्रागभावेऽपि सत्त्वात् तत्र भावत्वाभा- वादिति चेन्न यद्धर्मावच्छिन्नसाध्यव्यापकत्वं तद्धर्मावच्छिन्नसाधनाव्यापकत्वमित्यर्थे तात्प- प्रभा. देरेव निरुक्कलक्षणलक्षितस्य उपाधित्वस्वीकारात् तत्तद्धेतूनामनुपाधित्वाभावेन उक्तनियमभानवकाशात् त. थापि शाकाद्याहारपरिणामजन्यामिनातनय एव श्यामोत्पत्या तादृशपरिणामजन्यत्वस्यैव तदुत्पत्तिनियामक.. त्वात्तस्यैव मुख्योपाधित्वं एवंच प्राचां मते बहिर्द्रव्यप्रत्यक्षमात्रे उद्भूतरूपस्य कारणतया तस्यैव मुख्योपाधित्वं एवमेव प्रागभाववृत्तिप्रतियोगिताभिन्न प्रतियोगितासंबन्धेन नाशं प्रति जन्यभावत्वेन हेतुत्वेनाभावत्वस्यापि कारणतावच्छेदकत्वात्तत्र तस्यैव मुख्योपाधित्वमिति प्राचीनकदेशिमतानुसारेण तेषां लक्ष्यत्वमङ्गीकृत्यो कलक्ष- णस्य तत्राव्याप्तिराभिहितेति ध्येयम् । केचित्तु ननु साधनावाच्छन्नसाध्यव्यापकत्वं विवक्षणीयमतो नोकातिव्या- प्तिः अतः पक्षधर्मावच्छिन्नसाध्यध्यापकोपाधावव्याप्तिमाह एवं वायुरित्यवतरन्ति तदसत् उपाधिलक्षणस्य सा- धनावच्छिन्नत्वघटितस्यात्र ग्रन्थकाराभिमतत्वे वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यादिस्थलीयोगतरूपेऽ- पि तादृशोपाधिलक्षणसत्त्वेनानाप्स्यप्रसः नच वायुः प्रत्यक्षः द्रव्यत्वादितिमूलपाठाभिप्रायेणेयमवतरणि- का तत्रयोद्भूतरूपात्मकोपाधौ साधनावच्छिन्नलघटितलक्षणस्याप्यभावेनाव्याप्तिप्रसकेरिति वाच्यम् । तथा सांत स श्यामो द्रव्यत्वादिति मूलपाठस्यापि संभवेन तत्स्थलीयशाकपाकजत्वरूपोपाधौ साधनावच्छिन्नसा. ध्यव्यापकत्वघटितलक्षणस्याप्यभावेनाव्याप्तेरनुदारात् वायुः प्रत्यक्ष इत्यनन्तरं द्रव्यवादित्येव मूलपाठः स श्याम इत्युत्तरं मित्रातनयवादित्येव मूलपाठ इत्यत्र युक्त्यभावेन उभयत्र द्रव्यत्वादिति पाठः स श्याम इत्य. त मित्रातनयत्वादिति वायुः प्रत्यक्ष इत्यत्र प्रत्यक्षस्पर्शाश्रयत्वादिति पाठो वा स्वीकर्तव्य इत्युभयथाप्यु कावतरणिका अयुक्तैव तस्मात् स्थलत्रयस्यापि समानत्वेन पूर्वस्थलीयोपाधौ अध्याप्त्यलमप्रदर्शनपूर्वकत-- या एवमित्याधुत्तरकल्पनावतरणे वीजं मृग्यमिति प्रतिभाति ॥ यद्धर्मावच्छिन्नसाध्यव्यापकत्वमि- ति ॥ सामानाधिकरण्यसंबन्धेन यद्धर्मविशिष्टसाध्यतावच्छेदकसंबन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नवन्नि ठान्योन्याभावप्रतियोगितानवच्छेदकत्वमित्यर्थः ॥ तद्धर्मावच्छिन्नसाधनाव्यापकत्वमिति || निरु तसंबन्धेन तद्धर्मविशिष्टसाधनत्वावच्छेदकसंबन्धावच्छिन्नसाधनतावच्छेदकधर्मावच्छिन्नवनिष्ठान्योन्याभाव. प्रतियोगितावच्छेदकत्वमित्यर्थः तेन स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वरूपोपाधेः कालिकसंबन्धेन मित्रातनयत्त्वविशिष्टश्यामत्याव्यापकत्वेऽपि नाध्याप्तिः नवा वह्निमान् धूमादित्यादौ सामानाधिकर- ज्यसंबन्धन पर्वतनिष्ठतब्यक्तित्वविशिष्टव हित्वावच्छिन्ननिरूपितनिरुकन्यापकताश्रयवदान्धनसंयोगन्य के कालिकसंबन्धेन तादृशव्यक्तित्वविशिष्टधूमत्वावच्छिन्नाव्यापकत्वेऽपि न तत्रातिव्याप्तिः । एवमेवा- व्यापकत्वव्यापकत्वघटकसंबन्धविशेषधर्मविशेषप्रयोजनन्तु उभयमूह्यम् । नन्वेवमपि वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादिस्यत्र उद्भूतरूपवत्वेऽव्याप्तिः यत्पदार्थबहिर्दव्यत्वावच्छिन्नत्ववति प्रत्यक्षघटादौ कुडयादिवृत्तित्वविशिष्टरूपवद्धेदत्य रूपकुडयत्वोभयवद्भेदस्य च सत्त्वात् कुडयादिसमवेतरूपव्यक्तिमद्रे- सत्त्वाच्च । एवं वह्निमान् धूमादित्यादी रूपेऽत्तिव्याप्तिः रूपत्वेन पर्वतत्वविशिटवह्निध्या. पकत्वात् तत्पर्वतवृत्तित्वविशिष्टरूपत्वेन रूपघटत्वोभयत्वेन रूपनिष्ठतब्यक्तित्वेन वा पर्वतत्वविशिष्टधूमाव्या- पकत्वाचेति चेन्न यद्धर्माधिकरणसाध्यतावच्छेदकसंबन्धेन साध्यतावच्छेदकावच्छिन्नाधिकरणानिष्ठान्योन्यामा वप्रतियोगितानिरूपितयत्संबन्धावच्छिन्नावच्छेदकतानवच्छेदकः यधर्माधिकरणसाधनतावच्छेदक संबन्धेन साधनतावच्छेदकावच्छिन्नाधिकरणनिष्टान्योन्याभावप्रतियोगितानिरूपिततत्संबन्धाबच्छिन्नावच्छेदकतावच्छे. दिनकरीयम्. पस्याव्यापकत्वे रूपत्वस्य सुतरामव्यापकत्वमित्युद्भूतपदं व्यर्थ तथाप्युपाधेः साध्यव्यापकत्वे कार्य कारण- भावलक्षणानुकूलतर्कदर्शनार्थ तदिति ध्येयम् । पक्षधर्मावच्छिन्नसाध्यध्यापकत्वोकौ तु पूर्वोक्तशाकपाकजत्वा- दस्य