पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली प्रभा-दिनकरीयसमन्विता । ७८१ ताग्राहकप्रमाणाभावात् स्वव्याघातकत्वाञ्च नोपाधिः । वाधोनीतस्तु उपाधिर्भवत्येव यथा वहि- रनुष्णः कृतकत्वादित्यादौ प्रत्यक्षेण वह्नावुष्णत्वग्रहे वह्नीतरत्वमुपाधिः । यस्योपाधेः साध्य - व्यापकता सन्दिह्यते स सन्दिग्धोपाधिः पक्षेतरस्तु सन्दिग्धोपाधिरपि नोभावनीयः कथकस- प्रभा. भाव: त्तिधर्मेण तत्तत्साध्यव्यभिचारित्वव्याप्यत्वात् तत्तद्रूपेण तत्तदुधाधिव्यभिचारित्यस्य तत्तत्साध्यब्यभिचारि- स्वानुमापकत्वमव्याहतमेवेति नोक्तानुपपत्तिप्रसूक्तिरिति ननु पक्षेतरत्वेऽतिव्याप्तिः धूमादी एकावच्छेदेन स्वसाध्यव्यभिचारित्वरूपपक्षतावच्छेदकाश्रये उपाधिलक्षणसत्त्वादित्यत आह ॥ बा. धानुनीतपक्षेतरस्त्विति ॥ तुशब्दोऽवधारणे तेन बाधोनीतपक्षेतरत्वस्य अनुपाधित्वं व्यवच्छिद्यते ता. दशव्यवच्छेद्यार्थमेव वाधोनीतपक्षेतरस्त्वित्यादिवक्ष्यमाणमन्थेन प्रकाशयिष्यति । बाधेन प्रकृतसाध्याभावयत्त्वे- नानुन्नीतः अनिर्णीतपक्षः पक्षतावच्छेदकावच्छिन्नः तद्भेद इत्यर्थः ॥ साध्यव्यापकताग्राहकेति ॥ प्रकृतसाध्यव्यापकत्व प्रकारकतादृशपक्षेतरस्वविशेष्यनिर्णयजनक्रेत्यर्थः ॥ प्रमाणाभावादिति ॥ सामग्य. भावावेत्यर्थः तथाच पक्षे साध्याभावनिश्चयस्यैत्र पक्षेतरत्वे सायव्यापकतानिर्णायकतया तदभावात्तादृश. पक्षेतरत्वे साध्याव्यापकत्वनिर्णयाभावप्रयुक्तविशिष्टोपाधित्वनिर्णयाभावेन न तत्रातिव्याप्तिरिति भावः । ननु निरुक्तपक्षेवरत्वे लक्ष्यतावच्छेदकसन्देहात् साध्यव्यापकत्वादिघटि तलक्षणसन्देहाच न सन्दिग्धोपाधित्व- मावश्यक एच हेतौ तादृशोपाधिव्यभिचारेण साध्य व्यभिचारानुमानसंभवात् दूषकत्वमावश्यकमेवेत्यत आ. ह ।। स्वव्याघातकत्वाञ्चेति ॥ उपाधिमात्रस्य दूषकत्वव्याघातकत्वाञ्चेत्यर्थः तथाच बाधानुनीतपक्षेतरत्व. स्याप्युपाधित्वे सकलानुमानेऽप्येतादृशोपाधिसंभवेन तद्भानेन तत्तत्साध्यव्यभिचारानुमानमात्रोच्छेदापत्त्या उपाधिव्यभिचारे साध्यव्यभिचागि व्याप्यत्वनिर्णयाधीनायाःप्रकृतहेतुविशेष्य कप्रकृतसाध्यव्यभिचारित्वानुमिते: सुतरामप्रसिद्धत्वेन तदनुमापकत्वरूपदूषकत्वानुपपत्तेः साध्यव्यापकत्वादिना सन्दिग्धतादृशपक्षेतरत्वादेः दो- पत्वं नाजीकर्तव्यमिति भावः बाधानुन्नीतपक्षेतरास्त्वित्यत्रावधारणार्थकतुशब्दने बोधितं बाधोनीतपक्षेतरत्वस्थ उपाधित्वं द्रढयति ॥ बाधेन्निीतपक्षेतरस्त्विति ॥बाधेन साध्याभाववत्वेन उन्नीतः निर्णीतपक्षतावच्छे. दकावच्छिन्नः तदितरस्तदन्यत्वमित्यर्थः अवधारणार्थकतुशब्दः भवतीत्युत्तरं योज्यः ॥ उपाधिर्भवतीति ॥ उपाधिर्भवतीत्येवेत्यर्थः उदाहरणद्वारा तस्योपाधित्वमुपपादयति ॥ वह्रिरित्यादि ॥ वहीतरत्वमुपाधि. रिति ॥ तथाच पक्षात्मकवही उष्णत्वात्मकसाध्याभावनिश्चयरूपकारणबलाद्वहीतरत्वे साध्यव्यापकत्वनि- चयसंभवेन तद्धटिलोपाधित्वस्य निश्चितत्वादिति भावः । ननु यादृशस्थलीयोपाधेरुपाधित्वसन्देहितोपाधि- व्यभिचारसंशय एव जातः ताश तो उपाधिव्यभिचारात्मकहेतुनिश्चयाभावात् साध्यव्यभिचागनुमिल्यसं- भवेन तत्स्थलीयोपाधेियभिचारोनायकत्वरूपदूषकत्यानुपपत्निरत आह ॥ यस्योपाधेरिति ॥ वस्तुत उपाधित्वाश्रयस्य यस्येत्यर्थः साध्यव्यापकत्वादिकमित्यादिना साधनाव्यापकत्वविशिष्टोपाधित्वयोः परिग्रहः ।। सन्दिात इति ॥ दोषाधीनवर्तमानसन्देहविषयताबदित्यर्थः ॥ स सन्दिग्धोपाधिरिति । तादृशसन्दि- दिनकरीयम् . ननु पक्षेतरत्वेऽतिव्याप्तिः । नच तस्य लक्ष्यत्वमेव एकाश्रये येषामित्यादिमूलेन प्रदर्शितस्य लक्ष्यता. चच्छेदकस्य तत्राभावात् तत्र हेता पक्षतरत्वव्यभिचारस्य प्रक्षमादायैव सम्भवात् साध्यव्यभिचारस्य तमा. दायासम्भवादत आह ॥ बाधानुन्नीतेति ॥ स्वव्याघातकत्वादिति ॥ उपाधिमात्रस्य दूषकत्वव्या. घातकवादित्यर्थः । पक्षेतरत्वस्योपाधित्वे सर्वनानुमाने पक्षेतरत्वस्योपाधेः सम्भवादनुमानमात्रोच्छेदापत्त्या ध्यभिचारानुमानाधीनस्योपाधेर्दूषकत्वस्यासम्भवादिति भावः । ननु तथापि यत्र साध्यव्यापकताप्राहकं प्र- माणमस्ति ता पक्षेतरत्वे लक्षणातिव्याप्तिर्दुरित्यत आह ॥ बाधोनीतस्विति ।। बाधेन पक्षे साध्या. भाववत्तया उन्नीतः साध्यव्यापकत्वेन निश्चित इत्यर्थः ।। सन्दिग्धोपाधिरपीति ॥ पक्षे साध्यसन्देहेन साध्यव्यापकतासन्देहस्य पक्षेतरत्वे सम्भवादिति भावः । न च स्वव्याघातकत्वेनानुपाधित्वादेवानद्धावन -