पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता ७८५ पदार्थां मिथस्संसर्गवन्तः योग्यतादिमत्पदोपस्थापितत्वात् तादृशपदार्थवत् दृष्टान्तेऽपि दृ. प्रभा. कत्वस्य पक्षत्वे तु अबाधितार्थकत्वरूपयोग्यतायाः सत्त्वाच्च अतस्तत्रैवासत्तिमत्त्वविशेषणं तथाच मूलोक्ततात्पर्यगर्भासत्तेः ताद. शसमुदायेऽभावात् न व्यभिचार इति भावः। केचित्तु अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ राज्ञः पुरुष इ. ति भागे राजपुरुषयोः योग्यार्थयोस्संसर्गलात्पर्याभावेन साध्याभावाव्यभिचार इत्याकासाविशेषणमित्याहुः तदसत् मूलोपात्ततात्पर्यगर्भासत्तिघटित हेत्वभावेनैव निरुकभाग व्यभिचाराप्रसक्तेः हेतुकोटौ मूलोपासासत्तिमनिवेश्य तादृशभागे व्यभिचारवारकतया आकालावत्त्वविशेषणदानस्य प्रक्षाळणाद्धीति न्यायकबळितत्वेनायुक्तत्वात् । किंच वस्तुतस्तु क्रियाकारकपदानां सन्निधानमासत्त्या चरितार्थमित्यादिप्रन्थेन क्रियाकारकपदानां आकाङ्क्षामना भ्युपगम्य प्रकृतिप्रत्यय यो: आकासाभ्युपगमस्यायमेति पुत्रो राज्ञः पुरुष इत्यादौ राजपदार्थपुत्रपदार्थयोः संसर्ग- वो तात्पर्येण तत्रैवान्वयबोधस्य राजपदार्थपुरुषपदार्थयोः संसर्गबोधतात्पर्ये सति तथैवान्वयबोधस्य च विश्व- नाथपञ्चाननेनैव शब्दपरिच्छेदे व्यवस्थापितत्वात क्रियाकारकपदयोराकासा नास्त्येव किंतु प्रकृतिप्रत्यययोरेव त- त्राप्यव्यवधानांशस्यागत्या लाभात् प्रत्यये प्रकृत्युत्तरत्वरूपाकाङ्क्षाज्ञानं कारणमित्याहेति ग्रन्थेन वस्तुतस्त्वित्या. दिग्रन्थाशयस्य केचित्कारेणैव वर्णितत्वाच्च प्रकृतिप्रत्यय समुदायभिन्नपदसमुदायमाने निरुक्ताकालादिमत्त्वध - टित हेत्वभावेन भागासिद्धिप्रसङ्गात् तस्मात् प्रकृतिप्रत्ययघाटितसमुदायस्य पक्षत्व एवा झाडाघटितपदकदम्ब- हेतुत्वं तदन्यसमुदायस्य केवलयोग्यतासत्तिमत्पदकदम्बकत्वम्यैव हे- तुत्वमित्यवश्यं स्वीकार्यम् । एवं वायमित्यादिस्थलीयराज्ञः पुष इति भागस्य प्रकृतिप्रत्यय समुदाय. भिन्नतया तादशभागस्य पक्षत्वे आकालावत्त्वाघाटेतयोग्यतासत्तिमत्पदकदम्बकत्वस्यैव हेतुतया प्रकृतहेत्व- घटिताकासावत्त्वविशेषणस्य सार्थक्यविचारः बन्ध्यापुत्रस्याभिजात्यविचारतुल्य एवेति प्रतिभाति । निरुक्त, साध्याभाववति घटमानयेत्यादिवाक्य घटकैकपदेऽपि आकाङ्लादिमत्पदत्वरूपहेतुसत्त्वाद्यभिचारवारणाय पद. कदम्बकत्वादियुक्तं तादृशपदघटितवाक्यत्वं तदर्थः । ननु तद्धर्मावच्छिन्नोद्देश्यकप्रवृत्तौ तद्धर्म प्रकारकनि- श्व यस्य तद्धर्मावच्छिन्नविधेयकप्रवृत्तौ तद्धर्मावच्छिन्नविशेष्यकेष्टसाधनत्वप्रकारकनिश्चयस्य च हेतुत्वं वाच्यम् । स्वर्गत्वप्रकारकज्ञानादेव स्वर्णोद्देश्यक प्रवृत्तेः यागवावांच्छन्नविशेष्य कस्वर्गसाधनत्वप्रकारकनिर्णयादेव याग- विधेयकप्रवृतेश्चोत्पत्तिदर्शनात् नतु तादृशज्ञानपूर्वकत्वनिर्णयादपि मानाभावात् अन्यथा रजतत्व- विशिष्टवैशिष्ट्यावगाहिज्ञाने रजतत्वप्रकारकज्ञानपूर्वकत्व प्रकारकज्ञानादपि रजतोद्देश्यकप्रवृत्त्यापत्तिः एवंच घटादिविशेष्यकदण्डादिपूर्वकत्वज्ञानजनकसामग्याः दण्डायनुत्पादकत्ववत् निरुक्तपदकदम्बकविशेष्यकता. दृशज्ञानपूर्वकत्व प्रकारकानुमिनिजनकसामग्र्या अपि ताइशज्ञानानुत्पादकतया प्रवर्तकस्य शाब्दबोधसमाना- कारकज्ञानस्य पदकदम्बपक्षनिरुत्वानुमानादनिष्पन्नत्वात् तदर्थ शब्दस्य पृथक्प्रामाण्यमावश्यकमियतः कल्पान्तरमाह ॥ यद्धति ॥ एते पदार्था इति ॥ घटकर्मत्वानयनादिपदार्थ इत्यर्थः अत्र बहुवचनं सं. दिनकरीयम्. वायभिचार इत्याकाङ्काविशेषणं तच्चेदं पदमनेन पदेन सहामुकसंसर्गेणैतदर्थान्वितस्वार्थबोधं जनयत्वि- ति पदतात्पर्यार्थकं तेन नाकालाया इतरांशवैयर्थ्यप्रसङ्गः वह्निना सिञ्चतीत्यादिवाश्ये संसर्गप्रमापूर्वकत्व- साध्याभावेन व्यभिचारवारणाय हेती योग्यतापदम् । नीलो घटो द्रव्यं पट इत्यादौ नीलः इत्यादिभागे नी. लपटयोराकासायोग्यतासत्त्वेन हेतु सत्त्वाद्वयभिचारवारणायासत्तिपदम् । कदम्बपदं चाकाङ्क्षादीनां परस्परप्रति- योगित्वलाभाय अन्यथा साध्यस्य परस्परार्थघटितत्वेन व्यभिचारप्रसङ्गान् । नन्विष्टतावच्छेदकप्रकारकप्रवृत्ति विषयविशेष्य कज्ञानस्य प्रवर्तकतया संसर्गज्ञानपूर्वकत्वानुमितेरतादृशतया कथं प्रवर्तकत्वम् । अनुमितेाप. कतावच्छेदकप्रकारकत्वनियमेन प्रमापूर्वकत्वत्वेन प्रमापूर्वकत्वसिद्धावपि पुरोवर्तिविशेष्यकरजतत्वादिप्रकारका ज्ञानस्य तस्मादनुत्पत्तेस्तदर्थ शब्दप्रामाण्यस्वीकार इत्यत आह् ॥ यद्धति ॥ मिथःसंसर्ग इति ॥ तात्प.. यविषयपरस्परसंसर्गवन्त इत्यर्थः । तेन नातात्पर्य विषयसंसर्गमादायार्थान्तरम् । ननु दृष्टान्ते साध्यसिद्धधभा. वात् कथं व्याप्तिाह इत्यत आह ॥ दृष्टान्तेऽपीति ॥ ननु सर्वत्र शब्दश्रवणानन्तरमनुमितिरूपकार्यान्यथा. 99