पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ष्टान्तान्तरेण साध्यसिद्धिरिति । एवं गवयव्यक्तिप्रत्यक्षानन्तरं गवयपदं गवयत्वप्रवृत्तिनि- मित्तकं असति वृत्त्यन्तरे वृद्धस्तत्र प्रयुज्यमानत्वात् असति च वृत्त्यन्तरे वृद्धैर्यत्र यत्प्रयु. ज्यते तत्र तत्तत्प्रवृत्तिनिमित्तकं यथा गोपदं गोत्वप्रवृत्तिनिमित्तकम् । यद्वा गवयपद सप्र- प्रभा. घटःकर्मत्वमिति वाक्याधीनस्मृतिकालेऽपि घटकर्मत्वयोः पूर्वकालीनघटमिति वाक्याधीनस्मृतिवि षयस्वरूप हेतुसत्त्वात् तत्र वर्तमानप्रहघटितसाध्यस्य तमानीमभावाव्याभिचारो दुार इति वाच्यं वि षयतायाः ज्ञानसमानकालीनत्वपक्षाश्रयणात् विशेष्यतासंबन्धेन तादृशस्मृतिहेतुत्वस्वीकाराद्वा न व्यभि चार इति ॥ तादृशपदार्थवदिति ॥पटमानयतिवाक्यबोध्यपटकर्मवादिपदार्थवादित्यर्थः । ननु दृष्टान्तेऽपि कथं साध्यप्रसिद्धिरित्यत आह ॥ दृष्टान्तेऽपीति ॥ निरुक्तघटकर्मत्वादावपीत्यर्थः ।। दृष्टान्तान्तरेणेति ॥ कुड्यमानयेति वाक्ययोध्यकुडयकर्मत्वादिरूपार्थदृष्टान्तेनेत्यर्थः ॥ साध्यसिद्धिरिति ॥ निरुक्तसंसर्गव- स्वरूपसाध्यानुमितिरित्यर्थः सम्पादनीयेति शेषः तथाच दृष्टान्ते पूर्वोक्तलिङ्गेन दृष्टान्तान्तरे निणीतसाध्यस्या- नुमितिसंभवात नोक्तदोष इति भावः । ननु दृष्टान्ते साध्यपसिद्धिरनुमितिरूपैव वाच्या साच दृष्टान्ता- न्तरे साध्यप्रसिद्धयधीना तत्राप्यनुमिति रूपैव सत्यनवस्थानातू वापि साध्यप्रसिद्धिरनुमानानिर्वहतीति तदर्य शब्दस्य पृथक्प्रामाण्यमावश्यकामिति चेन्न भूतले घट इति वाक्यप्रयोग काले भूतले घटास्तित्वं प्रत्यक्षतो यत्रा. वगतं तत्र निरुत्ताहेतुमति तत्र भूतलास्तित्वविशिष्टघटे दृष्टान्तान्तरापेक्षां विना निरुतग्रहविषयत्वोपलक्षितसाध्य- स्य प्रात्यक्षिकसिद्धिसंभवात् तदृष्टान्तेनातीतानागतासनिकृष्टातीन्द्रियरूपार्थप्रतिपादकवाक्यस्थलेऽपि तत्तदर्थेषु पूर्वोक्तलिङ्गेन निरुक्कसाध्यानुमितिसंभवाच्च न तदर्थं शब्दस्य पृथक्प्रामाण्यमावश्यकमित्यभिप्रायः । एताव. ता शब्दस्यानुमानान्तर्गतत्वमुपपाद्य इदानीमुपमानस्य तदन्तर्गतत्वमुपपादयति ॥ एवमिति ॥ गवय- प्रत्यक्षानन्तरमिति ।। गवयत्वप्रकारकरावयविशेष्यकप्रत्यक्षा तिरमित्यर्थः एतेन वक्ष्यमाणे साध्यहेत्वोर- प्रसिद्धिशङ्का निरस्ता ॥ गवयत्वप्रवृत्तिनिमित्तकमिति ॥ गवयत्वावच्छिन्नशक्तिनिरूपकतावदित्यर्थः ।। असति वृत्त्यन्तर इत्यादि ॥ तत्तद्धर्मावच्छिन्नलाक्षणिकत्वाभाववाचे सति तत्तद्धर्मावच्छिन्नलाक्षणिकत्व- महाभाववत्त्वे सति वा तत्तद्धर्मावच्छिन्नविषयताशालिवोधतात्पर्य काभ्रान्तकर्तृकोच्चारणजन्यत्वादित्यर्थः यद्य. देतादृशोच्चारणजन्य तत्तद्धर्मावच्छिन्नशक्तिनिरूपकतावादिति समुदितग्रन्थार्थः । अत्र गङ्गायां घोष इति वा. क्यघट कतीरत्वावच्छिन लाक्षणिकगङ्गापदे निरुत्वहेतुमति व्यभिचारवारणाय सत्यन्तं नच गवयपदे गवय- स्वावच्छिन्नशकत्वानुमितिपूर्वं तद्धर्मावच्छिन्नलाक्षणिकत्वाभावानिर्णयात् कथं तद्धटितहेतुनिर्णय इति वाच्य- म् । इदम्पदमत्र लाक्षणिकमित्याप्तवाक्यादेव सत्यन्त निर्णयसंभवेनोक्तदोषानवकाशात् नच इदम्पदमत्र श- तमित्याप्तवाक्यादेव शक्तत्वनिर्णयस्यापि संभवात् अनुमानवैफल्यामिति वाच्यम् यादृशपदे इदम्पदमत्र न लाक्षणिकमिति तद्धर्मावच्छिन्नलाक्षणिकत्वाभावबोधकशब्द एवाप्तेनोच्चरितः नतु तद्धर्मावच्छिन्नशक्तमित्य- पि तादृशपदे शकत्वनिर्णयार्थमनुमानाङ्गीकारस्यावश्यकत्वादुपायस्योपायान्तरादूषकत्वाच्च एतदस्वरसेनैव सत्यन्तस्यान्यार्थकरणं घटादौ व्यभिचारवारणाय विशेष्य दळं पटवावच्छिन्नविषयकबोधतात्पर्येणानुच्चारि- तघटपदे निरुक्तहेतुमति घटत्वावच्छिन्नशक्तत्वरूप साध्याभावाद्यभिचारवारणाय हेतुघटकोच्चारणे तद्धर्माव- च्छिन्नविषयताशालिबोधतात्पर्यक्रत्वविशेषणं तादृशतात्पर्यजन्यत्वं तदर्थः एवंच तादृशघटपदे पटत्वावच्छि, प्रबोधतात्पर्यकत्वघटितहत्त्वभावात् न व्यभिचारः घटपदस्य पटत्वावच्छिन्नशक्तत्वभ्रमवता पटत्वावच्छिन्न- विषयकबोधतात्पर्येणोच्चरितधटपदे निरुक्तहेतुमति पटत्वावच्छिन्नशक्तत्वरूपसाध्याभावात् व्यभिचारवारणा व हेतुघटकोचारणेऽभ्रान्तकर्तृकत्वाविशेषणम् । एवंच तादृशघटपदोच्चारयितुः घटपदे घटशक्तत्वनान्तिमत्त्वेन ताशघटपदेऽभ्रान्तकर्तृकत्वघटितहेत्वभावान्न व्यभिचारः उक्तसामान्य मुखोज्याप्ती दृष्टान्तमाह ॥ गोपदमिति ॥ नच गोपदे गोत्वावच्छिन्नशक्तत्वानुमानात् प्राक् सध्यनिर्णयाभावात् कथं दृष्टान्तत्वमिति कच्यम् तत्र वृद्धव्यवहारेणैव शक्तिप्रसंभवात् दृष्टान्तत्वोपपत्तिः गवयपदस्थले तु अनायासेन वृद्धव्यवहार- यथा