पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः येन रूपेण व्यापकता गृह्यते तत्सम्बन्धावच्छिन्नप्रतियोगिताकतद्धर्मावच्छिन्नाभाववत्ताज्ञा- नात् तत्सम्बन्धावच्छिन्नप्रतियोगिताकतद्धर्मावच्छिन्नाभावस्य सिद्धिरिति । इत्थं च यत्र विशेषणतादिसम्बन्धेनेतरत्वव्यापकत्वं गन्धात्यन्ताभावे गृह्यते तत्र गन्धाभावाभावे नेतरत्वात्यन्ताभावः सिध्यति । यत्र तु तादात्म्यसम्बन्धेनेतरव्यापकत्वं गन्धाभावस्य गृह्यते प्रभा. नुमितिविषयीभूतं च वक्ष्यमाणं ज्ञेयमित्यर्थः वक्ष्यमाणमेवाह । येन संवन्धेनेति ॥ यत्र यत्संबन्धाव- च्छिन्नयद्धर्मावच्छिन्नव्यापकता वर्तमानप्रहविषयेत्यर्थः ॥ तत्संबन्धावच्छिन्नेत्यादि । तत्संबन्धाव- च्छिन्नतद्धर्मावच्छिन्न प्रतियोगित्वात्मकतत्प्रतियोगित्वरूपव्यतिरेकव्याप्तिप्रकारतानिरूपिततदाश्रयप्रकारतानिरू. पितपक्षतातच्छेदकावच्छिन्नविशेष्यताशालिपरामर्शादित्यर्थः तत्संबन्धावच्छिन्नतद्धर्मावच्छिन्नव्यापकत्वप्रका- रतानिरूपित्ताश्रयनिष्ठप्रकारतानिरूपिततत्संबन्धावच्छिन्नतद्धर्मावच्छिन्न प्रतियोगिताकत्वरूपव्याप्तिप्रकारतानि-- रूपितहेतुतावच्छेदकसंबन्धावच्छिन्नहेतुप्रकारतानिरूपितपक्षविशेष्यताशालिप रामशादिति फलितार्थः । नातः वह्नयभावव्यापको धूमाभाव: धूमाभावप्रतियोगिमान् पर्वत इति ज्ञानात्पर्वतो वह्निमा नित्यनुमित्यापत्तिः ॥ यत्संबन्धेन यदवच्छिन्नं प्रतीति ॥ यत्संवन्नावच्छिन्न बद्धर्मावच्छिन्नव्यापकतानिरूपितेत्यर्थः । तत्सं- वन्धावच्छिन्नेत्यादि । व्याप्यतावच्छेदकत्वेनाभिमतभ्रम संबन्धावच्छिन्न प्रतियोगिताकाभावविधेयताकानु. मितिरित्यर्थः । तथाच वह्निमान् धूमादित्यादौ धूमाभावस्य हृदत्वाद्यवच्छिन्नाभावसंबन्धान्तराव च्छिन्नप्रतियोगिताकाभावानां व्यापकतावच्छेदकीभूतधूमाभावत्वदेशिकाविशेषणतासंबन्धोभयावच्छिन्न प्रति. योगिताकत्वरूपव्याप्त्यनाश्रय तया न तत्रातिव्याप्तिः एवं वह्नयभावस्य द्वित्वाचवच्छिन्नाभावसंबन्धान्तरा. वच्छिन्न प्रतियोगिताकाभावानां व्याप्यतावच्छेदकीभूत शिकविशेषणतासंबन्धसंयोगसंबन्धावच्छिन्नवाहित्वा - वच्छिन्न प्रतियोगिताकाभावत्वरूपधमतदुभयावच्छिन्न प्रतियोगिताकाभावरूपत्वाभावात् न तद्विधेयकानुमिः त्यापत्तिरिति भावः । इत्थंचेति ॥ व्याप्यतावच्छेदकसंबन्धधर्मावच्छिन्न प्रतियोगिताकाभावानुमितिस्वी. कारे चेत्यर्थः । यत्रेति ॥ यदेत्यर्थः ॥ इतरत्वव्यापकत्वमिति । पृथिवी भिन्नत्वव्याप्यत्वेनाभिमतद्रव्य. विभाजकोपाधिपदार्थविभाजकोपाधिव्यापकत्वमित्यर्थः । तत्रेति । तदेत्यर्थः ॥ इतरत्वात्यन्ताभाव इति तादृशज लत्वादितादशगुणत्वादेः व्याप्य तावच्छेदकत्वेनाभिमततत्तत्संबन्धतत्तद्धर्मावच्छिन्न प्रतियोगिताकात्य. न्ताभावसमुदाय इत्यर्थः ॥ सिध्यतीति ॥ अनुमितिविधेयतावानित्यर्थः । तथाच एकहेतुना एकदैव ता. शाभावसमुदाय साधनसंभचे प्रत्येकाभावसाधनमनुचितं प्रथासाधिक्यात् प्रयोजनाभावाचेत्याशयः । यथाश्रुता यस्तु न सङ्गच्छते पृथिवी भिन्नत्वात्यन्तामावस्य पृथिवीत्वस्वरूपस्य पक्षे सिद्धतया तत्साधने सिद्धसाधनापत्तेः न च पृथिवीत्वस्य पृथिवी त्वत्वेन तद्यक्तित्वेन वा सिद्धावपि तादृशात्यन्ताभावत्वेनासिद्धत्वान्न सिद्धसाधनावकाश इति वाच्यं ताशात्यन्ताभावत्वस्य तादृशधर्मसमनियतत्वेनातिरिक्तत्वे प्रमाणाभावेन च तत्त्वरूपत्वावश्यकतया तेन रूपेणापि सिद्धनिष्प्रत्यूहत्वात् ॥ यत्रत्विति ॥ यदेत्यर्थः अवधारणार्थकतुशब्दः व्यापकतेत्युत्तरं योज्यः॥ तादात्म्यसंबन्धेनतरव्यापकतेति ॥ तादात्म्य संबन्धावच्छिन्नजलवाद्यभावत्वान्ताभ्यतमधर्माव. दिनकरीयम् व्यतिरेकिसाध्यकमित्यर्थः ॥ यत्सम्बन्धेन यदवच्छिन्नं प्रतीति ।। यत्सम्बन्धावच्छिन्नयद्रूपावच्छिन्न- व्याप्यतानिरूपितव्यापकता गृह्यत इत्यर्थः ॥ इतरव्याप्यतेति ॥ इतरस्य व्याप्यतेत्यर्थः । तादात्म्येने. तरव्यापकतेति पाठे तादात्म्यसम्बन्धावच्छिन्ना या इतररानिष्टव्याप्यता तन्निरूपितव्यापकतेत्यर्थः । तादा- त्म्यसम्बन्धेनेति ॥ तादात्म्यसम्बन्धावच्छिन्नप्रतियोगकाभावः सिध्यतीत्यर्थः । येन सम्बन्धेन व्या- प्यता गृह्यत इत्यनुक्कौ तु तादात्म्येनेतरस्य व्यापकता यत्न गृहीता तत्रेतरात्यन्ताभावस्य सिद्धिः स्यादिति भावः । संयोगसम्बन्धावच्छिन्न प्रतियोगिताकवयभावेनेति सावधारणम् । तेन सम्बन्धान्तरावच्छिन्नप्रति-