पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता ७९३ तत्र तादात्म्यसम्बन्धेनेतगभावः सिध्यति स एवान्योन्याभावः । एवं यत्र संयोग- सम्बन्धेन धूमं प्रति संयोगसम्बन्धेन वह्नयापकता गृह्यते तत्र संयोगसम्बन्धावच्छिन्न प्र. तियोगिताकवह्नयभावेन जलहदे संयोगसम्बन्धावच्छिन्नप्रतियोगिताकधूमाभावः सिध्य- प्रभा. च्छिन्नव्याप्यतानिरूपितव्यापकतैवेत्यर्थः ।। तत्रेति ॥ तदेत्यर्थः । तादात्म्यसंबन्धेन इतराभाव इ. ति ॥ तादात्म्यसंबन्धावच्छिन्नजलवाद्यभावत्वान्तसमुदायघटकप्रत्येकधर्मावच्छिन्न प्रतियोगिताकाभावस- मुदाय इत्यर्थः । इतरेषामभाव इति व्युत्पत्त्या तादृशसमुदायलाभादिति भावः । यथाश्रुते तादात्म्ये. न इतराभावस्य पृथिवीभिन्नत्वाधवाच्छन्न प्रतियोगिताकभेदरूपस्य पृथिवीत्वरूपतया उक्तदोषापत्तेः ॥सि- भ्यतीति ॥ अनुमितिविधेयताबानित्यर्थः ॥ स एवेति ॥ तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकाभाव एवेत्यर्थः ॥ अन्योन्याभाव इति ॥ अन्योन्याभाषशब्दवाच्य इत्यर्थः । ननु जलादिप्रतियोगिकभेदस- मुदायत्वावच्छिन्नस्यानिश्चयात् कथं पृथिवीविशेष्यकतादृशसमुदायत्वावच्छिन्नविधेयताकानुमितिः विशेषणता. वच्छेदकप्रकारकानर्णयम्याभावात् । नच तत्र तादृशानुमितिसंभवेऽपि पृथिव्यां तादृश समुदाय इति साध्यविशेष्यकानुमितिरेव स्वीक्रियतामिति वाच्यम् । तथासति पृथिवी इतरेभ्यो भिद्यत इति प्रतिज्ञाप्रयो- गस्य नचेयं तथेत्युपनयस्य चासाङ्गल्यापत्तेः पृथिव्यामितरेभ्यो भेद इति प्रतिज्ञाप्रयोगस्य नचास्यां तथेत्यु- पनयप्रयोगस्य चापत्तेः । नचेष्टापत्तिः कथकसम्प्रदायविरुद्धत्वादिति चेन्न विशिष्ट वैशिष्ट्यबुद्धिमात्रे न विशेषण- तावच्छेदकप्रकारकनिर्णयस्य हेतुत्वं स्मृतो व्यभिचागत् किंतु तादृशप्रत्यक्षमात्रे । एवंच प्रत्यक्षान्यज्ञानमात्र- स्थ तादृशकार्यतावच्छेद कानाक्रान्ततया तादृशसमुदायत्वप्रकारकनिश्चयरूपकारणाभावेऽपि पृथिवी जलादिभे- दसमुदायवतीत्य नुमितरविरोधात् तत्रच विशिष्टवैशिष्टयावगाहनुभवत्वमेव तादृशनिश्चय कार्यतावच्छेदकं प्र- कृते तादृशनिश्चयरूप कारणाभावन विशेष्ये विशेषणमिति रीत्यैव तादृशानुमितिः स्वीक्रियते कचित् विशेष्ये विशेषणामिति रीत्यानुमितिस्वीकारे बाघकाभावादित्यस्मद्गुरुचरणाः । ननु पृथिवीत्वावच्छिन्नपक्षकनिरुकेत. रभेदसाध्यकगन्धत्वावच्छिन्नहेतोरसत्सपक्षत्वरूप केवलव्यतिरोकित्वमनुपपन्नं पक्षकदेशघटादावेव निरुतसा. यनिर्णयसंभवेन तस्यैव पक्षत्वादिति चेन्न अनुमितेः पूर्व घटत्वाधवच्छिन्नेऽपि साध्यतावच्छेदकतादृशसमु- दायत्वेन साध्यनिश्चये मानाभावात् । तथाहि न तादृशनिश्चयः प्रत्यक्षात्मकः साध्यात्मकसमुदायघटककाल- त्वदित्वाचवच्छिन्न प्रतियोगिताकत्वायोग्यधर्मावच्छिन्न प्रतियोगिताकत्वान्यतरवत्वरूपनियामकाभावात् प्र. त्यक्षविषयत्वासंभवेतातीन्द्रियतया तद्धटितसमुदायवृत्तिसमुदायत्वस्याप्यतीन्द्रियत्वात्तेन रूपेण निरुकसाध्य- स्याप्यतीन्द्रियत्वात् । नानुमितिरूपः घटत्वादिरूपप्रत्येकधर्मावच्छिन्ने तादशसमुदायसाध्यकहे तोरपि केवलव्य. तिरेकित्वावश्यकत्वात्प्रयोजनाभावेन पृथिवीत्वावच्छिन्नपक्षकत्तादृशानुमितेः पूर्व घटत्वाद्यवच्छिन्नपक्षकतादृशा- नुमितिकल्पनानौचित्यात्। नापि शाब्दः घटः इतरेभ्यो भियत इति वाक्यश्रवणानन्तरं कुत इत्याकासोदयेन हेतु. वाक्यप्रयोगेण विना जिज्ञासानिवृत्त्यभावेन प्रतिज्ञावाक्यजन्यशाब्दबोधे अप्रामाण्यज्ञानोत्पत्या घटादौ अप्रामा. ज्ञानानास्कन्दिततादृशनिश्चयस्य निरुतवाक्यादसंभावितत्वात्तस्मात्पृथिवीत्वावच्छिन्ने तादृशानुमितिपूर्व घ. टत्यायवच्छिन्ने तादृशनिश्चयस्याप्रामाणिकतया गन्धवत्त्व हेतोः केवलव्यतिकित्वं उपपन्नमेवेति । अत्र पक्षकदेशे सामध्यभावान साध्यप्रसिद्धिस्संभवतीत्यभिप्रायेणाप्रसिद्धसाध्य ककेवलव्यतिरेकित्वेन इतरभेद साधकगन्धवत्व. मु दाहतम् । अनुमानेन पक्षकदेशे साध्यप्रसिद्धि सम्पादने पृथिवी इत्तरेभ्यो भिधसे गन्धवक्त्वादिल्यादावित्यत्रादि- पदप्राचं एतत्पवानेतदसादित्यादि स्थलीयैतद्रप्तादिकं आकाशं नित्यं शब्दवत्त्वादित्यादिस्थलीयशब्दवत्वादिकं च केवलव्यांतरेक्युदाहरण बोध्यं तत्रादा अप्रसिद्धपाध्यककेवलव्यतिरेकि द्वितीयं प्रसिद्धसाध्य ककेवलष्यतिरेकी. दिनकरीयम्. योगिताकेन न तसिद्धिरित्यर्थः। अनेन च बेन सम्बन्धेन ब्यापकता गृह्यत इत्यत्य फलं सूचितम् । प्रद- शिंतरीत्यैव येन रूपेण यदवच्छिन्नेत्यनयोरपि प्रयोजनमूह्यम् । ननु साध्यसाधनसहचारज्ञानाभावात् कथं 100