पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । सुखं तु जगतामेककाम्यं धर्मेण जायते । अधर्मजन्यं दुःखं स्यात् प्रतिकूलं सचेतसाम् ।। १४५ ॥ सुखं निरूपयति ।। सुखं त्विति । काम्यममिलापविषयः ॥ धर्मेणेति ॥ धर्मत्वे- न सुखत्वेन कार्यकारणभावादिति भावः । दुःखं निरूपयति ॥अधर्मेति ।। अधर्मत्वेन दुःखत्वेन प्रभा. मूले सुखन्तु जगतामेककाम्यमिति ॥ अत्राहं मुखीति प्रतीतिसाक्षिकसुखवजामित्त्वं सुखस्य लक्षणमिति लक्ष्यनिर्देशात्सूचितमतस्सुखस्वरूपमाह ॥ जगतामिति ॥ सर्वपुरुषाणामित्यर्थः ॥ एकका- म्यमिति ॥ मुख्य कामनाविषय इत्यर्थः । अन्यविषयकेच्छानधीनेच्छाविषय इति यावत् । तथाच सर्व- पुरुषपदकप्रत्येकसमवेतान्यगोचरे छानधीनेच्छाविषयस्वरूपमिति यावत् । शकरादिभक्षणेऽपि कस्यांचत्ता - दृशेच्छाविषयत्वात् जगतामिति सुखसाधनस्यापि सर्व पुरुषीय कामनाविषयत्वात् मुख्यार्थकमेकपदम्। ए. वंच तादृशेच्छाविषयतावच्छेदकजातिमत्स्वरूपमिति फलितार्थः । तेन सर्व पुरुषी यतादृशकामनाविषयत्वस्य कस्मिन्नपि सुखेऽभावेऽपि क्षतिर्न । अथवा एकं च तत्काम्यं चेति कर्मधारयः काम्ये एकत्वं मुख्यन्दं फलाव. मिति यावत् । स्वर्गसाधनयागो मम भवत्विात सर्वपुरूषीयकामनाविषयत्वस्य यागेऽपि सत्त्वात्तव्यावर्तनाय एक. त्वविशेषणम् । यागस्य फलत्वाभावान्न दोषः । तथाच तादृशकामनाविषयफलनिष्ठधर्मवत्वं लक्ष्यतावच्छेदके तद्विशिष्टं सुखस्वरूपमिति भावः । अत्र लक्षणस्य लक्षणान्तरादूषकत्वादुभयमपि लक्षणं लक्ष्य तावच्छेदकं सुख- पदवाच्यत्वं द्वयोर्मध्ये एकैकलक्षणस्यापरं वा बोध्यम् । दुःखलक्षगमप्येवमेवेत्यस्मद्गुरुचरणाः । अत्र तत्सुखं द्वि विध वैशेषिक मनोरथं चेति । अत्रायं सकचन्दनबनितासंभोगादिनिमित्तकं धर्मस्तु तादृशसंभोग सम्पादकद्वारा उपयुज्यते । द्वितीयन्तु ज्ञाननिामेत्तकं धर्मस्तु ज्ञानकारणचित्तशुद्धिसम्पादकद्वारा उपयुज्यत इति विवेकः । काम्यपदम्य कर्मविशेषपरत्वे जगतामेककाम्यमिति मूलेन निरुक्तार्थप्रतिपादनासंभवात् कामनादिविषयार्थ- कत्वमाह । मुक्तावळ्यां अभिलाषादिविषय इति ॥ धर्मत्वेन सुखत्वेन कार्यकारणभावा दिति भाव इति । नच नवीनेकदेशिभिनित्य सुख ङ्गीकारात् सुखत्वस्व गित्यत्तितया तादृश कार्यकारण. भावोऽप्रामाणिकः । किन्तु जन्यसुखत्वेन मुखत्वावान्तर जायेन वा कार्यकारणभावो वाच्य इति निरुतभा- ववर्णनमसङ्गतामति वाच्यम् । ईश्वरे नित्य सुखासीकारे प्रमाणाभावेन एकदेशिमतस्य हेयत्वात् । नचानन्दं ब्रह्मेति श्रुतेरेवेश्वरस्य नित्यमुखत्वे प्रमाणत्वामिति वाच्यम् तत्रानन्दपदस्य दुःखाभावलाक्षाणकत्वस्वीकारा त् । अन्यथा अहं ब्रह्मास्मीत्यादिश्रुतिभिः शक्त्या जीवब्रह्मणोरभेदप्रतिपादनात् तयोर्भेदविलोपापत्तेः । नचैवं सति तुल्ययुक्तथा नित्यज्ञानेच्छाकृतिमत्त्वमपि ईश्वरे न सिध्येदिति वाच्यम् । कार्यायोजनकृत्यादेरि त्याद्याचार्यकारिकाप्रतिपाद्यप्राथमिककार्यपक्षकेश्वरसाधकानुमानादुपादानगोचरापरीक्षज्ञानचिकीर्षाकृतिमत्त्व रूपकर्तृवेनैवेश्वरसिद्धेवक्तव्यतया लाघवज्ञानसहकारेण नित्यत्वेन एकत्वेन ईश्वरस्येव नित्यत्त्वेन एकत्वेन च तत्र मानेच्छाकृतीनामपि सिद्धरावश्यकत्वात् अन्यथा ईश्वरासिद्धिप्रसन्नात् तस्मादीश्वरे नित्यमुखसत्त्वे प्रमाणाभावेन लघुकृप्तधर्मपुरस्कारेण उक्त कार्यकारणभावो युक्त इति ॥ मूले अधर्मजन्यमिति ॥ यद्य- पिप्रथमं दुःखात्य लक्षणं स्वरूपं चोक्तचैव उपाय: प्रदर्शनीयः प्रथमतस्तदनिरूपणे तस्याज्ञानेन तत्साधनस्या- जिज्ञासितत्वेन तदभिधाने अर्थान्तरापत्तेः तथैव कधकसम्प्रदायाच तथापि पाठक्रमादर्थक्रमो बलीयानिति न्यायेनागत्या पश्चादुक्तमपि वाक्यं प्रथममनुसन्धेयामिति नोक्तदोषावकाश इति हृदयम् । अत्राहं दुखीति प्रतीतिसाक्षिकदुखत्वजातिमत्त्वं दुःखसामान्य लक्षणं लक्ष्यवाचकदुःखशब्देन सूचितमिति बोध्यम् । दुःख. स्वरूपमाह ॥ प्रतिकूलं सचेतसामिति ।। सर्वप्राणिनामन्यगोचरद्वेषानधीनद्वेषविशेष्यमित्यर्थः । दुःख- दिनकरीयम्. धर्मत्वेनेति ॥ इदं व प्रावां मतेनोकम् । नवीनमते तु नित्यं विज्ञानमानन्दं ब्रह्मेति श्रुत्या भगव- ति नित्यसुखसिद्धौ धर्मस्य कार्यतावच्छेदकं जन्य मुखत्वं सुखत्वावान्तरजातिति बोध्यम् ॥ १४५ ॥