पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा तु या भवेत् । तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत् ॥ १४७ ।। चिकीर्षेति ॥ कृतिसाध्यत्वप्रकारका कृतिसाध्यविषयिणीच्छा चिकीर्षा पाकं कृत्या साधयामीति तदनुभवात् । चिकीर्षां प्रति कृतिसाध्यताज्ञानमिष्टसाधनताशानं च कारण- ॥ प्रभा. कृतिसाध्यत्वप्रकारच्छेतिमूलस्थबहुव्रीहिसमासवाक्यप्रतिपाद्यार्थमाह ॥ कृतिलाध्यत्वप्रकारिका कृ- तिसाध्यविषयिणीति ॥ यद्यपि कृत्य साध्यवृष्टयादौ कृति साध्यत्वभ्रमानन्तरं तद्विशेष्यकेष्टसाधनताहाना- नन्तरं च कृतिसाध्यो वृष्टयादिमम भवस्विति चिकीर्षोदयात् तस्या वस्तुतः कृतिसाध्यविषयकत्वाभावेन तत्सहानुपपत्त्या वैययन च चिकीर्षायां कृतिसाभ्यविषयकत्वविशेषणं व्यर्थ तथापि अभ्रान्तसमवेतचि- की मात्रं कृतिसाध्यविशेष्यकमेवेति स्फुटप्रतिपत्त्यर्थ चिकीर्षायां तद्विशेषणम् । लक्षणं तु कृतिसाध्यस्वन-- कारकेच्छात्वमेव चिकीर्षामीति प्रतीतिसाक्षिकोपायेच्छामाप्रवृत्तिवैजात्यव्याप्यजातिविशेषवत्त्वं वेति हद- यम् । यद्यपि कर्तुमिच्छा चिकीर्षेति व्युत्पत्तिबलात्कृतिसाध्यत्वप्रकारकेच्छैव तु चिकीर्ष शब्दलण्या तथापि दाढर्याय तस्यापि कृतिसाध्यत्वप्रकारकत्वे अनुभवमपि प्रमाणयति ।। पाक कृत्येति ॥ नच तादृशवाक्यात् कृत्या कृतिरूपसाधनेन साधयामि निष्पादयामीत्यर्थकरणेन पाकनिष्ठयनसाधनकनिष्पत्त्यनुकूलोऽहमिति बोध. जननातादृशशब्दोल्लेख्यनुभवस्यापि तद्विषयकत्वावश्यकतया तस्याः कृतिसाध्यत्वप्रकारकरवे नोकानुभव: प्रमाण मिति वाच्यं स्वप्रयोज्योत्पत्तिमात्रस्य स्वीयकृतिजन्यस्वनियमेन स्वयत्नं विना स्वस्य उत्पत्त्यनुकूल- स्वासंभवेन कृयेत्यस्य आनर्थक्यापत्त्या तादृशवाक्यस्य तदर्थक्रत्वं न संभवति किंतु कृत्या साध्यतासंबन्धेन कृतिप्रकारेण साध्यत्वप्रकारेणेति यावत् साधयामि इच्छामीत्यर्थकरणेन तादृशवाक्यात्साध्यत्वप्रकारपा- कत्वावच्छिन्नविशेष्यकेच्छावानमिति बोधजननात् शब्दोल्लेखितादृशानुभवस्यापि तद्विषयकत्वावश्यकतया चिकीर्षायाः कृतिसाध्यत्वप्रकारकत्व स्वीकारे तस्य प्रमाणत्वं संभवतीत्याशयः । ननु स्वर्गेच्छाधीना यागों मम भवस्विति इच्छा उपायेच्छा तादृशेच्छाधीन! कृतिसाध्यो यागो मम भवविती च्छैव चिकीर्षा उभयोरप्युपायेच्छारूपत्वात् इष्टसाधनताज्ञानरूपकारणसत्त्वे कदाचिदुपायेच्छेति शब्दवाच्ययागत्वमात्र. प्रकारेण यागविशष्य केच्छा कदाचिच्चिकीर्षापदवाच्या कृतिसाध्यत्वविशिष्टयागत्वप्रकारेण यागविशेष्य- केच्छेति कुतः तुल्यकारणसत्वादित्याशङ्कां चिकीर्षायां कारणान्तरप्रदर्शनेन पारहरति । चिकीर्षी प्रतीति । तथाच कृतिसाध्यताज्ञानासमानकालीनेष्टसाधगताज्ञानात् उपायेच्छा तत्समानकालीनतादृशज्ञाना- त् चिकीर्षेति सामग्रीभेदानोकानुपपत्तिरिति भावः । अत्र निष्फले प्रवृत्तिवारणाय इष्टसाधनताज्ञानस्य उपा- थेच्छां प्रति हेतुत्वं तत्रापि इष्टरवं न विशेषणं तज्ज्ञानशून्यकाले इष्टसाधनताज्ञानानुत्पत्तिप्रसङ्गात् । किन्तु स्वर्गा- दिफलानां परिचायकमतस्तज्ज्ञानापेक्षाभावानोकानुपपत्तिरिति ध्येयम् । यद्यपि तद्धर्मावच्छिन्नविशेष्यके. साधनताज्ञानस्य तद्धर्मप्रकारकेच्छां प्रति हेतुतया कृतिसाध्ययागो मदिष्टसाधनमिति कृतिसाध्यत्वविशि- दिनकरीयम्. कृतिलाध्यताज्ञानमिति ॥ ननु कृतिसाध्यताज्ञानस्य स्वातन्त्र्येण चिकीर्षां प्रति हेतुत्वे मानाभा. वः तद्धर्मावच्छिन्नविशेष्यकेष्टसाधनताशानस्य तद्धर्मप्रकारकेच्छां प्रति हेतुतायाः क्लप्तत्वात् कृतिसाध्यपाक- त्वावच्छिन्नविशेष्य केष्टसाधनताज्ञानादेव चिकीर्षायाः सम्भवादिति चेन्न । यत्र कृतिसाध्यपाकत्वेनेष्टसाधनत्वं न गृहीतमपि तु शुद्ध पाकत्वेन कृतिसाध्यत्वं शुद्धपाकत्वेन चेष्टसाधनत्वं गृहीतं तत्रापि पाकगोचरप्रवृत्तेरानु- भविकतया तदनुरोधेन चिकीर्षाया अप्यावश्यकत्वेन तन्निर्वाहाय कृतिसाध्यताज्ञानस्य स्वातन्त्र्येण हेतुताया आवश्यकत्वात् । अथ कृत्यसाध्यताज्ञानस्य प्रतिबन्धकत्वादेव वृष्ट्यादौ चिकीर्षानुत्पादात् कृसिसाध्यताज्ञा- नस्य चिकीर्षा प्रति हेतुत्वे मानाभाव इति चेन्न कृतिसाध्यत्वाभावतद्वयाप्यतदवच्छेदकधर्मज्ञानानां प्रतिब- न्धकत्वकल्पनापेक्षया कृतिसाध्यताझानस्य हेतुत्वे लाघवात् ॥ इष्टसाधनताज्ञानमिति ॥ अन्यथा नि. 101