पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणस्खण्ड: म् ॥ तद्धेतुरिति ॥ अत एव वृष्टयादौ कृतिसाध्यताज्ञानाभावान चिकीर्षा ॥ १४७ ॥ बलवाविष्टहेतुत्वमतिः स्यात् प्रतिबन्धिका । तदहेतुत्वबुद्धेस्तु हेतुत्वं कस्यचिन्मते ॥ १४८ ।। बलवद्दिष्टेति ॥ बलवहिष्टसाधनताशानं तत्र प्रतिबन्धकमतो मधुविषसम्पृक्तान्नभो- प्रभा. ध्यागत्वावच्छिन्नविशेष्यकष्टसाधनताज्ञानादेव चिकीर्घोत्पत्तिसंभवात् कृतिसाध्यताज्ञानस्य पृथकारणत्वमनु. चितं तथापि यत्र शुद्धयागत्वावच्छिन्नविशेष्यकमेव एकत्र द्वयामिति रीत्या कृति साध्येष्टसाधनत्वोभयप्रकारक ज्ञानं जातं तदुत्तरं प्रवृत्त्यनुरोधेन चिकीर्घोत्पत्तेरा वश्यकतया तदनुरोधेन कृतिसाध्यत्व प्रकार कज्ञानस्य स्वात- व्येण हेतुत्वमजीकृतम् । नच कृत्यसाध्यत्वप्रकारकनिर्णयस्य प्रतिबन्धकत्वमेवास्तु किं तत्प्रकारकज्ञानत्वेन हेतुतयेति वाच्यं कृत्य साध्यत्व तद्याप्यधर्मत्त्वतदवच्छेदकतया गृहीतधर्मवत्त्वप्रकारकनिर्णयानां तेन तेन रू. पेणानेकप्रतिबध्यप्रतिबन्धकभाव कल्पनापेक्षया कृत्तिसाध्यत्वप्रकारकज्ञानत्वेनैकहेतुताकल्प नस्यैवाचितत्वात् । नचैवं सति यत्र कृतिसाध्य ताज्ञानं कृत्य साध्यताझानं वा नास्ति तत्र चिकीर्षानुत्पत्तिप्रसङ्ग इति वाच्य इ- टापत्तेः तद्धर्मप्रकारकोपस्थिति शून्यकालीनतद्धर्मप्रकारकेच्छायां मानाभावात् अन्यथा सर्वदा सकलफलतदु. पायविषयकेच्छापत्तिः। तस्मादन्यथानुपपत्त्या अनाहार्याप्रामाण्यज्ञानानास्कन्दितकृतिसाध्यत्वप्रकारकेच्छा- वेन पृथग्धेतुत्वभावश्यकामिति उक्तार्थमेव प्रकाशयति । अत एवेति ॥ कृत्य साध्यत्व प्रकारकज्ञानस्य प्र. तिबन्धकत्वमनुक्ता कृतिमाध्यत्वप्रकार कज्ञानस्य हेतुत्वम्वीकारादेवेत्यर्धः ॥ न चिकीति ॥ तथाच कृत्य साध्यत्वप्रकारकज्ञानाभावरूपकारणबलात्तत्र चिकीर्षापत्या कृतिसाध्यताज्ञानस्य हेतुत्वमावश्यकमिति भावः । ननु कामोऽभिलाषः रागः सङ्कल्पः कारुण्यं वैराग्यमुपगूढः भाव इत्येवमादय इप्ति भाष्यात मैथुनेच्छा का- म: अभ्यवहारेच्छा अभिलाषः पुनःपुनः विषयानुरजनेच्छा रागः अनासन्नक्रियेच्छा सङ्कल्पः स्वार्थमन- पेक्ष्य परदुःखप्रहाणेच्छा कारुण्य दोषदर्शनात् विषयपरित्यागेच्छा वैराग्यं परवञ्चनेच्छा उपगृड: अन्त निगूढेच्छा भावः एवमादय इत्यादिपदात् चिकीर्षा जिहीर्षा स्पृहा कापटयं लोभ इत्यादेः परिग्रहः। कर्तुमि- छ। चिकीर्षा संहारेच्छा जिहीर्षा परद्रव्यादानेच्छा स्पृहा अवश्यकर्तव्येऽपि स्वव्यापरित्यागेच्छा लोभः अन्यायेन परद्रव्यापहरणेच्छा कापटथं इति टीकाकारव्याख्यानाच्च इच्छाया अनेकविधत्वप्र- तिपादनात् अत्र तदप्रतिपादनेन मूल कारस्य न्यूनतेति चेन्न पशुकामः पुत्रकामः आरोग्य कामः ब्रह्मवर्च- सकामः इत्यादिश्रुतिघटित कामपदस्य मैथुनेच्छारूप कामार्थत्वासंभवेनेच्छामात्रवाचकत्वावश्यकतया इच्छाप. दकामनापदयोः पर्यायत्वं श्रुतिसिद्धमिति तात्पर्येण प्रन्थविस्तरभयेन च अनेकविधत्वेन इच्छाया अप्रतिपादनामति न मूलकारस्य न्यूनतेति हृदयम् ॥ १४७ ॥ ननु उपायेच्छामात्रवृत्तिवैजाल्यावच्छिन्नं प्रतीष्टसाधनताज्ञानस्य तादृशवैजात्यव्याप्यचिकी मात्रवृत्तिः वैजात्यावच्छिन्नं प्रति कृतिसाध्यताज्ञानस्य च हेतुन्वे विषसम्पृक्तन्निभक्षणादौ चिकीर्षापत्तिः तत्र तृप्तिरूपेष्टसा. धनत्वकृतिसाध्यत्त्वज्ञानसत्त्वात् प्रवृत्त्यापत्त्या इष्टापत्तेर्वक्तमशक्यत्वादत आह ॥ मूले बलवीडिष्टेति ॥ दिनकरीयम्. फलत्वज्ञानेऽपि चैत्यवन्दनादौ चिकीर्षापत्तिरिति भावः । अत्रेदं बोध्यं पाकविशेष्यकेटसाधनताज्ञानस्य कार्यतावच्छेदकं न पाकादिगोचरचिकीर्षात्वं कृतिसाध्यत्वप्रकारकत्वानिवेशे प्रयोजनविरहात् पाको जायता. पितीच्छाया असा हापत्तेश्च कतु पाकवावच्छिन्नमुख्यविशेष्यकेच्छात्वं पाकसाध्यं सुखं जायतामितीच्छा. यां व्यभिचारवारणाय मुख्यति । इष्टसाधनतेत्य त्रेच्छा स्वरूप सती विशेषणं तेनेच्छाज्ञानशून्यकालऽपि चिकी निर्वाहः ॥ अत एव कृतिसाध्यताज्ञानस्य हेतुत्वादेव ॥ १४७ ॥ बलवद्दिष्टेति॥ द्विष्टं द्वेषविषयीभूतं । द्वेषस्य दुःखे ताद्रूप्येण ज्ञानात् । सर्पादौ तत्साधनताहानात् द्वेषे बलवत्त्वं जातिविशेषः ॥ प्रतिबन्धकामिति ॥ ननु अलवद्देषविषय साधनत्वज्ञानस्य प्रतिबन्धकत्वे चैत्रस्यागम्यागमन- 1