पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०४ कारिकावली [गुणखण्ड: प्रभा. फलेच्छेष्टसाधनताज्ञानद्वेषाणां क्रमेणोत्पत्तिः तत्र द्वेषोत्पत्तिकाले फलेच्छारूपकारमाभावानोपायेच्छा एवमन्य- त्रापि योग्यविभुविशेषगुणानां एकक्षणोत्पत्तेरपसिद्धान्तत्वादिति तल द्वेषस्य प्रतिबन्धकत्वं सुदूरपराहतं द्वि. साधनत्वधियः प्रतिवन्धकरवे मरणतृप्त्युभयविषयकज्ञानोत्तरं आदौ तद्विषयकद्वेषः अनन्तरं तृप्तीच्छा ततो विषसम्पृक्तानभक्षणादौ द्विष्टसाधनत्वेष्टसाधनत्वोभय ज्ञानं तदा इच्छासामग्रीसत्त्वेऽपि प्रतिबन्धकबला. देवोत्तरक्षणे न तादृशमक्षणविषयकेच्छेति न किञ्चिदनुपपन्नामत्याचं हृदि निधाय अन्य इत्युक्तामिति ध्ये- यम् । केचित्तु यत्र चोत्कटसुखोत्कटदुःखजनकत्वमेकस्मिन् कर्मणि गृहीतं तत्र सत्प्रतिपक्षस्थल इत इच्छाद्वेष- योरनुत्पत्तेः त्वम्मते तत्र कार्यकाले द्वेषाभावसत्त्वेन इच्छोत्पादापत्तेः । नच यत्र क्लवद्वेषसाधनत्वज्ञानेन तृतीयक्षणे द्वेषो जनितः तदुत्तरक्षणे इच्छोत्पादापत्तिः तवापीति वाच्यं तत्रेच्छाया उत्पादस्य इष्टत्वाक्ष- णविलम्बस्य शपथनिर्णेयत्वात् इत्यन्य इत्यनेनास्वरसस्सूचित इलाहुः तदसत् विघसम्पृक्तानभक्षणादौ तृप्ति- मरणसाधनताज्ञानानन्तरं तत्र इच्छानुत्पादेऽपि द्वेषोत्पादस्य सकलतान्त्रिकानुमतत्वात् अत एव विषसम्पृ- कानभक्षणं द्वेष्मीत्यनुभवः सङ्गच्छते । अत एव च बलवद्दिष्टसाधनत्वज्ञानात्य चिकीर्षाप्रतिबन्धकत्व प्रतिपा- दनं इष्टसाधनत्वज्ञानस्य बलबहेषप्रतिबन्धकत्वाप्रतिपादनं च बलवद्देषः प्रतिबन्धक इत्यन्य इत्यनेन बलवहे. घस्य चिकीर्षाप्रतिबन्धकत्वप्रतिपादनं चिकीर्षायाः बलवदुषप्रतिबन्धकत्वा प्रतिपादनं मूलकृतां भाष्यकारप्र- भृतीनां च सङ्गच्छते । तस्मादेकस्मिनुत्कटसुखोत्कटदुःखसाधनत्वज्ञानकाले बलवद्वेषसामय्याः प्रतिब- धकत्वेन द्वेषस्य उत्पत्त्या सत्प्रतिपक्षदृष्टान्तेनेच्छा द्वेषगोरनुत्पत्ति स्वीकृत्य उभयसामग्रीस्थले बलब ईषाभाव. रूपप्रतिवन्धकाभावबलादिच्छोत्पादापत्तिरूपास्वरसोत्थापनमेतन्मते न यौक्तिकं नानुभाविकं चेति । थन यत्न द्विष्टसाधनताज्ञानद्वितीयक्षणे इष्टसाधनताज्ञानं तृतीयक्ष द्वेषोत्पत्तिः तत्र चतुर्थक्षणे इच्छायाः उत्पादा पत्तिः पूर्वं द्विष्टसाधनताज्ञानरूपप्रतिबन्धकाभावादिति द्विपसाधनताज्ञानप्रतिबन्धकत्ववादिमते नवेत्यादिना दूषणं तदपि न द्विष्टसाधनताज्ञानद्वितीयक्षणे इष्टसाधन ताज्ञानोत्पत्तौ मानाभावात् द्वेष पामयाः प्राबल्येन त- दा द्वेषोत्पत्तेरेव सर्वसम्मतत्वात् । यत्रोक्तं तत्र इच्छोत्पादस्य इष्टत्वात् शपथनिर्णेयत्वात क्षणविलम्बस्येति त दपि न द्वेषोत्पत्तिद्वितीयक्षणोत्पन्नेष्टसाधनताज्ञानेनेच्छोत्पत्तेः सर्वैरेवाङ्गीकृतत्वात् कस्मिन्नपि मते क्षणविळ- म्बाप्रसक्त्या क्षणविलम्बस्य शपथनिर्णेयत्वात् कीर्तनानौचित्यादिति ॥ बलवद्दिष्टाजनकज्ञानमिति ॥ अनापि समवायेन तद्धर्मावच्छिन्नविशेष्यकचिकीर्षा प्रति एककालावच्छिन्नैकात्मवृत्तित्वस्वविषयतावच्छेदक- त्वोपलक्षितधर्मावच्छिन्ननिरूपितसाधनताभाव प्रकारतानिरूपेततद्धर्मावच्छिन्नविशेष्यताकत्वोभय संबन्धेन ब- लवद्वेषविशिष्टज्ञानत्वेन सपवायेन कारणत्वमिति निष्कृष्टार्थः । तेन पुरुषान्तरीयकालान्तरीयबलवद्वेषमादा- य नानुपपत्तिः । अत्र युद्धादौ बलवदनिष्टानुवन्धित्वसंशयेऽपि इच्छादेरुत्पत्या संशयनिश्चयसाधारणक्लवदनि- थाननुबन्धित्वज्ञानत्वेन हेतुत्वं वाच्यम् तादृशज्ञाने अप्रामाण्यनिश्चये सतीच्छाया अनुदयेन बलवदनिधाननु. बन्धित्वाभाववाद्विशेष्यकत्वविशिष्टबलवदनिष्टाननुबन्धित्व प्रकारकत्वरूपाप्रामाण्यप्राकारकनिश्चयानास्कन्दित.. खमपि निरुक्तकारणतावच्छेदककोटौ निवेशनीयमिति महागौरवं तादृशज्ञानस्य प्रतिबन्धकत्वे बलवदनिष्टान- नुबन्धित्व प्रकारकनिश्चयत्वस्यैवोक्तयुक्या प्रतिबन्धकतावच्छेदकत्वावश्यकतया तत्र संशयनिश्चयसाधारणा- दिनकरीयम्. दृशद्वेषानुत्तरच्छायां तु तद्धर्मप्रकारकद्वेषाभावः कारणमिति निष्कर्षो बोध्यः । मूले कस्यचिन्मते इत्यनेना- स्वरसः सूचितः । नच बलवदनिष्टाननुबन्धित्वज्ञानस्य हेतुतावच्छेदकत्वं बलवदनिष्टजनकत्वप्रकारतानिरूपिता भावविशेष्यताशालित्वादेस्तादृशानिरूप्यनिरूपकभावघटितत्वेन गौरवातदघटितबलवदनिष्टसाधनत्वज्ञानामा- वत्वेनैव हेतुत्वं युफम् । नचाप्रामाण्यज्ञानानास्कन्दितबलवदनिष्टाननुबन्धित्वज्ञानत्वापेक्षयाऽप्रामाण्यनिषया- नास्कन्दिततदनुबन्धित्वज्ञानत्वस्य प्रतिबन्धकतावच्छेदकत्वे गौरवमिति वाच्यं युद्धादौ बलवदनिष्टसाधन. स्वसन्देहेऽपीच्छाप्रवृत्त्योदयात् बलवदनिष्टानुबन्धित्वनिश्चयस्यैवेच्छाप्रतिबन्धकताथास्तदननुबन्धित्वसंशय- स्यापि च कारणतायाश्च वाच्यतया च विपरीतगौरवादिति । नच बलवदनिष्टाननुबन्धित्वज्ञानस्याप्रवर्तकस्वे