पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ८०५ - प्रभा. प्रामाण्यज्ञानत्वावच्छिन्नस्यैव उत्तेजकत्वेन तादृशज्ञानत्वावच्छिन्नानास्कन्दितत्वविशिष्टबलनदनिष्टानुबन्धित्वप्र. कारकनिश्चयत्वावाच्छन्नप्रतियोगिता काभावत्वस्य कारणतावच्छेदकत्वेनातिलाघवम् । बलवदनिष्टानुबन्धित्व. निश्चयः बलवदानेष्टाननुबन्धित्वज्ञानं च यदा नास्ति तदा इच्छोत्पत्त्यपलापश्चेत्यस्वरसं हृदि निधाय मूल- कृता कस्यचिन्मत इत्युक्तामिति ध्येयम् । ननु बलबदनिष्टाननुबन्धित्त्वज्ञानस्य हेतुत्वे तस्य विध्यर्थत्वानुपप- त्तिः प्रवृत्तिजनकेच्छाजनकज्ञानविषयस्यैव विध्यर्थत्वात् । नचेष्टायनिः न कलजं भक्षयेदित्यादिवाक्याना. मप्रामाण्यप्रसङ्गादात चेन तज्ज्ञानस्य प्रवृत्यजनकत्वेऽपि प्रवृत्तिजनकेच्छाप्रतिबन्धकज्ञानविघटकत्वेन प्रवृ. त्तिप्रयोजकतया तद्विषयस्य तस्य विध्यर्थत्वोपपत्तेः । केचित्तु यद्यपि यत्र प्रथमक्षणे द्वेषः द्वितीय क्षणे फले- च्छा तृतीयक्षणे फल साधनत ज्ञानं तत्र तृतीयक्षणे द्वेषनाशाद्भवत्येव चतुर्थक्षणे उपायेच्छा यत्र फलेच्छा- दिक्रमेणैवैषामुत्पत्तिः तत्र फलेच्छादिरूपकारणाभावादेव नोपायेच्छा एवमन्यत्रापि आत्मविशेषगुणानां योगप. यानजीकारादिति बलवदनिष्टानुबन्धित्वज्ञानस्य द्वेषस्य वा प्रतिबन्ध कस्त्रं न युक्त अयुक्कं च बलवदनिष्टान- नुबान्धत्वज्ञानस्य हेतुस्वं तथापि द्वित्रिक्षणान्तरितेऽपि द्वेषे इच्छाप्रवृत्योरनुदयस्यानुभाविकतया ज्ञानयोरेव न योगपद्यमित्यभ्युपगमाद्वा पूर्वोक्त प्रतिबन्धकत्वस्य हेतुत्वस्यावश्यकत्वमिति ध्येयामित्याहुस्तदसत् इच्छा प्रति उफप्रणाळ्या द्वेषस्य प्रतिवन्ध कत्वासंभवेऽपि बलवदनिष्टाननुबन्धित्त्वज्ञानस्य हेतुत्वासंभवेऽपि च ब- लवदनिष्टाननुबन्धित्वज्ञान प्रतिबन्धकत्वस्य मुक्तावळीस्थान्य इत्यनेन सूचितास्वरसबीजप्रदर्शनावसरे सयुक्ति- कं व्यवस्थापितत्वेन यद्यपीत्याद्याक्षेपग्रन्थासङ्गतेः । यच्च द्विनिक्षणान्तरितेऽपि द्वेषेच्छाप्रवृत्त्योरुनु दयस्यानुभा- विकतयेति तदसतं द्वेषे द्वित्रिक्षणान्तरिते सति द्वेषनाशोत्तरद्वितीय क्षणे तृतीयक्ष वा प्रतिबन्धकीभूतद्वे- पाभावसत्त्वे इच्छोत्पादक सामग्रीसत्त्वे चेच्छोत्पत्तेरावत्यकतया तत्काले इच्छानुत्पत्तेरानुभाविकत्व प्रदर्शना- नौचिस्यात् । यदि चोक्तसकलकारणसत्त्वेऽपि प्रतिबन्धकान्तरसमवधानवशात् तत्रेच्छाया अनुत्पत्तिः तदा बलबद्देषातिरिकस्यैव प्रतिबन्धकत्व प्राप्त्या उक्तानुभवस्तु द्वेषस्य प्रतिबन्धकत्वासाधक एव । यच्च ज्ञानयोरेव न योगपद्यमित्यभ्युपगमावति तदप्य सङ्गतं ज्ञानयोयोगपद्यासंभवस्येव ज्ञानेच्छाकृत्यादीनामपि चौगपद्या- संभवस्य सप्रमाणत्वात् । तथाहि मनसोऽणुत्वेन चक्षुरादिभिस्सह एकदा मनस्संयोगासंभवेन न एकदा चा- क्षुषादिप्रत्यक्षाणामुत्पत्तिः चाक्षुषादिसामथ्या मानसप्रतिबन्धकतया न तदा मानसोत्पत्तिः समानविषयक- प्रत्यक्षसामयाः प्राबल्येन तत्काले नानुमित्याद्युत्पत्तिः भिन्नविषयकानुमितिसामन्या: प्राबल्येन तदा तादृश प्रत्य. क्षाद्युत्पत्ति: घटपटाद्युभयविषयकचाक्षुषादिसामग्रीकाले तावत्पदार्थविषयकमेव चाक्षुषादिज्ञानं जायते न चाक्षु- ष द्वयं स्पार्शनादिद्वयं वा समूहालम्बनज्ञानस्वीकारचै फल्यापत्तेः । एवं ज्ञानेच्छादेरपि न योगपद्यसंभवः आत्ममन- स्संयोगनिष्ठज्ञानाद्युत्पादकतावच्छेदकवैजात्यानां परस्परं भिन्नत्वात् अन्यथा इच्छाद्युत्पत्तिकाले नियमेन ज्ञानोत्प स्थापत्तेः तस्मात् ज्ञानयोरिव ज्ञानेच्छाकृत्यादीनामपि योगपद्यासंभवस्यापि सुसिद्धान्ततया ज्ञानाद्युत्पत्तिका. ले द्वेषोत्पत्तिमजीकृत्य तस्येच्छाप्रतिबन्धकत्वोपपादनं बन्ध्यापुत्रस्य सामोपपादनतुल्यमिति ॥ १४८ ॥ द्विष्टसाधनताबुद्धिरिति मूलस्थद्विष्टपदस्य यथाश्रुतार्थकत्वे वक्ष्यमाणदूषणं हृदि निधाय तत्पदं बलवद्दिष्टपरतया दिनकरीयम्. तद्विषयस्य विध्यर्थवाभावान कलझ भक्षयेदित्यादिवाक्यानामप्रामाण्यापत्तिरिति वाच्य तज्ज्ञानस्य प्रवृत्ति- जनकत्वाभावेऽपि प्रवृत्तिप्रतिबन्धकबलवदनिष्टसाधनत्वज्ञानविघटकत्वेन प्रवृत्तिप्रयोजकत्वात् प्रवृत्तिप्रयोजक- ज्ञानविषयस्य विध्यर्थत्वानपायात् । अत्र यद्यपि यत्र प्रथमक्षणे द्वेषः द्वितीयक्षणे फलेच्छा तृतीयक्षणे फल. साधनताज्ञानं तत्र तृतीयक्षणे द्वेषनाशात् भवत्येव चतुर्थक्षणे उपायेच्छा यत्र फलेच्छादिक्रमेणैषासुत्पत्तिस्त. प्र फलेच्छारूपकारणाभावादेव नोपायेच्छा एवमन्यत्रापि आत्मविशेषगुणानां योगपद्यानङ्गीकारादिति बल- पदनिष्टानुबन्धित्वज्ञानस्य द्वेषस्य वा प्रतिबन्धकत्वं न युक्तम् न युक्तं च बलवदनिधाननुबन्धित्वज्ञानस्य हेतुत्वं तथापि द्वित्रिक्षणान्तरितेऽपि द्वेषे इच्छाप्रवृत्त्योरनुदयस्यानुभविकतया ज्ञानयोरेव न योगपमित्य- भ्युपगमाद्वा पूर्वोक्त प्रतिबन्धकत्वस्य हेतुत्वस्य चावश्यकत्वमिति ध्ययम् ॥ १४८॥