पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः द्विष्टसाधनताबुद्धिर्भवेत् द्वेषस्य कारणम् । प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् ।। १४९ ॥ एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिकीर्तितम् । चिकीर्या कृतिसाध्येष्टसाधनत्वमतिस्तथा ।। १५०॥ उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् । द्वेषं निरूपयति ॥ द्विष्टेति ।। दु:खोपायविषयकं द्वेषं प्रति बलवद्दिष्टसाधनता- ज्ञानं कारणमित्यर्थः । बलवदिष्टसाधनताज्ञान प्रतिबन्धकं तेन नान्तरीयकदुःखजनके पा- कादौ न द्वेषः । प्रयत्न निरूपयति ॥ प्रवृत्तिरिति ॥ प्रवृत्तिनिवृत्तिजीवनयोनियत्नभेदात् प्रयत्नस्त्रिविध इत्यर्थः ।। चिकीर्षेति ।। मधुविषसम्पृक्तान्नभोजनादौ बलवदनिष्टानुबन्धित्वेन चिकीर्षीभावान प्रवृत्तिरिति भावः । कृतिसाध्यताज्ञानादिवलवदनिष्टाननुबन्धित्वज्ञानम- प्रभा. वाय व्याचष्टे ।। बलवद्दिष्टेति । तेनेति ॥ मूलस्थद्विपदस्य एतादृशार्थ करणेने त्यर्थः । नान्तरीयकदुःख जन क इति ॥प्रकृत कार्यनियतपूर्ववृत्तिप्रकृतकार्याजनकदुःखजनकत्ययः । तन्त्र द्विटसाधन ताज्ञानजन्यतावच्छेदक- तया द्वेष्मीत्यनुगतप्रतीत्या वा सिद्ध जातिविशेषरूपमेव द्वेषत्वमिति बोध्यम् ॥ प्रवृत्तिनिवृत्तिजीवनयोनि यत्नभेदादिति ॥ त्रितयसाधारणप्रयत्नत्वं च प्रयत्नपदशक्यतावच्छेदकतया सिद्धो जातिविशेषः प्रवृत्तित्वं कार्यसामान्यजनकतावच्छेदकतया प्रवृत्तिपदशक्यतावच्छेदकतया वा सिद्धो जातिविशेषः निवृत्तित्वं च बलवद्वेषजन्यतावच्छेदकतया तत्पदशक्यतावच्छेदकतया वा सिद्धो जातिविशेषः जी- बन योनियत्नत्वं च स्वाभाविकप्राणसञ्चारजनकतावच्छेदकतया तादृशपदशक्यतावच्छेद कतया वा सि. द्धा जातिविशेषः जीवनयोनियत्नपदस्य योगरूढत्वेन तादृश_जात्यावच्छिन्न एव रूढिम्चीकारात् । केचित्तु प्रवृत्तित्व रागजन्यतावच्छेदकतया सिद्धो जातिविशेष इत्याहुः तदसत् ईश्वर प्रयत्नस्याजन्यतया तादृशवैजा- त्यस्य तत्साधारण्यानुपपत्तिः । नचेष्टापत्तिः ईश्वरीयप्रयत्नस्य विध्यानाश्रयतया यत्नस्य चातुर्विध्यापत्तेः । चिकीर्षा कृतिसाध्ये ष्टसाधनत्वमनिस्तथा उपादानस्य चाध्यक्षमित्यादिमूलेन प्रवृत्ती उक्तत्रयाणां हेतुत्वं प्रति. पादितम् । अत्र केवलसमवायसंबन्धन प्रवृत्तित्वं न जन्यतावच्छेदकं ईश्वरीयप्रयत्न कालिकोभयसंबन्धेन तथा बोध्यम् । वस्तुत ईश्वरीय प्रयत्नव्यावृत्तप्रवृत्तित्वव्याप्यः रागजन्यतावच्छेदकतया सिद्धजातिविशेष एव समवायेन कार्यतावच्छेदक इति । तादृशप्रवृत्ती चिकीर्षायास्साक्षात्कृतिसाध्यत्वज्ञानेष्ट- साधनत्वज्ञानयोः चिकीर्षाद्वारा हेतुत्वमिति बोध्यम् इष्टसाधनत्वज्ञानं विना चिकीर्षाया अनुदयात् इष्टसाध- नताबानस्य चिकीर्षाद्वारा हेतुत्वेऽपि राजकीयान्दोलिकाद्यारोहणादौ कृतिमाध्यताज्ञानं विनापि केवलेष्टसाधनत्व- ज्ञानमात्रेणेच्छोत्पत्तेरनुभवसिद्धतया चिकीर्षाया इव कृतिसाध्यताहानस्यापि साक्षात्प्रवृत्तिहेतुत्वं तदभावादेव निरुक्तारोहणादौ न प्रवृत्तिरित्यस्मद्गुरुचरणाः । ननु विषसम्पृक्तानभक्षणादौ प्रवृत्त्यापत्तिनिरुक्तसकलकारणसत्त्वात् इत्याशकां चिकीरूपकारणाभावप्रदर्शनेन स्वयं परिहरति ॥ मधुविषेत्यादि ॥ तथाच चिकीर्षा प्रति बलवदनिष्टानुबन्धित्त्वज्ञानस्य प्रतिबन्धकतया विषसम्पृक्तानभक्षणादौ प्रतिबन्धकामावरूपकारणाभावात् घि दिनकरीयम्. तेन द्वेषे बलवत्त्वविशेषणेन । प्रवृत्तिरित्यादि ॥ प्रवृत्तित्वं च रागजन्यतावच्छेदकतया सिद्धो जातिविशेषः । निवृत्तित्वं च द्वेषजन्यतावच्छेदकतया सिद्धो जातिविशेषः। जीवनयोनियनत्वं च साहजि- कप्राणसञ्चारविषय कयमत्वम् । ननु बलवदनिष्टानुवन्धित्वज्ञानाभावस्य प्रवृत्यहेतुत्वे मधुविषसम्पृकानभो- जने प्रवृत्यापत्तिरत आह ॥ मध्विति ॥ चिकीर्षाभावादिति ॥ चिकीर्षा प्रति बलवदनिधानुबन्धि- स्वानाभाषस्य हेतुत्वादिति भावः ॥ कृतिसाभ्यताबानादिवदिति ॥ अभ्यथा तिसाव्यताहाना -