पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । GO पि स्वतन्त्रान्वयव्यतिरेकाभ्यां प्रवृत्तौ कारणमित्यपि वदन्ति । कार्यताज्ञानं प्रवर्तकमिति गुरवः । तथा हि ज्ञानस्य प्रवृत्तौ जननीयायां चिकीर्षातिरिक नापेक्षितमस्ति सा च कु- तिसाध्यताज्ञानसाध्या इच्छायाः स्वप्रकारकधीसाध्यत्वनियमात् चिकीर्षा हि कृतिसाध्यत्व. प्रकारिकेच्छा तत्र कृतिसाध्यत्वे प्रकारस्तत्प्रकारकं ज्ञानं चिकीर्षायां तहारा च प्रवृत्ती हेतुः न विष्टसाधनताज्ञानं तत्र हेतुः कृत्यसाध्येऽपि चन्द्रमण्डलानयनादौ प्रवृत्त्यापत्तेः । ननु कृत्यसाध्यताश्चानं प्रतिबन्धकमिति चेन्न तदभावापेक्षया कृत्तिसाध्यत्वज्ञानस्य लघुत्वात् नच द्वयोरेव हेतुत्वं गौरवात् । ननु स्वन्मतेऽपि मधुविषसम्पृक्तान्नभोजने चैत्यवन्दने च प्र- प्रभा. कोर्षानुत्पत्त्या न प्रवृत्तिरिति भावः । मतान्तरमाह ॥ कृतिलाध्यताज्ञानादिवदिति ॥ आदिना चि. कीर्षादिपरिग्रहः ॥ स्वतन्त्रान्वयव्यतिरेकादिति । किञ्चिदद्वारकान्वयव्यतिरेकज्ञानसहकृतमनम्सन्निक र्षादित्यर्थः ॥ प्रवृत्ती कारणमिति ॥ निर्णीत प्रवृत्तिनिरूपित्तकारणतावदित्यर्थः । अत्र गुरुचरणप्रदर्शित- युक्त्या कृतिसाध्यताज्ञानस्य साक्षात्प्रवृत्तिहेतुत्वेऽपि बलवदनिष्टाननुबन्धित्वज्ञानस्य साक्षान्न तथात्वसंभव : बलवदनिष्टानुबन्धित्वज्ञाने सति चिकीर्षीया एवानुत्पत्तेन च स्वातन्त्र्येणान्वयव्यतिरेकाभावात् तस्य साक्षात्तथा- स्वासंभवेऽपि इष्टसाधनताज्ञानवञ्चिकी द्वारा हेतुत्वमावश्यकमिति वाच्यम् । चिकीर्षा प्रति बलवदनिष्टानुबन्धि- त्वज्ञानाभावस्थ हेतुत्व स्वीकारेणैव सामञ्जस्ये निरुक्ताननुबन्धित्वज्ञानस्य हेतुत्वाकल्पनात् । अन्यथा यदा ब- लवदनिष्टानुबन्धित्वज्ञानं तदननुबन्धित्वज्ञानं च नास्ति तदा सर्वानुभवसिद्धचिकीर्षापलापप्रसङ्ग इत्य. खरसं हृदि निधायापिवदन्तीत्युक्तामेति ध्येयम् । इष्टसाधनताज्ञानादीनां साक्षात्परम्परया वा प्रवृत्तिहेतुत्वमुप. पाद्य इष्टसाधनत्वादीनां त्रयाणां विध्यर्थत्व व्यवस्थापनाय कार्यताज्ञानमात्रस्य प्रवर्तकन्वमङ्गीकृत्य कार्यत्वमात्रस्य विध्यर्थत्ववादिप्राभाकरमतं निरसितुं आदौ उपन्यस्यति ॥ कार्यताज्ञानमित्यादि । कार्यताज्ञानमेवेत्यर्थः ॥ प्रवर्तकमिति ॥ सिकीर्षाद्वारा प्रवृत्तिसाधकमित्यर्थः । गुरव इति ॥ वदन्तीति शेषः ॥ ज्ञानस्येति ॥ कार्यताज्ञानस्येत्यर्थः ॥ चिकीतिरिक्तमिति ॥ चिकीर्षारूपव्यापारभिन्नमित्यर्थः ॥ नापक्षितमस्ती. ति ॥ सहकारिकारणं किमपि नास्तीत्यर्थः । तथाच कार्यताज्ञानमिष्टसाधन ताज्ञानासहकृतं सत् चिकीर्षाद्वारा प्रवृत्तिजननसमर्थमिति फलितार्थः । यथाश्रुते आत्मम नस्संयोगादेरपि कारणत्वात् असाङ्गत्यापत्तेः। चिकीर्षाया व्यापारत्वमुपपादयति ॥ साचेति ॥ चिकीत्यर्थः । एवार्थक चकार: साध्येत्युत्तर योज्यः । अत्र हेतुमाह ॥ इ. च्छाया इति ॥ चिकीर्षाया इत्यर्थः ॥ स्वप्रकारकधीसाध्यत्वनियमादिति ॥ स्वं चिकीर्षा तस्यां प्रकार एव प्रकारो यस्यां सा स्वप्रकारकधीः ॥ तत्वाध्यत्वनियमादिति ॥ अन्वयव्यतिरेकाभ्यां तज्जन्यत्वावश्यक- त्वादित्यर्थः कृत्यसाध्यताज्ञाने सति चिकीर्षानुदयादिति भावः । उक्तरीत्या कृतिसाध्यताज्ञानस्य हेतुत्वं व्यवस्था- पयितुं उक्कमपि चिकीर्षापदार्थं पुनस्स्मारयति ॥ चिकीर्षा हीति ॥ हि यतः । तथाच यतः चिकीर्षा कृतिसाध्यत्वप्रकारकेच्छारूपेत्यर्थः । तत्रेति ॥ अत इत्यादिः । चिकीर्षायामित्यर्थः ॥ तडारेति ॥ चि- कीर्षाद्वारेत्यर्थः ॥ प्रवृत्ताविति ॥ प्रवृत्तावपीत्यर्थः । निरुत्तमिष्टसाधनत्वज्ञानासहकृतत्वं प्रकाशयति । नत्विति ॥ इष्टसाधनताज्ञानमिति ॥ इष्टसाधनत्यादिक्षानमित्यर्थः : आदिना बलवदनिष्टाननुबन्धित्व- परिग्रहः ॥ तत्रेति । प्रवृत्तावित्यर्थः । अन्यथासिद्धत्वादिति हेतुः पूरणीयः शङ्कते || कृत्यसाध्येऽपीति ॥ तदभावापेक्षयेति ॥ कृतिमाध्यताज्ञानस्येति ।। तादशज्ञानस्येत्यर्थः । लघुन्वादिति ॥ लघुरूप- स्वादित्यर्थः । नचेति ॥ नहीत्यर्थः ॥ द्वयोरेवेति । निरुक्ताभावत्वज्ञानत्वाभ्यां इत्यादिः । तादृशाभाव- दिनकरीयम्. रपि चिकीर्षायामेष हेतुत्वं स्यान तु प्रवृत्ती व्यापारेण व्यापारिणो नान्यथासिद्धत्वमिति तु प्रकृतेऽपि समा- नमित्ति भावः । प्राभाकरमतमाह ॥ कार्यताशानमिति ॥ सा च चिकीषी च ॥ तद्वारा कृतिसा- 1