पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०८ कारिकावली [गुणखण्ड: वृत्त्यापत्तिः कार्यताज्ञानस्य सत्त्वादिति चेन्न स्वविशेषणवत्ताप्रतिसन्धानजन्य कार्यताज्ञानस्य प्रवर्तकत्वात् । काम्ये हि पाकयागादौ कामना स्वविशेषणं ततश्च बलवदनिष्टाननुबन्धिका-- प्रभा. ज्ञानयोरपीत्यर्थः ॥ गौरवादिति । निरुक्ताभावत्वस्य गुरुरूपत्वादित्यर्थः । तथाच द्वयोर्लघुधर्मरूपत्वे वि. निगमनाविरहेण निरुक्तज्ञानत्वेनेच निरुक्ताभावत्वेनापि हेतुत्वमापोत नचैवं निरुक्ताभावत्वस्य गुरुरूपत्वा. दिति भावः । न चैवं सति कृत्य साध्यताज्ञानं कृतिसाध्यतावानं च यदा नास्ति तदा चिकीर्षाकृत्योरनुदयप्र. सज इति वाच्यं इष्टापत्तेः अज्ञातार्थविषयकचिकीर्षापत्तिवारणाय तत्प्रकारकचिकीर्षी प्रति तत्प्रकारकज्ञान- हेतुताया आवश्यकत्वात् ।। त्वन्मतेऽपीति ॥ अपिशब्द: प्रवृत्त्यापत्तिरित्युत्तरं योज्यः । प्राभाकरमत इत्या. धः ॥ प्रवृत्यापत्तिरिति ॥ चिकीर्षापत्तिस्तद्वारा प्रवृत्यापतिश्चत्यर्थः ॥ कार्यताज्ञानसत्त्वादिति ॥ कृतिसाध्य ताज्ञानसत्त्वादित्यर्थः ॥ स्वविशेषणवत्तेत्यादि । स्खं प्रवृत्त्याश्रयः पुरुषः तद्विशेषणं तत्र व. तमानः स्वाभिमतधर्म: सच धर्मः काम्ये कामना नित्ये शौचादीति वक्ष्यते तद्वत्ता तत्संबन्धः तत्प्रतिसन्धानं तभिश्च यः लिङ्ग ज्ञान विश्रया तजन्यं यत् कार्यताज्ञानं कृति साध्यत्वप्रकारका नुमितिरित्यर्थः ॥ तादृशज्ञानस्यै. वेत्यर्थः ॥ प्रवर्तकत्वादिति ॥ चिकोषीद्वारा प्रवृत्तिहेतुत्वस्वीकारादित्यर्थः। कृति साध्यत्वानुमानं चेत्थं यागा- दिमत्कृति माध्यः मत्कृति विनाऽसत्त्वे सति मदिष्टसाधनत्वात् भोजनादिवत् यत्रैवं तत्रैवं यधा गगनादीति । अत्र शृष्टयादौ व्यभिचारवारणाय प्रधमसत्यन्तं मदिष्टसाधनपरकृतिपाकादौ व्यभिचारवारणाय तद्दळघटककृती मदीयत्वनिवेशः । श्रमे व्यभिचारवारणाय विशेष्यं मदीयश्रमस्य शत्रोरिष्टसाधनत्वात् तद्दळघटकेप्टेमदीयत्व- विशेषणम् । नचेयमनुमिति ः कथं स्वविशेषणवत्ताज्ञानजन्यति वाच्यं स्व विशेषणकामनावत्त्वस्य कामना. दिनकरीयम्. ध्यत्वप्रकारके छाद्वारा ॥ द्वयोरेवेति । एवकारोऽप्यर्थे ।। स्वविशेषणेति ॥ त्वं प्रवर्तमानः पुरुषस्त- द्विशेषणं काम्ये कामना नित्ये कालशौचादि तद्वत्ता पक्षे तत्सम्बन्धः तस्य प्रतिसन्धान ज्ञानमित्यर्थः । तस्य कार्यताज्ञानहेतुता लिन ज्ञानविधया तथाहि पाको मस्कृति साध्यः मत्कृति चिनाऽसत्त्वे सति मदिष्टसाधनत्वादि- त्यनुमानम् । अन मदिष्टसाधनवमात्रोपादाने वृष्टयादौ व्यभिचार इति सत्यन्तम् । मदिष्टसाधने परकृतपा- कादौ व्यभिचारवारणाय मत्कृति विनेत्यत्र मत्पदम् । श्रमे व्यभिचारवारणाय मदिष्टसाधनत्वादिति । म. दीयश्रमस्य मच्छरोरिष्टसाधनत्वात्तदोपतादवस्थ्यमतस्तत्रापि मदिति । नच स्वेच्छाधीनकृतिसाध्यताज्ञानभेद प्रवर्तकमन्यथा नान्तरीय कथमे प्रवृत्त्यापत्तेस्तचोक्तानुमानान्न सिद्धमिति वाच्यं स्वेच्छाधीनकृतिसाध्यत्वस्यै- व साध्यत्वात् । एवं च हेतावपि मत्कृति विनेत्यत्र स्वेच्छाधीनत्वं मत्कृतिविशेषणं देयम् । अन्यथाऽन्येच्छा. धीनमाकृतिसाध्ये मदिष्टसाधने नान्तरीयकजलसंयोगादौ व्यभिचारापत्तेः। एवं सति स्वेच्छाधीनमत्कृतिघटि. तहेत्वभावादेव श्रमे व्यभिचारवारणसम्भवातू विशेष्यदलप्रयोजनं यद्यपि न सम्भवति तथापि नीलधूमादिष- द्धत्वन्तरत्वाददोषः । एवमहमिदानीन्तनकृति साध्यसन्ध्याबन्दनः द्विजातित्वे सति विहितसन्ध्याकालीनशौ- चादिमत्त्वादित्यनुमानं यो द्विजातित्वे सति विहितसन्ध्याकालीनशौचादिमान् स तत्कालीनकृतिसाध्यसन्ध्याव- न्दन इति सामान्यतो व्याप्तिराित । नचैवंरीत्येष्टसाधनत्वहेतुकानुमानसम्भवेऽपि पक्षे स्वविशेषणवत्ताप्रतिस. न्धानजन्य कार्यताझानं न सम्भवति इष्टसाधनत्वस्य यागनिष्ठत्वन पुरुषविशेषणत्वाभावात् इच्छायाश्च पुरुषधि- शेषणत्वेऽपि तस्या लिङ्गत्वासम्भवात् लिङ्गघटकत्वेऽपि पक्षे तदत्ताज्ञानानिर्वाहकत्वादिति वाच्यं काम्यसाधन- ताज्ञानस्याप पक्ष यागादौ स्वविषयसाधनलरूपकामनासम्बन्धज्ञानात्मकत्वात् । वस्तुतस्तद्वत्ताज्ञानं तत्सम्बन्ध द्वानं तज्ज्ञानमेव वा न तु पक्षोऽपि तत्रान्तर्भूत इात काम्यसाधनताज्ञानस्यापि कामनासम्बन्धज्ञानात्मकतया का. मनाज्ञानात्मकतया वानुपपत्त्यभावात् । ननु स्वविशेषणवत्ताप्रतिसन्धानजन्यकार्यताज्ञानस्य प्रवर्तकत्वे इष्टसाधन- ताज्ञानशून्यकालेाप पाके स्व विशेषणकृत्यादिघटित हेत्वन्तराद्यत्र कार्यतानुमितियथा पाकः स्वेच्छाधीनमत्कृ- तिसाध्यः श्रमादिभिन्नत्वे सति मत्कृतिव्यतिरेकप्रयुक्तव्यातरकप्रतियोगित्वात् यद्वा स्वेच्छाधीनमत्कृति वि- नाऽसावादिति तत्रापि प्रवृत्त्यापत्तिरत आह ॥ काम्ये हीति ॥ कामना यागपाकादिगोचरकामना