पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । साध्यत्वसाधनत्वयोश्च ज्ञानात् । नव्यास्तु ममेदं कृतिसाध्यमिति ज्ञानं न प्रवर्तकमनागते तस्य ज्ञातुमशक्यत्वात् । किंतु यादृशस्य पुंसः कृतिसाध्यं यद्विशिष्टं तादृशत्वं स्वस्य प्रतिसन्धाय तत्र प्रवर्तते तेनौदनकामस्य तत्साध्यतामानवतस्तदुपकरणवतः पाकः कृतिसाध्यः तादृश- श्वाहमपीति प्रतिसन्धाय पाके प्रवर्तत इत्याहुः। तन्न स्वकल्पितलिप्यादिप्रवृत्तौ यौवने कामो- प्रभा- स्वच्छिन्नयोस्तथोरवेत्यर्थः ॥ ज्ञानादिति ॥ ज्ञानसंभवादित्यर्थः तथाचैकदा तादृशज्ञानसंभवान्न प्रवृत्त्य नुप. पत्तिरिति भावः । प्राभाकरमतं परिष्कुर्वतो नवीनस्य मतमाह ॥ नध्यास्त्विति ।। ममेदं कृतीति ॥ इदं मत्समवेतकृतिसाध्यामति ज्ञानमित्यर्थः । न प्रवर्तकमिति ॥ चिकीर्षाद्वारा न प्रवृत्तिजगकमित्यर्थः । तथा च पाकोत्पत्त्यानन्तरं लौकिकसन्निकर्षबलात्तादृशापाके कृतिसाच्या वज्ञानसंभवेऽपि सामान्यलक्षणायाः प्रत्यास- त्तित्वानङ्गीकर्तृमते भविष्यत्पाकविशेष्यकतादृशकृतिसाध्यत्वप्रकार प्रत्यक्षासंभवात्यक्षज्ञानाभावन भविष्यत्पा कविशेष्यकतादृश कृत्तिसाध्यत्वप्रकारकानुमितेरप्य संभवाञ्च प्रवृत्त्युत्तर कालीनतादृशज्ञानस्य प्रवृत्तिहेतुत्वं न सं- भवतीति भावः । उक्कार्थमेव प्रकाशयति ॥ अनागत इति ॥ भावव्यापाक इत्यर्थः । तस्येति ॥ निरु- तकृतिसाध्यत्वस्येत्यर्थः ॥ ज्ञातुमशक्यत्वादिति ॥ उत्तरीत्या भावष्यत्याकस्य ज्ञानासंभवेन तद्विशेष्य- ककृतिसाध्यत्वप्रकारकज्ञानस्य सुतराम संभवादित्यर्थः ॥ यादृशस्येति ॥ कृत्युत्पादकयाइश सामग्रीविशिष्ट- स्येत्यर्थः ॥ कृतिसाध्यमिति ॥ कृतिविधेयतात्रय तावदित्यर्थः । यद्विशिष्ठमिति ॥ यद्धर्मावच्छिन्नं प्र. मितमित्यर्थः ॥ ताशत्वं स्वस्थ प्रतिसन्धायेति ॥ तादृशसामग्रीमानहमिति निर्णयादित्यर्थः ॥ तत्र प्रवर्तत इति । तद्धर्मावच्छिन्नविधेयताक प्रवृतिमान् भवतीत्यर्थः ममेदं कृतिसाध्यामिति ज्ञानस्य प्रवर्तकत्वपक्षे उक्तदोषोऽत्र नास्तीत्यह ॥ तेनेति ॥ ईदृशज्ञानम्य प्रवर्तकत्वस्वीकारेणेत्यर्थः ॥ ओदनका- मस्येति ॥ ओदनं मम भवयित्वाकारकोदनरूपफलकामना विशिष्टस्येत्यर्थः ॥ तत्साध्यताज्ञानवत इ. ति पाकत्वावच्छिन्नान्यदीयपाकविशेष्यकान्यदीय कृतिसाध्यत्वप्रकारकप्रत्यक्षादिप्रमावत इत्यर्थः । षष्ठ्यर्थः समवेतत्वं तस्य कृतावन्वनः ॥ पाकः कृतिसाध्य इति ॥ कृतिनिरूपितविधेयताश्रयः पाक इत्यर्थः । प्रमित इति शेषः । तादृशश्चाहमपीति प्रतिसन्धायेति ॥ निरुक्तफलेच्छादिसामग्रीमानहमपी. ति निश्चयादेचेत्यर्थः ॥ पाके प्रवर्तत इति पाकत्वावच्छिन्नविधेयताकप्रवृत्तिमान् भवतीत्यर्थः । तथाच चैत्रीयपाके चैत्रीययत्नसाध्यत्वदर्शनात् जीवनासह कृतात् जायमानमैनप्रयत्नेन मैत्रीयपाको त्पत्तिमुपलभ्याहमपि मैत्रीयपाके मैत्रकृतिजन्यत्वप्रकारकप्रत्यक्षवान् ओदनकामनावांश्चति प्रतिसन्धानात् सर्वेषामपि पाके प्रवृत्ति: संभवतीति भावः ॥ स्वकल्पितलिप्यादिप्रवृत्ताविति ॥ पुरुविशेषकल्पि- तविजातीयलिपिविजातीयभाषादिविषयकप्रवृत्तावित्यर्थः एतस्य तदभावादित्युत्तरेण संवन्धः तथाच एताद. शविजातीयलिप्यादिनिर्मातः एतादृशलिप्यादिप्रवृत्तिपूर्व अन्यदीयकृतिसाध्यविजातीयलिप्याद्यप्रसिद्धिप्रयुक्त दर्शनाभावेन तादृशश्चाहमिति प्रवर्तकज्ञानस्य सुतराम संभवेन कारणाभावेऽपि विजातीयलिप्यादिप्रवृत्तिरूपका- ोत्पत्त्या व्यभिचारात् नैतादृशज्ञानस्य प्रवर्तकत्वमिति भावः स्थलान्तरे व्यभिचारादपि तस्याप्रवर्तकत्वमा- ह ॥ यौवन इति ॥ कामोद्रेकादिनेति ॥ कामातिशयेनेत्यर्थः । आदिना बाल्ये अविवेकेनेत्यादेः परिप्रहः ॥ संभोगादाविति ॥ विजातीय संभोगप्रवृत्तावित्यर्थः । आदिना विजातीयस्वमात्रताडनप्रवृता- दिनकरीयम् . चैककालीनकृतिसाध्यत्वेष्टसाधनत्वयोर्विरोधेऽपि न क्षतिस्तथा ज्ञानस्यास्माभिः कारणत्वानङ्गीकारात किन्तु नि. विशेषितयोः सामान्यतः कृतिसाध्या वेष्टसाधनत्वयोहानस्यैव हेतुत्वाङ्गीकारादिति भावः 1 तादृशं च ज्ञान सम्भवतीत्याहुः ॥ एकदेति । इदं च ज्ञानान्वयिज्ञानात् ज्ञानसम्भवात्तु मूलाधनवगाहिनोऽपि वृक्षः संयोगी- ति ज्ञानस्यानुभविकतया अव्याप्यवृत्तेानं स्वावच्छेदकविषयकमेवेति नियमे मानाभावान्न पूर्वोक्तदोष इति ध्येयम् । प्राभाकरानुयायिनवीनमतमाह ॥ नव्यास्त्विति ।। छातुमशक्यत्वादिति । सामान्यलक्षण