पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०१४ कारिकावली [गुणस्खण्डः देका दिना सम्भोगादौ च तदभावात् । इदं तु बोध्यं इदानीन्तनेष्टसाधनत्वादिज्ञानं प्रव- तकम् । तेन भावियोवरराज्ये बालस्य न प्रवृत्तिः तदानीं कृतिसाध्यत्वाज्ञानात् । एवं तृप्तश्च भोजने न प्रवर्तते तदानीमिष्टसाधनत्वाज्ञानात् । प्रवर्तते च दोषदूषितचित्तो विषादिभ- क्षणे तदानी बलवदनिष्टाननुबन्धित्वज्ञानात् । नचास्तिकस्यागम्यागमनशत्रुवधादिप्रवृत्तौ कथं बलवदनिष्टाननुबन्धित्वबुद्धिर्नरकसाधनत्वज्ञानादिति वाच्यं उत्कटरागादिना नरकसाधनता- - प्रभा. वित्यादेः परिग्रहः ॥ तदभावादिति ॥ तथाच पुरुषान्तरकर्तृकैतादृश विजातीयसंभोगादेर प्रसिद्भया प्रव- तिपूर्व विजातीयसंभोगादिदर्शनासंभवेन तादृशश्चाहमिति प्रवर्तकज्ञानस्य सुतरामभावेन व्यभिचारात् नैता. दृशनिश्च यस्य प्रवर्तकत्वामति भावः । ननु सिद्धान्तिमते केवलेष्टसाधनत्वादित्रितयविषयकज्ञानस्य प्रवर्तक- त्वं वक्ष्यमाणदोषो दुर्वार इत्याशकां विशेषणान्तरदानेन परिहरति ॥ इदन्तु बोध्यमिति ॥ अनुपदं व- क्ष्यमाणमेव प्रवरा कामति ज्ञेयमित्यर्थः । वक्ष्यमाण मेवाह ॥ इदानीमिष्टसाधनत्वादिज्ञानमिति ॥ इदानीन्तनत्वस्यापि इच्छादौ निवेशेन इदानीन्तनेच्छाविषयसाधनत्वेदानीन्तनकृतिसाध्यत्वेदानीन्तनबल- वहेषविषयान नुबन्धित्व एतत्त्रितयविषयकज्ञानामिति फलितार्थः ॥ प्रवर्तकमिति ॥ चिकीर्षाद्वारा प्रवृत्तिका- रणमित्यर्थः । स्थललये इदानीन्तनत्वविशेषणानां कमण प्रयोजनमाह ॥ तेनेति ॥ कृति साध्यत्वघटककृतौ इदा- नीन्तनत्वविशेषणेनेत्यर्थः । एवमिति ॥ इष्टसाधनघटकेच्छायामिदानीन्तनत्यविशेषणेनेत्यर्थः ॥ प्रवर्त. ते चेति ॥ बलवदनिष्ठाननुबन्धित्वघटकबलवद्वेषे इदानीन्तनत्व विशेषणेने त्यादिः । प्रवर्तत एवेत्यर्थः ॥ दो- पपितचित्त इति ॥ दोषेण सुरापानादिदोषण शितं गर्हितं चित्तं यस्य स तथा ॥ विषादिभक्षण इति ॥ आदिना मरणसाधनौषधपरिप्रहः ॥ तदानीमिति ॥ विषादिभक्षणप्रवृत्त्यव्यवहितपूर्वकाल इत्य र्थः ॥ बलवदनिष्टाननुबन्धित्त्वज्ञानादिति ॥ तादृशज्ञानस्यापि संभवादित्यर्थः। तथाच विषादिभक्ष- णविषयकवलवद्देषस्य तदानीन्त नत्वाभावेन तत्कालीनबलवद्वेषविषयपदार्थान्तराननुबन्धित्वस्य तत्र सत्त्वे. न तदानां तत्र तादृशज्ञानासंभवादिति भावः ॥ नास्तिकस्येति ॥ अस्ति परलोक इति ज्ञानरहि. तपुंस इत्यर्थः ।। अगम्यागमन इति । अगम्या गन्तुं संबद्धुमयोग्या व्यभिचारिणीति यावत् तस्या गमने संभोग इत्यर्थः ॥ शत्रवधादाविति ॥ अत्रादिपदेन सुरापानादिपरिप्रहः सप्तम्यर्थो विषयत्वं तथा चा. गम्यागमनादिविषयकप्रवृत्ताविति फलितार्थः ॥ कथमिति ॥ नियतपूर्ववृत्तिरिति शेषः ॥ बलवदनिष्टा ननुयन्धित्वबुद्धिरिति ॥ एतादृशयुद्धिः कथं निरुक्त प्रवृत्तिनिरूपितनियतपूर्व वृत्तित्वाश्रय इत्यर्थः । तत्र हे. तुमाह ॥ नरकसाधनत्वज्ञानादिति ॥ अगम्यागमनादिविशेष्यकबलवदनिष्टात्मकनरकसाघनत्वप्रकारक- निश्चयरूपप्रतिवन्धकसमवादित्यर्थः तथाच निरुकनिश्चयरूपप्रतिबन्धकसत्त्वात् अगम्यागमनादिविशेष्यकब- लवदनिधाननुबन्धित्वप्रकारकज्ञानस्य निरुक्तप्रवृत्तिपूर्वकमुत्पत्त्यसंभवेन व्यतिरेकव्यभिचारात् न प्रवृत्तिसा. मान्ये तस्य हेतुत्वमिति भावः ॥ उत्कटरागादिनेति ॥ अगम्यागमनसाधनपरभार्यारूपविषयस्य यत्पु. नःपुनरनुग्जनं तद्विषयकोत्कटेच्छयेत्यर्थः पुनःपुनः विषयानुरञ्जनेच्छा राग इति प्रशस्तपादभाष्यात् । आ- दिना उत्कटत्वरूपवैजात्यावच्छिन्नसंहारेच्छारूपजिहीर्षापरिग्रहः ॥ नरकसाधनताधीतिरोधानादि- दिनकरीयम्. प्रत्यासत्यनङ्गीकारे प्रत्यक्षस्य पक्षशानाभावेनानुमितेश्वासम्भवादिति भावः ॥ तदभावात् याहशस्य पुंसः कृतिसाध्यं यदृष्ट तादृशत्वज्ञानाभावात् । नन्विष्टसाधनताज्ञानस्य प्रवृत्तिजनकत्वे भावियौवराज्ये प्रवृत्याप- तिरत आह ॥ इदं तु बोध्यमिति ॥ इष्टसाधनत्वादीत्यत्रादिपदोपगृहीतस्येदानीन्तनकृतिसाध्यत्वघटक- कृताविदानीन्तनत्वविशेषणस्य प्रयोजनमाह ॥ तेन भावीति ॥ इष्टसाधनस्वघटकेच्छायां तद्विशेषणस्य प्रयो. जनमाह ॥एवं तृप्त इति ॥बलवदनित्यत्र बलवहेषे तद्विशेषणप्रयोजनमाह ॥प्रवर्तते चेति ॥ प्रवृत्ती प्र. इतेः पूर्व ।। नरकसाधनत्वज्ञानादिति ॥ नरकम्पबरूष दनिष्टसाधनत्वज्ञानादित्यर्थः ।। उत्कटरागादिले.