पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२० कारिकावली [गुणखण्डः .. च विश्वजिता यजेतेत्यादौ यत्र फलं न श्रयते तत्रापि स्वर्ग: फलं कल्प्यते । नन्वहरहः सन्ध्यामु- पासीते.यादाविष्टानुत्पत्तेः प्रवृत्तिः कथम् । नचार्थवादिकं ब्रह्मलोकादि प्रत्यवायाभावो वा फलमि- ति वाच्यं तथा सति काम्यत्वे नित्यत्वहान्यापत्तेः कामनाभावे चाकरणापत्तेः । इत्थं च यत्र फल- प्रभा. रणादिज्ञानस्यापि हेतुत्वं मानाभावात् किंतु कचिदिष्टसाधनताज्ञानसम्पादनद्वारा उपयुज्यते एवं शक्तिभिन्न- शब्दाभिधायां मानाभावात् न मुतरां तज्ज्ञानस्य हेतुत्वम् । अत एव पुंसानेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्तकः प्रवृत्तिहेतु धर्म च प्रवदन्ति प्रवर्तनामिति मण्डनमिश्रो सङ्गच्छते । प्रवृत्त्यनुकूलत्वादिष्ट साधनत्वमेव प्रवर्त नेत्यर्थ इति दिक् । नन्वेवं सति विश्वजिता यजेते त्यादौ विशेषतः फलाश्रवणात् इष्टसाधनतामानानुत्पत्त्या प्र. वृत्त्य नुपपत्तिरत आह् ।। इत्थं चेति ॥ प्रवृत्तिमात्रे इष्टसाधनताज्ञानस्य हेतुत्व सिद्धौ चेत्यर्थः ॥ इत्यादी यति ॥ इत्याद्यभिन्नयादशवाक्य इत्यर्थः । श्रुते सतीति शेषः ॥ फलं न भ्रूयत इति ॥ विवाजिनामक- यागस्य फलं विशेषरूपेण न शाब्दबोधविषयतादित्यर्थः ॥ अत्रापीति ॥ निरुक्तवाक्येऽदीत्यर्थः तादृश वाक्य- जन्य शाब्दयो धोत्तरामिति यावत् ।। स्वर्गः फलं कल्प्यत इति ॥ अनुमीयत इति मानसविषयोक्रियत इत्ये. वार्थः । तथा च विधजिता यजेततिश्रुतिघटकविधिप्रत्ययादिष्टत्वरूपसामान्यरूपेणेष्टसाधनत्वविषयकशाब्दबोधा. नन्तरं एतादृशेष्टं स्वगत्ववत् विशेषरूपेण शाददाविषयत्वे सत्ति प्रवर्तकविधिवाक्य प्रतिपाद्यत्वात् यन्नैवं तत्रैव यथा तृप्त्यादीत्याय तुमानात् स्वर्गानुमितिः नचाप्रयोजकत्यं सः स्वर्ग: स्यात् सन् प्रत्यविशिष्टत्वात् इति न्या. यरूपानुकूलतर्कसत्त्वात् एवमुकन्यायसहकृतनिरुफ प्रतिपाद्य वज्ञानात् इष्टः स्वर्ग इति मानस प्रमितिमान् जा. यत इति भावः । प्राभाकरमतानुयायी शकृते || नन्विति । इत्यादाविति । इत्यादिविधिवाक्यप्रति पाद्यसन्ध्योपासनादिकमणीत्यथः एतस्य कथं प्रवृत्तिरित्यननान्वयः तत्र हेतुमाह । इष्टानुत्पत्तेरिति ॥ तादृशकर्मणा फलानुत्पत्तरित्यर्थः तथाच तलेटसाधनायाभावादभ्रान्तस्य तज्ज्ञानानुत्पत्त्या कारणाभावात् प्र- त्तिन स्यादिति भावः रात्रिसत्रन्यायेन सन्ध्योपासनादेः पि अर्थवादचोदितफलसंवन्धः स्वीकार्य इति शङ्कने । नचेति ॥ आर्थवादिकं ब्रह्मलोकादीति ॥ सन्ध्यानुष सते ये तु सततं संशितव्रताः । विधूतपापास्ते या. दिनकरीयम् . थाभिधाज्ञानाद्विधिस्थले प्रवृत्तिरिति भव लिबर्थः संव च शब्दभावना लिड्त्वांशेनोच्यते । अर्थभावना त्वाख्यातत्याशन तिदुक्तम्। अभिधां धां भावनामाहुरन्या मेव लिडादयः । अर्थात्मभावना स्वन्या सर्वाग्ल्यातस्य गोचर इति । अभिया शब्दः तन्निष्ठा भावनाऽभिधाभावना अर्थो यागादिरात्मा 41 अर्थात्मकत्वं चार्थगो. चरत्वमर्थाधितत्वं वा तथा च यागादिगोचरात्माश्रिता प्रवृत्तिस्थभावना अत्र च शब्दभाव नाया अर्थभावना भाव्या अर्थभावनायाश्च फलं स्वर्गादीति बोध्यं तयुक्तम् । लिङोऽभिधा सैव च शब्दभावाना भाव्या च तस्याः पुरुषप्रवृत्तिः । सम्बन्धबोधः करणं तदीयं प्ररोचना चाङ्गतयोपयुज्यते ॥ इति । अस्यार्थः लिडोऽभिधा वाच्या तस्याः किं भाव्यमित्याकालायामुक्त भाव्या च तस्या इति । केन भाव्या इत्य कालायां सम्बन्धेति । सम्बन्धबोधः लिडादिपदशक्तिज्ञानं तत्रालस्येन निवर्तमान पुरुषं स्तुतिरुत्तेज यतीति सा सहकारिणोत्याह प्र. रोचनेतीति वदन्ति । तन्न लोके स्वेच्छाधीनप्रवृत्ती इष्टसाधनताज्ञानम्व हेतुत्वेन क्लप्तत्वादन्यत्रापि प्रवृत्ती तदेव हेतुरस्तु किमतिरिक्त प्रवर्तनाज्ञानस्यातिरिक्तहेतुत्वेन । अत एव वेदेऽपि न प्रवर्तनाज्ञानं हेतुः शब्दश- क्तिभित्रायामभिधायां मानाभावाच्च । अत एव मण्डनमिश्राः पुंसां नेष्टाभ्युपायत्वात् क्रियाखन्यः प्रवर्तकः । प्रवृत्तिहेतुं धर्म च प्रवदन्ति प्रवर्तनामित्यादिना प्रवृत्त्यनुकूलत्वेनेसाधनत्वमेव प्रवर्तनेत्युक्तवन्तः । नन्वेवं विश्वजिता यजते त्यादी फलाश्रवोनेटसाधनताज्ञानाभावात् प्रवृतिन स्यादत आह॥ इत्थं चेति । इष्टसाधन. स्वादेविध्यर्थत्वे येत्यर्थः । ननु नित्ये सन्ध्योपासनादौ फलाभाचानेटसाधनत्वज्ञान प्रवर्तक न वा तद्विषयो विध्य. थे इत्यभिप्रायेण शङ्कते ॥ नन्विति । नचार्थवादिकमिति। सन्ध्यामुपासते ये तु सततं शंसितव्रताः। विधूत- पापास्ते यान्ति ब्रह्मलोकं सनातनमित्यर्थचा दबोधितमित्यर्थः ॥ नित्यत्वहान्यापत्तरिति ॥ नित्यत्वका.