पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । मिति तदपि न कामनाभावेऽकरणापत्तेस्तौल्यात् । कामनाकल्पने स्वार्थवादिकं फलमेव रात्रिसत्रन्यायात् कल्प्यताम् । अन्यथा प्रवृत्त्यनुपपत्ते: तेनानुत्पत्तैि प्रत्यवायस्यान्ये मन्यते । एवं सन्ध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् ।। एवं दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमावहन् इति प्रीत्यात्मकमेव फलमस्तु । न च पितृ. प्रीतिः कथं फलं व्यधिकरणत्वादिति वाच्यं गयाश्राद्धादाविवोद्देश्यत्वसम्बन्धेनैव फलजन- कत्वस्य कचित्कल्पनात् । अत एवोक्तं शास्त्रदर्शित फलमनुष्ठानकर्तरीत्युत्सर्ग इति । पितृ- प्रभा. ति ॥ नस्विति॥प्रवृत्तेरसंभवादिति ॥ निष्फले प्रवृत्त्यभावेनान्वयव्यतिरेकाभ्यां प्रवृत्तित्वेन इष्टसाधनताज्ञा- नत्वेन कार्यकारणभावस्य निर्धारितत्वादिति भावः । अत एव कुसुमानलौ सन्ध्योपासनमफलमपि क्रियते वेदबो धितत्वादिति गुरुमतमाशय सन्ध्योपासनं सफलं शिटैरनुष्टीयमानत्वादित्य नुमानेन तस्य सफलत्वं प्रसाध्य नि इफलत्वसाधकहे तो ज्योतिष्टोमादौ व्यभिचारप्रदर्शनेन तन्मतन्निरस्य गुरुलतं न गुरोर्मतमित्युदयनाचार्याणां हेळनमपि सङ्गच्छते । एवं सुखदु ख भावयोरिव निस्यस्थले पण्डापूर्वं फलमिति प्राभाकरैकदेशिमतमपि दू- षयति ।। यदपीति ॥ कामनाविरतत्सत्त्वाभ्यां विकल्प्य दूषयति ।। कामनाभाव इति ॥ नियमेन पण्ड पूर्वात्मकफलकामनादिविरह इत्यर्थः ॥ अकरणापत्तेस्तोल्यादिति ॥ इष्टसाधनताज्ञानाभावात्प्राक् अप्रवृत्तिप्रयुक्तप्रत्यवायोत्पत्तिने म्यादिति उक्तदोषप्रस्तत्वादित्यर्थः ।। कामनाकल्पन इति ॥ नियमेन कामनास्वीकार इत्यर्थः ॥ रात्रिसत्रन्यायादिति ॥ ज्योतिगौरायुरितीति श्रुतिप्रमाणकानां ज्योतिगौरा- युरितिनामकानां रात्रिसल शब्दवाच्यकर्मणां रात्रिमन्त्रेण यजेतेति विधितः फलश्रवणाभावात् फलजिज्ञासायां श्रुते संभवति सति अन्यन्ताश्रुतस्वर्गफलकल्पने गौरवाद्विश्व जन्न्यायापनादेन प्रतितिष्ठन्ति ह वा य एता रा- श्रीरुग्यन्ति इत्यर्थवादबोधित प्रतिष्ठारूपफलं यथा सिद्धान्तितं तथा अनापि लाघवात सन्ध्यामुपासते ये स्वित्या- यर्थवादादुपस्थितब्रह्मलोकादाप्तिरूपफलमेवावश्यं स्वीकार्यमित्यर्थः । अन्यथेति॥ तस्य निष्फलत्व इत्यर्थः ॥ प्रवृत्त्यनुपपत्तेरिति॥प्रवृत्त्यनुपपत्तिरूपोक्तदोषापत्तेरित्यर्थः प्रवृत्यनुपपत्तरिति पाठः प्रामाणिकः गतार्थत्वा. दिस्यस्मद्रुचरणा:॥ तेनेति ॥ सन्ध्योपासनादी लाघवादर्थवादोपस्थितफलस्वीकारणत्यर्थः ॥ अनुत्पत्ति प्र- त्यवायस्येनि॥प्रत्यवायस्यानुत्पनिमिति योजना अनुत्पत्तिः प्रागभावपरिपालनं तस्य सन्ध्याफलत्वं तत्सत्ताधी- नसत्ताकत्वरूपयोगक्षेमसाधारणं बोध्यं । तथा चेति ॥ तथैवेत्यर्थः अर्थवादसिद्धप्रत्यवायानुत्पात्तिरूपफल मेवेति यावत् ॥ अन्य इति ॥ नवीन इत्यर्थः ॥ एवमिति ॥ प्राचीन इत्यादि: वक्ष्य माणमित्यर्थः । अनामयमिति॥ एतादृशार्थवादीपस्थितप्रत्यवानिवृतिपूर्वकब्रह्मलोकप्राप्तिरूपफलामत्यर्थः । मनुत इत्यस्यानुषशणान्वयः ॥ प्रीतिमावहन्नित्यादीति ॥ इत्यर्थवादोपस्थितेत्यर्थः ॥ अस्त्विति ॥ अङ्गीकर्तव्यमित्यर्थः । व्यधि- करणत्वादिति ॥ यः कर्ता स फलभोक्कति न्यायेन पितृप्रीतेः कर्तृनिष्ठत्वाभावात्तस्याः श्राद्धफलत्वं न दिनकरीयम्. साधनताज्ञानस्य हेतुत्वादिति भावः । अत एव कुसुमाञ्जली सन्ध्योपासनमफलमपि क्रियते वैदवोधितत्वा दित्याशय गुरुमतमेतन गुरोर्मतमित्यभिधाय वोपेक्षितमाचार्यः । यच्च पण्डापूर्व स्वतः प्रयोजनं नित्यस्य फर्मण इति प्राभाकरमतं तदपि दूषयति । यदपीति । कामनाभावे पण्डापूर्वात्म कफलकामनाभावे ॥रात्रिसत्र न्यायादिति ॥ तथा हि रात्रिसत्रशब्दवाच्यानां ज्योत्तिगौरित्यादवाश्योत्पन्न कर्मणां फलजिज्ञासायामत्य- न्ताश्रुनस्वर्गादिकल्पने गौरवाद्विश्वजिन्यायापवादेन प्रांतातष्टन्तीह वा य एता रात्रीरुपयन्तीत्यर्धवादश्रुती प्रतिष्ठेव फलमिति सिद्धान्तितं तथात्राप्यार्थवादिकब्रह्मलोक एव फलं लाघवादित्यर्थः ॥ अन्यथा फलाभा- वे ॥ तेन आधवादिकफलकल्पने लाघवेन । तत्र तत्रार्थवादिकं फलं दर्शयति ॥ अनुत्पत्तिमित्यादिना ॥ अत एव पितृप्रीतेः श्राद्धफलत्वादेव ॥ उत्सर्ग इति ॥ श्राद्धादिफलस्य कर्तृमात्रगतत्वे तु व्यभिचाराभा.