पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्कावली-प्रभा-दिनकरीयसमन्विता । ८२५ तुदभावे सदमावः एवं प्रत्यवायाभावसत्त्वे दुःखप्रागमावसत्त्वं तदभावे तदभाव इति यो. गक्षेमसाधारणकारणताया दुःख भागभावं प्रत्यपि सुवचत्वात् । एवमेव प्रायश्चित्तस्यापि दु:- खप्रागभावहेतुत्वमिति । ननु न कललं भक्षयेदित्यत्र विध्यर्थे कथं नार्थान्वयः इष्टसाधन- स्वाभावस्य कृति साध्यत्वाभावस्य च बोधयितुमशक्यत्वादिति चेन्न तन बाधादिष्टसाधनत्वं प्रभा. न सन्ध्योपासनादिकरणे सतीत्यर्थः ॥ प्रत्यवायाभावस्तिशतीति ॥ प्रत्यवायप्रामभावसिष्टतीत्यर्थः ॥ त. दभावे तदभाव इति । सन्ध्योपासनाद्य करणे प्रत्यवायप्रागभावनाश इति एतावता प्रत्यवायानुत्पत्तेः योग. क्षेमसाधारगसन्ध्योपासनादिनिरूपित कार्यत्वमुपपायेदानी दुःखानुत्पत्तिहेतुत्वमुपपादयति ॥ एवमित्यादि । प्रत्यवायाभावसत्त्व इति ॥ प्रत्यवायप्रागभावसत्त्व इत्यर्थः ॥ तदभाव इति ॥ प्रत्यवायप्रागभाव- नाश इत्यर्थः ॥ तदभाव इति ॥ दुःखप्रागभावध्वंस इत्यर्थः ॥ इतीति । एतादृशकरणताया इत्यर्थः इतिशब्दार्थस्य मुक्चत्वादित्यप्रेतनेनान्वयः ॥ योगक्षेमसाधा तयेति ॥जन्याजन्यनिरूपिततयेत्य- र्थः ॥ दुःखप्रागभावं प्रत्यपीति ॥ दुःखप्रागभावनिरूपिताया अपि कारणताया इत्यर्थः ॥ सुवचत्वा- दिति ॥ प्रत्यवायानुत्पत्तेः वक्तुं शक्यत्वादित्यर्थः तथाच प्रत्यवायानुत्पत्तेरन्वयव्यतिरेकाभ्यां सन्ध्योपास- नादिनिरूपितनिरुक्त क्षेमसाधारणजन्यत्वदुःखानुत्पत्तिनिरूपितनिरुक्तक्षेमसाधारणजन्यत्वयोनिराबाधतया पूर्वेक्ताक्षेपप्रसक्तिरिति भावः। नन्वेवं सात प्रायश्चित्तस्य पापनाशकत्ववदुःखानुत्पत्तिहेतुत्वमपि स्थादित्यत्रे- टापतिमाह ॥ एवमेवेति ॥ क्षेमसाधारणमवेत्यर्थः एवकारः अध्याहरिष्यमाणेनेशमिलनेनान्वेति ॥प्रा- यश्चित्तस्यापीति ॥ पापिकतृकप्रायश्चित्तस्यापीत्यर्थः अपिशब्दः प्रत्यवायानुत्पत्तिसमुच्चायकः ॥ दुःख- प्रागभाव हेतुत्वमिति ॥ इष्टमिति शेषः । भव्याम्नु सन्ध्योपासनादेः प्रत्यवायप्रागभावः प्रत्यवायप्रागभा- वस्य दुःखप्रामभावो वा न फलं प्रागभाव एव मानाभावात् किन्तु सन्ध्योपासनादेः प्रत्यवायात्यन्ताभाव- स्तस्य व दुःखात्यन्ताभावः फलं तयोरपि क्षेमसाधारणकारणत्वसंभवादित्याहुः ॥ तटस्थः शङ्कते ॥ नन्वि- ति ॥ न कलङ्गं भक्षयेदित्यत्र विध्यर्थ इति ॥ एतादृशश्रुतिघटकविधिप्रतिपाद्यबलवदनिष्टाननुव- धित्वादिष्वित्यर्थः कलअभक्षणान्वितनजाभाचे विध्यर्थेष्टसाधनत्वान्वये बाधकामावाद्विध्यर्थ इत्युकम् ॥ कथं नप्रर्थान्धय इति ॥ नअर्थाभावस्य प्रतियोगितया कथमन्वय इत्यर्थः । ननु कुतो नान्वयसंभवः अभावे बल. वदनिष्टाननुबन्धित्वादिप्रतियोगिकत्वस्याबाधितत्वादित्यत आह ॥ इष्टसाधनत्वाभावस्येति ॥ विध्य- घटकेष्टसाधनत्वान्वितनअर्थाभावस्येत्यर्थः ॥ बोधयितुमशक्यत्वादिति ॥ कलाभक्षणनिष्ठविशेष्यता- निरूपितबोधीयप्रकारस्वासंभवादित्यर्थः इष्टसाधनस्वान्विताभावस्य कलाभक्षणे बाधितत्वादिति भावः ॥ तत्रेति ॥ कलञ्जभक्षण इत्यर्थः । बाधादिति । इष्टसाधनत्वाधन्विताभावस्यासत्त्वादित्यर्थः ॥न विध्य- र्थ इति ॥ न प्रकृतविधितात्पर्यविषय इत्यर्थः ।। बलवदनिष्टाननुबन्धित्वमात्रमिति ॥ किंस्वित्या- दिनकरीयम्. करीत्या प्रत्यवायानु-पत्तेः फलस्पाभावेन तत्साधनता ज्ञानस्य प्रवृत्यहेतुत्वात् सन्ध्यावन्दनादौ प्रवृत्तिरित्या धः ॥ प्रत्यवायाभारः प्रत्यवाय प्रागभावः ॥दमाचे सध्यानन्दनादिनित्याभावे ॥ तदभावःप्रत्यवा- याभावस्याभावः ॥ तदभावे प्रत्यवाथाभावस्याभावे ॥ तदभावः दुःखप्रागभावाभावो दुःखरूपः ॥यो. गक्षेमसाधारणेति ।। योगोऽप्राप्तस्य प्रप्तिः ॥ क्षमः सिद्धस्य संरक्षणम् । प्रवृत्तिं प्रतीसाधनताज्ञान- स्य हेतुतायां साधनतायाः क्षेमसाधारण्या एव प्रविघ्त्वादिति भावः । प्रागभावस्य प्रतियोगिविकल्पमासे- न फलत्वासम्भवात् प्रत्यवायारयन्ताभाव एव नित्यस्य फलं खरूपसम्बन्धविशेषात्मकक्षेमसाधारणजन्यता. या अत्यन्ताभावे सत्त्वादिति तु नव्याः ॥ एवमेव योगक्षेमसाधारणमेव । ननु न कलअमित्यत्र कलाभ- क्षणाभाव इष्टसाधनमित्यन्वयबोधाभ्युपगमे बाधकाभावादित्यत आहे ॥ विध्यर्थे कथं नजथैति ॥ वि. भ्यर्थनअर्थयोः कथमन्वयः विध्यर्थे साधनत्वाद्यन्वितनगर्थस्याभाबस्य कलअभक्षणे कथमन्दय इत्यर्थः ॥ 104