पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३० कारिकावली [गुणखण्ड: प्रभा. 1 कथं श्येने प्रवृन्यभाव इत्यत आह ॥ अग्निमेति ॥ खड्गाभिघातजन्य पापं ज्ञात्वेत्यर्थः ॥ न प्रवर्तन्त - ति ॥ इतीति शेषः । तस्य केचिदिति पूर्वेणान्वयः । तथाच मरणजनकत्वाभावेऽपि मरणप्रयोजकत्वात् सतां प्रवृत्यभाव इति भावः । अनौकरीवा नस्य हिंसानामावेन न हिस्यादिति निषेधविध्यविषय- स्वेऽपि अभिचारकर्मरूपतया पापजनकत्वमावश्यकम् । नच खड्गा भिघातादेरेवाभिचारत्वमिति वाच्यं तथा सति यादशमत्रमुद्दिश्य श्येनयागः कृतः तादृशशत्रौ खड्गघातात्पूर्व देवान्मृते सति तन्त्र श्येनजन्य खड्गघाता- द्यनुत्पत्त्या आभिचारपदार्थाभावेन तादृश यागकर्तः प्रायश्चित्तानुत्पत्तेः । तम्मादेतन्मते श्येनत्य पापजनकत्वात् पापप्रयोजकत्वाद्वा बलवदनिटाननुबन्धित्वेन बलवदनिष्टान नुवरिधत्वरूपविध्यर्धान्वयानुपपत्तिः तदवस्थेति । न च बलवदनिष्टातनुबन्धिावं किंचिदद्वारकबलवदनिष्टान नुवन्धित्वरूप विध्यर्थ इति इथेन तदबाधित मेवेति वाच्यं तथा सति विघसम्पृक्ता नभक्षणादेराप देहविकारविस्मृतिद्वारा मरण साधनत्वेन साक्षान्मरण साधनस्वाभावा त् तत्रापि प्रवृत्त्यापत्तरित्याद्यत्वरसं हृदि निधाय केचिदित्युक्तमिति ध्येयम् । अत्रेदं बोध्यम्। अगम्यां गच्छेदि. ति लौकिकवाक्यानां अप्रामाण्य मेवागम्यागमनादेः बलव दांनष्टान नुवान्धित्वाभावात् यदि प्रामाण्यमिष्टं तदा त- द्वाक्यघटकालद्धः इष्टसाधनत्वकृति साध्यत्वलाक्षणिकत्वमेव स्वीक्रियते लौकिकलित्वात् यच बलवदनिष्टाननु बन्धित्वस्य विधिशस्यत्वे यागादिजन्यनाम्तरीय कदुःखप्त्यापि यदाकदाचित् कस्यांच देषविषयतया यागस्य बलवदनिष्टानेनुबन्धि वाभावेन यजेतल्यादिश्रुतीनामप्रामाण्यापत्तिरिति तन्न श्रद्धेयम् इष्टोत्पत्तिनान्तरीय कदुःखा- धिकदुःखविषयत्वस्येव द्वेषनिष्ठ बलवत्वरूपतया कदापि कस्यचिदपि नान्तरीयकदुःखद्वेषस्य तादृशत्वासंभवेन उक्तदोषाप्रसक्तः । यच्च न कळनं भवदित्यादिनिषेधावधिवत् नाश्रमेधेन यजेनेत्यादिलोकिकवाक्यानां प्रा- माण्यापत्तिवति तदपि मन्दमश्वमेधस्थलीयनान्तरीयकदुःखद्वेषस्य निरुतबलत्रत्वाभावेनाश्वमेधे बलवदनि. टाननुबन्धित्वसत्त्वेन निरुक्तदोषाप्रसफः । यच्च यदा यः पुरुषः प्रवर्तते तत्कालीनतापुरुषीयबलव द्वेषविषया- जनकत्वम्याश्वमेधासत्त्वात् नोक्तदोष इत्याक्षिप्य तदुपरि कालभेदेन पुरुषभेदेन च विधेयशक्तिकल्पने गौरवात् कालविशेषपुरुषविशेषाणां विशिष्य ज्ञानुमशक्यतया तद्धटित बलवदनिष्टाननुबन्धित्वशक्तविधिनिरूपिताया: दिनकरीयम्. म्भवात् कुतस्तास्तिकानां श्येने न प्रवृत्तिरत आह ॥ अग्रिमेति ॥ तथा च पातकप्रयोजकत्वान्न तना. स्तिकानां प्रवृत्तिरिति भावः । अत्र नव्याः मास्तु श्येनस्य मा हिंस्यादिति निषेधविषयत्वं तथाप्यभिचारत. या पापजनकत्वं सर्वसम्मतं अभिचारस्योपातकमध्ये मनुना परिगणितत्वादेति कथं तस्य बलवदनिष्ट:- ननुबन्धित्वम् । यचोक्तं इये नजन्यखड्गाभिघातादरेवाभिचारतया पापजनकत्वं न श्येनस्येति तदपि न अ. भिचारमहीनं चैत्यत्राभिचारपदेन तजनकश्येनादेप्रहणादन्यथा प्रत्यभिचारेण यत्र न खगघातायुत्पत्तिस्त त्र प्रायश्चित्तं न स्यात् । एवमपि श्येने पापप्रयोजकतया बलबदनिष्टा प्रयोजकत्वोपपादनस्याशक्यत्वाञ्च प्र. वृत्ति प्रति बलवदनिष्टाप्रयोजकत्वज्ञानात्यैव जनकतया तद्विषयस्यैव विध्यर्थत्वात् । तथा च श्येनस्य बलवद- निष्टानसुबन्धित्वमुपपाद्य विधेर्बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वांवशिष्टकृतिसाध्यत्वे शातिरयुक्त। किंतु त्रिषु शक्तित्रय स्वीकृत्य कचित् कस्यांचवचित् कस्यचिदर्थस्य बोध इत्यशीकरणीयम् । श्येनेनेत्यादौ तु बल. वदनिष्टाननुबन्धित्वस्य बोधो न भवत्येव परं विष्टसाधनत्वकृतिसाध्यत्वयोरेवेति किंच विशेषणविशेष्य. भावे विनिगमनाविरहेणापि विशिष्टे शक्तिर्न युक्ता नच प्रत्येक शक्ति स्वीकृत्य कचित् कस्यचिदर्थस्य बो- धोपगमे नियामकाभाव इति वाच्यं तात्पर्यस्यैव नियामकत्वात् प्रत्येकशक्तिपक्षेऽगभ्यो गच्छेदित्यादिवाक्या. नामिष्टसाधनस्वादिप्रमाजनकतया प्रामाण्यापत्तिरित्यपि न । इष्टापत्तेः तताप्रामाण्यव्यवहारस्तु कदाचिद्बलव- दनिष्टाननुवन्धित्वभ्रमजनकत्वनिबन्धनः। चा बलवदनिष्टाननुबन्धित्वे सतीष्टसाधनत्वे सति कृतिसाध्यः पा. क इत्येव बोधो न तु कृतिसाध्यत्वे सतीत्यादिरूप इति विशिष्टशक्तिपक्षेऽपि न विनिगमनाविरह इति वाच्यं तथैव बोधो नान्यथेत्यस्य शपथनिर्णेयत्वात् तस्माद्लवदनिष्टाननुबन्धित्वादिषु प्रत्येकं शक्तिरिति प्रथमक. ल्प एव युक्तः सत्रापि बलवदनिष्टाननुबन्धित्वं नार्थः । यागादिजन्यनान्तरीयकदुःखस्यापि यदाकदाचित