पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्कावली-प्रभा-दिनकरीयसमन्विला । पुंयोगे मानम् । नच कर्चस्मरणं वाधकं कपिलकणादादिभिरद्यपर्यन्तं कर्तृस्मरणस्यैव प्रती- यमानत्वात् अन्यथा स्मृतीनामप्यकर्तृकत्वापत्तेः । तत्रैव कर्तृस्मरणमस्तीति चेद्वेदेऽपि छन्दांसि जज्ञिरे तस्मादित्य दिकर्तृस्मरणमस्त्येव । एवं प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयत इत्य- पि द्रष्टव्यम् । स्वयम्भूरेष भगवान वेदो गीतस्त्वया पुरा । शिवादिऋषिपर्यन्ताः स्मर्तारो- ऽस्य न कारका इति तु वेदस्य स्तुतिमात्रम् । नच पौरुषेयत्वे भ्रमादिसम्भवादप्रामाण्यं प्रभा. विध्यर्थघटकाप्तस्येश्वरभिन्नस्य विनिगमनाचिरहेश वक्तुमशक्यतया ईथुरभिन्नसमवेतेच्छाबोधने विधेरसामर्थ्या- च विधिरेवेश्वरे मानमिति भावः ॥ कर्तुरिति । वेदे कर्तुरित्यर्थः। तथाच वेदो न पौरुषेयः अस्मर्यमाणकर्तृकत्वात् आशादिवत् इत्यनुमानमीश्नरसिद्धौ बाधकामिति भावः ॥ कपिलकणादादिमारभ्येति ॥ कपिलक- णादगौतमप्रभृतीत्यर्थः ॥ अथपर्यन्तमिति ॥ एतत्कालीनवेदवक्तृपर्यन्तमित्यर्थः । कपिलकणादगौतमप्रभृति- एतत्कालीनवेदवक्तृनिष्ठरम्पराघटकैर्यावद्धिमहद्भिरिति समुदितार्थः ॥ कर्तृस्मरणस्यैव प्रतीयमान- स्वादिति ॥ सकर्तृत्वबोधकस्मृतिप्रणयनादित्यर्थः । मच वेदकर्तुरीवरस्य केनचिदृष्टत्वादनुभवसामान्यस्या- संभत्रेन स्मरणासंभवात् कपिलादीनां तन्मूलकस्मृतिप्रणयनं कथमिति वाच्यम् । वेदः पौरुषेयः वाक्यसमूहत्वा- दित्यनुमानेन वेदकर्तुरनुमितो तन्मूलकस्मरणस्मृतिप्रणयन योरसंभवात् । अन्यथा उकानुमानस्याप्रयोजक- त्वमङ्गीकृत्य वेदस्य सकर्तृत्वानङ्गीकार इत्यर्थः ॥ स्मृतीनामपीति ॥ मन्वादिस्मृतीनामपीत्यर्थः ॥ त- त्रैवेति ॥ स्मृतिवेवेत्यर्थः । कर्तृस्मरणमिति ॥ मन्वादिस्मृतिप्रणेतुरित्यर्थः ॥ अस्तीति चेदिति। अस्ती. ति यमुच्यत इत्यर्थः । तथाचेत्साह गौतम इति शातात ऽबवीदितीति मनुवचनादित्यादिस्मृति- घटकवचनेनैव तत्तत्स्मृति प्रणेतृणां स्मृतत्वान्न स्मृतीनामकर्तृकत्वापत्तिरिति भावः ॥ इत्यादिनेति ॥ इत्यादि- वेदघटकवाक्येनत्यर्थः । आदिना यजुस्तस्मा अजायत तस्मात्तेपानास्त्रयो चेदा अजायन्त स भूरिति व्या- हरत् स भूमिमसृजत अग्निहोत्रं दर्शपूर्णमासी यपि इत्यादेः परिग्रहः ॥ अनापीति ॥ वेदेऽपीत्यर्थः । वेदस्य सकर्तृकत्वे श्रुतिप्रमाणं प्रदय स्मृतिप्रमाणमपि प्रदर्शयति ॥ एवमिति ॥ इत्यपीति ॥ एतादृश- स्मृतिवारगमपीत्यर्थः ॥ द्रष्टध्यमिति ॥ प्रमाणतया स्वीकार्यमित्यर्थः । ननु वेदस्य नित्यत्वप्रतिपादकमा रतादिरेव तस्य नित्यत्वे प्रमाणमित्याशते । स्वयम्भूरिति ॥ नित्य इत्यर्थः । भगवानिति ॥ ब्रह्मा- दीनामपि सर्वार्थप्रकाशक इत्यर्थः । एतद्द्यमपि वेदविशेषणमिति बोध्यम् । तथाच एतादृशवचनेन वेदस्य नित्यत्वलाभात न पौरुषेयत्वमिति भावः । शङ्का परिहरति ॥ वेदस्य स्तुतिमात्रमिति ॥ स्मृतीति- हासपुराणापेक्षया स्वतन्त्र पुरुषानुष्ठितत्वरूपौत्क ट्यप्रदर्शनपरं भारतवचनं न स्वार्थतात्पर्य कमित्यर्थः । तथाच पूर्वोक्तश्रुला बेदस्य पौरुषेयत्वसिद्धया भारतवचनस्य वेदनित्यत्वप्रतिपादकत्वे श्रुतिविरुद्धार्थप्रतिपादकतया भारतस्याप्रामाण्यापत्तेरस्तावकत्वमावश्यकमिति भावः ॥ भ्रमादिसंभवादिति ॥ भ्रमप्रमादविप्र- दिनकरीयम्. भावाविधिरेव वेद वक्तुरीवरे मानमिति भावः ॥ नच कर्जस्मरणमिति ॥ कर्तुः बेदकर्तुः ॥ अस्मरणं स्मृतिभिरबोधनम् । तथा च वेदोऽपौरुषेयः अस्मयमाणकर्तृकत्वादित्यनुमानं बाधकाम- त्यर्थः ॥ कपिलकणादेति । कपिलकणादगौतमादिभिस्तच्छिष्यैश्चायपर्यन्तमित्यर्थः ॥ कर्तृस्मरणस्य सकर्तृकल्वोधकस्मृतेरित्यर्थः । नन्वीश्वरस्य वेदवक्तुः सर्गादौ केनचित्याक्षाददृष्टत्वादननुभवेऽस्मरणं त. दभाचे ऋषीणां स्मृतिप्रणयनं च न सम्भवतीति चेन्न पौरुषेयत्वानुमानेन वेदवतारमनुभूय तन्मूलकश्रुति- स्मृतिप्रणयनयोः सम्भवात् ॥ अन्यथा वेदे सकर्तृकत्वानङ्गीकारे । तत्रैव स्मृतिष्वेव । वेदस्य सकर्तृकत्वे श्रुतिं प्रदर्य स्मृतिमपि प्रदर्शयति ॥ एवमिति ॥ ननु वेदस्य नित्यत्वबोधकं भारतायेव तायाकर्तृकरवे प्रमाण भविष्यतीत्याशङ्कते ॥ स्वयम्भूरिति॥ नित्य इत्यर्थः । एष भगवानित्यपि वेदविशेषणम् स्तुतिमात्रमि- वि॥ तथा च पूर्वोक्तश्रुतिस्मृत्योविरोधेनास्य भारतस्य न स्वार्थे तात्पर्यमपि तु स्तुतिपरत्वमिति भावः ॥नमा- 105 -