पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३८ कारिकावली [गुणखण्ड: ॥ द्धव्यम । तेन दुतसुवर्णादीनां न सङ्ग्रहः ॥ १५६ ।। स्नेहो जले स नित्योऽणावनित्योऽवयविन्यसौ । तैलान्तरे तत्पकात् दहनस्यानुकूलता ॥ १५७ ।। स्नेहं निरूपयति ।। जल इति ।। जल एवेत्यर्थः ।। असौ स्नेहः । ननु पृथिव्या- मपि तैले स्नेह उपलभ्यते नचासो जलीयस्तथा सति दहनप्रातिकूल्यप्रसङ्गादत आह॥ तै- लान्तर इति ।। तत्प्रकर्षात् स्नेहप्रकर्षात् । तैले उपलभ्यमानः स्नेहोऽपि जलीय एव तस्य प्रकृष्टत्वादग्नेरानुकूल्यम् । अपकृष्ट नहोऽपि जले तं विनाशयतीति भावः ॥ १५७ ॥ प्रभा. अग्निसंयोगजन्यामिति । अनिसंयोगासमवाधिकारणकमित्यर्थः ।। द्रुतसुवर्णादिनेति || आ. दिना द्रुतर जतादेः परिग्रहः । तशाच स्नेहसहितद्रवत्वस्य खोसिद्धिकद्रवत्यरूर लगा सांसिद्धिकद्र वत्वत्वेन है. तुत्वस्वीकारान सुवर्णद्रवत्वेन हेतुना सहनापत्तिरिति भावः ! अम्म गुरुचणास्तु जलसामान्यस्यैव सह हेतु. स्वमुचितं मामानाधिकरश्यसंबन्धेन साहिद्धिकद्रवत्वस्नेहयाई तुत्वापेक्षया संयोगम तहेतुत्वे लाघवात् एते. नावश्यक नेहनव पिण्डीभावसंभवेन सांसिद्धिकदार त्वस्यान्यथासिद्धत्वनावश्यक एक रयान्यथासिद्धत्वे परस्य हेतुत्वे च विनिगमनाविरहादुभ-पहेतुत्वमावश्यकामान केषां चत्समाधानमा न श्रद्धेयं उभयो तुयास्वी- कारात् । नचैवं सति द्रवत्वस्य सहानमित्त वप्रतिपादकानिमित्तंसा हेतुनादिति मूलावरोध इति वाच्यम् । त. खत्यानिमित्त शब्दः न निमित्तकारणपर: किंतु कारणवृत्त्यसाधारणधर्म पर एबमुक्तदोपानवकाशादिति व्याच- मूल स्नेहो जल इति ॥ तत्र नेहवं जातिविशेषः प्रत्यक्षसिद्धस्तदेव स्नेहलक्षणमिति बोध्यम् । लेहोऽम्भस्यवेति माथ्यानुसारेण लक्षणान्तमाह जल इति || जल एवेत्यर्थः । तथाच जलान्यनिरूपित- समवाय संबन्धावच्छिन्नवृतितानच्छेदकगुगविभाजकमातिमत्वं जलान्य समवेतासमवेतगुणविभाजकजातिम- त्वं वा स्नेहलक्षणमिति भावः । तलान्तरे ताप्रकर्षादिति मूलेन तैलवृत्तेः स्नेहस्व प्रकृष्टत्वादहनानुकूलत्व. मित्यर्थों लभ्यते तथा सति पृथिव्य माध स्नहलाया स्नेहलक्षणस्यासंभवप्रस्तत्वापत्तेः अतस्तन्मूलमवतार यति ॥ मुक्तावळ्यां नन्वित्यादिना ॥ पृथिव्यामपीति ॥ तैल इति ॥ तलरूपपृथिव्यामपीत्यर्थः ॥ उपलभ्यत इति । प्रत्यक्षविषयतावामित्यर्थः । असाविति ॥ तेल उपलभ्यमानस्नेह इत्यर्थः ॥ त- था सतीति ।। तादृशस्नेहाय जलीयत्व इत्यर्थः ॥ दहनप्रातिकूल्यप्रसङ्गादिति ॥ दहननाशकत्वप्र- सङ्गादित्यर्थः । तथाच तादृशस्नेहस्य जलगतत्वस्वीकारे तैले जलस्वीकारावश्यकतया नाश कसत्वाद्दहनना- शापत्तिरिति भावः ॥ स्नेहप्रकर्षादिति ॥ प्रकृष्टस्नेहादित्यर्थः ॥ तैलान्तर इत्यादिमूलस्य तात्पर्यार्थमा- ह ॥ तैलोपलभ्यमानस्नेहोऽपीति ॥ अप्रकृष्टस्नेहोऽपि जल इति । जलगतविजातीयस्नेह एवे. त्यर्थः ॥ तं विनाशयतीति ॥ दहननाशकमित्यर्थः ॥ इति भाव इति ॥ तथाच विजातीयस्नेहस्यैव दहननाशकतया तेलान्तर्वर्तिजलगतस्नेहस्य वैज्ञात्यानाश्रयतया न ततो दहननाशापत्तिरिति भावः । अत्र स्नेहे तादृशवैजात्यमङ्गीकृत्य तेन रूपेण तस्य परम्परासंबन्धेन दहननाशकत्वकल्पनापेक्षया जल एव तादृश- वैजात्यमङ्गीकृत्य तेन रूपेण जलस्य साक्षात्संबन्धेन हेतुत्वस्वीकार एवोचित इति प्रतिभाति ॥ १५७ ॥ दिनकरीयम् अह इति भावः । नचाच झ्यकस्नेहहेतुत्वेनैवानतिप्रसझे सांसिद्धिकद्रवत्वस्य सङ्ग्रहहेतुत्वे मानाभाव इति वा. च्यं स्नेहत्वेन सांसिद्धिकद्वत्वत्वेन वा हेतुत्वमित्यत्र विनिगमनाविरहेणोभयस्यापि हेतुत्वात् ॥ १५६ ॥ असौ तैले प्रतीयमानः स्नेहः ॥ जलीयः तैलान्तर्गतजलभागनिष्टः ॥ तथा सति तैलान्तर्जल- भागवीकारे ॥ दहनप्रातिकूल्यप्रसङ्गात् दहननाशप्रसङ्गात् । दहननाशं प्रति संयोगेन जलस्य हेतृत्वा. दिति भावः ॥ १५ ॥