पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४० कारिकावली [गुणम्बण्डा ताद- पालन अनिते पटे वेगो जन्यते स वेगजो वेगः ।। १५८॥ स्थितिस्थापकसंस्कारः क्षितौ केचिचतुर्वपि । अतीन्द्रियोऽसौ विज्ञेयः क्वचित् स्पन्दे-पि कारणम् ॥ १५९ ।। स्थितिस्थापकेति ॥ अतीन्द्रिय इति ॥ आकृष्टशाखादीनां परित्यागे पुनर्गमनस्य स्थितिस्थापकसाध्यत्वात् ।। केचिदिति || चतुपु क्षिल्यादिपु स्थितिस्थापक केचिन्मन्यन्ते तदप्रमाणमिति भावः ।। असौ स्थितिस्थापकः ।। कचित् आकृष्टशाखादी ॥१५९ ।। प्रभा. तथाच वायुसयोगसत्तानियतोत्पत्तिकानां घटादिकर्मणां सोपाधिकरवेन देगोरपादकत्वं न संभवतीत्याशयः । अत्र घरादिनिष्ठनिरुकवेमं प्रति वायुभमवेतस्य देगस्यासमाथिकारणावं न संभवति शवेगसमवाय कारणघटादौ समवायेन समवायघाटेतसामानाधिकरण्येन वा वर्तमानस्वाभावात् किन्तु तद्-- तचलनस्थैव तथात्वं एवंच वेगवद्वायुसंयोगाधीनघटादिक्रियायाः तत्समवेतवेगकारणत्वस्यावश्य करवेन तद्धेतुत- यैव सामसभ्ये वायुकियोत्पादनसमर्थस्य वायुवेगस्य परम्परासंबन्धेन हेतुत्वाला न मनुचितं अन्यथासिद्ध - स्यात् । अन्यथा वायुक्रियाया अपि तत्कारण वापत्तिः । एवं च वेगजवंगे मानाभावन वेगो द्विविध इत्यर्थ इ- ति मुक्तावळीग्रन्थः वायुगत वेगस्य निमित्त कारणत्वाभिमान प्राचीन कदेशिमताभिप्रायकः । अत एव मूले कर्मजो वेगजश्व स इत्यनुक्ता कर्मजो वेगजः क्वचिदिति कम्मिाश्चिन्मत इत्यर्थकवाचिस्पदप्रयोगोऽपि साधु स. अच्छते । तस्माद्वेगस्य द्वैविध्ये विश्वनाथपञ्चाननस्य न निर्भर इति प्रतिभाति ।। १५.८ ॥ मूले स्थितस्थापकसंस्कार इति ॥स्थितस्थापकत्वं कियाजनकतावच्छेदकतया सिद्धो जातिविशेषः त- द्वस्वमेव स्थितस्थापकलक्षणामेति बोध्यम् । ननु स्थितस्थापक मानाभाव: वगेनैव द्वितीयादकियोत्पत्तिसंभवात् इत्याशङ्का प्रमाणप्रदर्शनेन परिहरति ॥ मुक्तावळ्यां आक्रटशावानामिति ॥ तादृशशाखादीमामित्यर्थः । आदिना तादृशदेण्यादीनां परिग्रहः । तथाचाकृष्टा शाखा यरिति व्युत्पत्या तादशशाखादिनिष्ठपूर्व देशसंयोगनाश- प्रयोजकपूर्व देशानुयोगिक संयोगान्तरजन का पानु पत्तिप्रयोजकयत्नवतामिति फलितार्थः ॥ परित्याग इ. ति ॥ तादृशयत्नसामान्य नाशे सतीत्यर्थः ॥ पुनर्गमनस्यति । पुनः पूर्वदश संयोग जनकगमनस्येत्यर्थः॥ स्थि तस्थापकसाध्यत्वादिति ॥ स्थितस्थापक रूपासमबायकारणेनैवोत्पत्ते रावश्यकत्यादित्यर्थः । तथाच स्थि- तस्थापकानीकारे जलादावपि वेगसत्त्वेन जलादिनिष्टपूर्वदेशसंयोगजनककियानुत्पत्तिप्रयोजक पुरुषप्रयत्नाभावे सति प्रतिबन्धकाभावात् पुनः पूर्वदेशसंयोगजनकक्रियोत्पत्त्यापत्त्या उत्तरदेशसंयोग जनक्रियाज नकवेगस्य पुनः पूर्वदेशसंयोगजनकत्वासंभवात् तादृशक्रियोत्पत्त्यर्थ स्थितस्थापकाङ्गीकार आवश्यक इति भावः । इद- मुपलक्षणम् क्रियाविशेषज नकस्थितस्थापकस्य क्रियाविशेषजन्यत्ववत् स्वजन्यक्रियानाइयत्वं अतीन्दियत्व- मप्यस्तीति बोध्यम् । केचिच्चतुष्पीतिमूलस्थचतुशब्दस्य जलादिचतुयार्थकत्वे पृथिव्यामपि स्थितस्था- पकसत्वात् आकाशादौ तदसत्त्वाच्चासङ्गातः अतस्तात्पर्यार्थमाह ॥ मुक्तावळ्यां चतुर्यु पृथिव्यादि- विति ॥ केचिदित्यनेन सूचितमखरसं प्रकाशयति ॥ तदप्रमाणमिति भाव इति ॥ जलादिष्वाकृष्टेषु दिनकरीयम्. ति ॥ बेगं विना कर्मनाशो न स्यादित्यन्वयः । नाशझान्तराभावादिति भावः । ननु पूर्वकर्मणो नाशाभावे का क्षतिरत आह ॥ कर्मात्पत्तिश्च न स्यादिति ॥ अब हेतुः कर्मणः प्रतिबन्धकत्वादिति । अब केचित् उत्तरसंयोगेनैव पूर्वकर्मनाशोत्तरकर्मणोः सम्भवात् तापूर्वकर्मनाशकर्मोत्पत्तिस्वीकारे प्रयोजना:- भावादलं वेगेन तस्माद्वेगेन गच्छतीति कर्मजनकतया प्रत्यक्षमेव वेगे प्रमाणमित्याहुः ॥ १५ ॥ पुनर्गमनस्येति ॥ यथापूर्वसंयोगजनकक्रियाया इत्यर्थः ॥ स्थितिस्थापकसाध्यत्वादिति ॥ वेगस्य तूत्तरदेशसंयोगजनकक्रियाजनकत्वं न तु यथापूर्वसंयोगजनकक्रियाजनकत्वमिति न वेगेन स्थितिस्था. पकस्यान्यथासिद्धिरिति भावः । स्थितिस्थापकत्वं जातिविशेषः । क्रियाविशेषजनकतावच्छेदकतया सिद्धः ।