पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५० कारिकावली [गुणखण्ड: सर्वः शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते ॥ १६५ ॥ वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता । कदम्बगोलकन्यायादुत्पत्तिः कस्यचिन्मते ।। १६६ ।। शब्दं निरूपयति ।। शब्द इति ॥ नभोटत्तिः आकाशसमवेतः । दूरस्थशब्दस्याग्रहणादा- है ॥ श्रोत्रेति ॥ ननु मृदङ्गाद्यवच्छेदनोत्पन्ने शब्दे श्रोत्रे कथमुत्पत्तिरत आह ॥वीची. ति ॥ आद्यशब्देन बहिर्दशदिगवच्छिन्नोऽन्यः शब्दस्तैनैव शब्देन जन्यते । तेन चापर- स्तद्वयापकः । एवं क्रमेण श्रोत्रोत्पन्नो गृह्यत इति ।। कदम्बेति ।। आद्यशब्दात दशदिनु द- शशब्दा उत्पद्यन्ते तैश्चान्ये दशशब्दा उत्पद्यन्त इति भावः । अस्मिन मते कल्पनागौरवादु. क्तम् ॥ कस्यचिन्मत इति ॥ १६४ ॥ १६५ ।। १६६ ।। प्रभा. रे प्रारब्धकर्मणां भोगादेव क्षय इति वचनविरोधापत्त्या ज्ञानाग्नि सर्वकमाणीत्यादिस्मृतिघटकसर्वशब्दस्य प्रारब्धेतर सर्व कर्मपरत्वं स्वीकार्यमित्याशयः ॥ तच्छरीरभोगजनकामिति ॥ तच्छररािवच्छेदन भोगजनकमित्यर्थः ॥ एतदभिप्रायकमेवेति ॥ प्रारब्धकर्माभिप्राय कर्मवेत्यर्थः । कथं श्रोत्रोत्पत्ति रिति । कर्णविवरावच्छेदेन कथमुत्पत्तिरित्यर्थः । कर्णविवरस्य तदुत्पत्त्यवच्छेदकत्वाभावादिति भावः ॥ श्रोत्रोत्पत्तिरिति ॥ कर्णविवरावच्छेदेन वर्तमानत्वमित्यर्थ इत्यस्मद्गुरुचरणाः ॥ आद्यशब्दस्य बहि दशदिगवच्छिन्न इति ॥ आद्यशब्दावच्छेदकदेशदिग्मिन्न देशदिगवच्छिन्न इत्यर्थः ।। अन्यशब्द इति । प्रथमशब्दान्य सर्वत्वावच्छिन्नशब्द इत्यर्थः । तेनैवेति || आद्यशब्देनैवेत्यर्थः एवकारेण द्वितीयादिशब्देन शब्दोत्पत्तिपक्षो व्यवच्छिद्यते ॥ सचेति ॥ अयशब्दान्य सर्वशब्दोऽपीत्यर्थः ॥ आद्यशब्दस्य व्यापक इति ॥ आधशब्दाव्यदहितोत्तरकालक्षणोत्पत्तिक इत्यर्थः ॥ एवं क्रमेणेति ॥ वाचीतरङ्गन्याय नेत्यर्थः । श्रोत्रोत्पन्न इति ॥ श्रोत्रावच्छेदेन उत्पन्नशब्द एवेत्यर्थः ॥ उपलभ्यत इति ॥ प्रत्यक्षविषयतावानित्य- र्थः । अयं भावः वीची यथा सर्व दिगवच्छेदेन एकदा तरङ्गान् जनयति परन्तु यद्देशांदगभिमुखो वायुस्तद्दे - शदिगवच्छेदेन अधिकतरङ्गान् जनयति तथा भेसमृदझाद्यवच्छेदेन जायमानशब्दः भर्यादिभिन्न सर्व देशाच- च्छेदन सर्वदिगवच्छेदेन चैकदैव शब्मान् जनयति परन्तु यद्देशांदगभिमुखो वायुः तद्देशदिगवच्छेदेनाधि. कशब्दान् जनयतीति वींचीतरअन्यायेनोत्पत्तिकम इति । कदम्बमुकुळन्यायेन शब्दोत्पत्तिप्रकारमाह ॥ आद्यशब्दादिति ॥ मर्याद्यवच्छेदेन जायमानशब्दादित्यर्थः । दशदिदिवति ॥ मेरीसमीपदेशेष्वित्यपि बोध्यम् ॥ तश्चेति ॥ तादृशदशशब्देनैवेत्यर्थः एवकारार्थे चकारात् । अन्ये दशशब्दा इति ॥ दशदि गवच्छिन्नाः पूर्वोत्पन्नदशशब्दासमवायिकारण कास्तादृशशब्दावच्छेदकदेश सन्निहितदेशावच्छिन्नाश्शब्दा इत्य- थः ॥ इति भाव इति ॥ अयं भावः आदिमं कदम्बपुष्य एकनाळकाधिकरणविशेषे यथा स्वस मीपदेशेषु प्रागाद्यष्टदिक्षु सजातीय पुष्पाणि जनयति तादृशपुष्पाणि तस्मिवाधिकरणे तत्समीपदेशेऽवष्टदिक्षु चान्यानि सजातीयपुष्पाणि जनयन्ति तथा भेर्यवच्छेदेभ जायमानशब्दः भेरीसमीपदेशावच्छेदेन दशदिक्षु शब्दान् जनयति तादृशदशशब्दास्तत्तत्समीपदेशावच्छेदेन सर्वदिगवच्छेदेन च बढून शब्दान् जनयन्ति एवरीत्या श्रोतावच्छेदेनोस्पन्न शब्दो गृह्यते अयमेव कदम्बमुकुळन्यायेनोत्पत्तिकम: । पक्षद्वयेऽध्यायशब्दोऽतीन्द्रियः भेर्याद्यवच्छेदेन जायमानत्वात् श्रोत्राद्यवच्छेदेन जायमानस्यैव प्रत्यक्षत्वसंभवादिति ॥ अस्मिन् कल्पे इ- ति ॥ कदम्बमुकुळन्यायेन शब्दोत्पत्तिकमपक्ष इत्यर्थः ॥ गौरवादिति ॥ तथाच बहूनां शब्दानां शब्दा. दिनकरीयम् . गौरवादिति ॥ दशशब्दानां तत्प्रागभावानां तद्धेतुहेतुमद्भावानां च कल्पने गौरवादित्यर्थः ॥ १६४ ॥