पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमान्विता । - उत्पन्नः को विनष्टः क इति बुद्धनित्यता । सोऽयं क इति बुद्धिस्तु साजात्यमवलम्वते ।। १६७ ।। ननु शब्दस्य नित्यत्वादुत्पत्तिकथनमसङ्गतमत आह । उत्पन्नेति ॥ शब्दानामुत्पा- दविनाशप्रत्ययशालित्वादनित्यत्वामत्यर्थः । ननु स एवायं ककार इत्यादिप्रत्यभिज्ञानाच्छ- ब्दानां नित्यत्वम् । इत्थं चोत्पादविनाशबुद्धिर्भमरूपैवेत्यत आह । सोऽयमिति ॥ साजा- त्यमिति ॥ तत्र प्रत्याभिज्ञानस्य तत्सजातीयत्वं विषयो न तु तद्वयक्त्यभेदो विषयः । उक्त- प्रतीतिविरोधात् । इत्थं च द्वयोरपि प्रतीत्योरभ्रमत्वमिति ॥ १६७ ॥ प्रभा. समवायि कारणकत्वकल्पनेन द्वितीयक्षणभिन्नक्षणानां निमित्तकारणत्वकल्पनेन च गौरवादित्यर्थः । अत्राद्य- शब्दोत्पत्तिद्वितीयक्षण एव सर्वदिगवच्छेदेन समीपदेशे दूरदेशे च निखिलशब्दोत्पत्तिस्वीकारे भेर्यादेस्सनि- हितदेशस्थपुरुषस्य व्यवहितपुरुषस्य च युगपच्छन्दश्रवणापत्तिः यदा समीपदेशस्थपुरुषकर्णशकुल्यवच्छेदन शब्दोत्पत्तिः तदैव दूरदेशस्थ पुरुषकर्णशष्कुल्यवच्छेदेनापि शब्दोत्पत्तिसं भवात् । नचेष्टापत्तिः अनुभवविरोधात् तस्मात् ईदृशगौरवस्य प्रामाणिकतया न दोषत्वमेवेति कदम्बमुकुळन्यायेन शब्दोत्पत्तिपक्ष एव प्रामाणिक इति प्रतिभाति ॥ १६४ ॥ १६५ ॥ १६६ ॥ उक्तप्रतीतिविरोधादिति ॥ उत्पादविनाशशालिप्रत्ययविरोधादित्यर्थः ॥ इत्थंचेति ॥ सोऽयं क इति बुद्धेस्सजातीयविषयकत्वे चेत्यर्थः ।। द्वयोरपीति ॥ उत्पन्नः को विनष्टः कइतिप्रत्यय सोऽयं क इति प्र- त्यभिज्ञयोरित्यर्थः ॥ न भ्रमत्वमिति ।। सर्वांश प्रश्नात्वमित्यर्थः उपपद्यत इति शेषः । मीमांसकास्तु सोऽ. यंग इत्यादिप्रत्यभिज्ञायलाद्वर्णानान्नित्यत्वं नवं सति उत्पन्नः को विनष्टः क इत्याद्युत्पादविनाशशालिप्रतीत्य- नुपपत्तिरिति वाच्यम् । तादृशप्रतीतेः कादिव्यजकवाय्वादिसंयोगगतोत्पादविनाशविषयकत्वस्वीकारात् एते- न तारत्वमन्थरत्वरूपविरुद्धधर्माध्यासबलात् कादिवर्णाना भेदसिद्धौ तदनुरोधेनानित्यत्वमप्यावश्यकमिति- परास्त तारत्वमन्थरत्वयोरपि व्यञ्जकवायुधर्मत्वस्वीकारात् । अन्यथानन्तवर्णतत्प्रागभावध्वंसतत्काय कारण भावकल्पनापत्त्या महागौरवप्रसज्ञात । नचैवं सति श्रोत्रग्राह्यत्वानुपपत्तिः तयोरिति वाच्यम् । व्यणुकनिष्ठगु- णानां मध्ये रूपमात्रस्य चक्षुग्राह्यत्ववद्वायुधर्मणां मध्ये तारत्वादिमात्रस्यानायत्या तद्ग्राह्यत्वस्वीकारे क्षतिवि. रहादित्याहुः तन्न तुल्ययुक्त्या कत्वखत्वादेरपि वायुधमत्वापत्त्या वर्णमात्रस्य भेदविलोपापत्तेः किंच कादेरपि नित्यत्वे कत्वाद्यवाच्छिनं प्रत्येव ताल्वोष्ठपुटसंयोगादीनां कारणत्वमिति लाधवम् । कादीनां नित्य- वे तु कत्वादिप्रकारकश्रावणत्वावच्छिन्नं प्रति तेषां हेतुत्वामिति कार्यतावच्छेदकगौरवं लौकिकविषय. तासंबन्धेन कत्वादेरेव कार्यतावच्छेदकत्वे कार्यतावच्छेदकघरकसंबन्धगौरवं अपिचोत्पादकसामन्या व्यजक- त्वस्वीकारे घटायुत्पादकसामम्या अपि तुल्ययुक्त्या व्यञ्जकत्वसंभवेन पदार्थमात्रस्य नित्यत्वापत्तिः । नचोकर प्रत्यभिज्ञायास्साजात्यावलम्बने तज्जातीयोऽयमित्येव स्यात् नतु सोऽयमितीति वाच्यम् । यादृशप्रत्यभिवा. यां जातित्वेन कत्यादेर्भानं तादृशप्रत्यभिज्ञव तनातीयोऽयमित्याकारिका यस्यान्तु स्वरूपतः कत्वादिजाते - दिनकरीयम्. उक्तप्रतीतिविरोधादिति ॥ उत्पादविनाशशालिप्रत्ययविरोधादित्यर्थः ॥ इत्थं चेति ॥ प्रत्य- भिज्ञानम्य सजातीयविषयत्वे चेत्यर्थः ॥ द्वयोरपीति ॥ उत्पादप्रतीतिप्रत्यभिज्ञानयोरित्यर्थः । अत्र मी- मांसकाः । स एवायं गकार इति प्रत्यभिज्ञया गकारादेस्तावत्कालावस्थानस्य विषयीकृतत्तेनान्तराभूतशब्दा दिनानाशेन नाशकाभावाद्वनित्यत्वसिाद्धेः । नच प्रत्यभिज्ञा तज्जातीयत्वविषयिणी बाधक भावात् अन्य था सर्वत्रापि सथाभावेऽभेदोच्छेदापत्तिः । नच तारत्वमन्दत्वरूपविरुद्धधर्माध्यासो बाधकः प्रत्यभिज्ञानबलेन तस्य नित्यत्त्वसिद्धौ तारत्वादेव्यप्रकवायुधर्मस्वस्य कल्पनात् श्रोत्रेण वायुधर्मस्य तारत्वादेरपि प्रहणसम्भवा.