पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५८ दिनकरीयटिप्पणं। पुटम् ( ९८ ) अनेकेति ॥ अनेकत्वमेकभिन्नत्वमित्युकं महादेवेन । अत्रैकभिन्नत्वं एकप्रतियोगि- कभेदवत्त्वं एकत्वावच्छिन्नप्रतियोगिताकभेदवत्त्वं वा । नायः जलपरमाणुरूपादावपि द्वित्वाचवारिछकनिष्ठप्र. तियोगिताकभेदसत्त्वात् अतिव्याप्त्यापत्तेः न द्वितीयः एकत्वावच्छिन्न प्रतियोगिताकभेदात्याप्रसिद्धत्वात् । न च स्वसमानाधिकरणकत्वव्यक्त्यवच्छिन्न प्रतियोगिताकभेदवत्वं विवक्षितमिति वाच्यं रूपत्वादावव्याप्लापत्तेः स्वसमानाधिकरणकत्व सङ्खघाया अप्रसिद्धेः । नचापेक्षाबुद्धिविशेषविषयत्वरूप मेकत्वमिति वाच्यं अपेक्षायु. द्धिविशेषविषयत्वरूपानेकत्वस्यैव निवेशसंभवेन एकभित्रत्वमनेकत्वमित्यस्यासाङ्गत्यापत्तः तादृशानेकत्ववासम- वेतत्वस्य लक्षणत्वे जलपरमाणुगतरूपादावतिव्याप्त्यापत्तेढुंवारत्वात् । यदि तादृशानेकत्वव्यापकाधिकरणतानि- रूपकत्वनिवेशनानातिव्याप्तिरित्युच्यते तदासंभव इति तान्नचशितमिति वाच्यम् । स्वसमानाधिकरण मेदप्रतियो. गिविषयकस्वानाधिकरणाविषयकधीविषयत्वस्यैवाने कत्वस्य निवेशयितुं शक्यत्वादिति चेन्न स्वप्रतियोगिवृत्ति- त्वस्वसामानाधिकरण्योभयसंबन्धेन भेदविशिष्टधर्मवत्त्वरूपपारिभाषिक कभिन्नत्वस्य विवक्षितत्वात् । नच ज. लपरमाणुगतरूपादौ अतिव्याप्तिः तादृशानेकत्वव्यापकाधिकरणताकत्वस्य विवक्षितत्वात् । केचित्तु नित्यत्वे सत्यने कसमवेतत्वमित्यत्र अनेकञ्च तत्समवेतत्वं चाने कसमवेतत्वामति व्युत्पत्त्या समवायसंबन्धावच्छिन्नाने का. धेयताकत्वमित्यर्थी लभ्यते । तच्च स्वसमानाधिकरणसमवायसंबन्धावच्छिन्नाधे यताभिन्नसमवायसंबन्धाव च्छिन्नाधेयत्तावत्त्वम् । नचाधेयभेदेनैवाधेयताभेदाङ्गीकर्तृनये एतल्लक्षणं न संभवतीति वाच्यं स्वनिरूपकाधि- करणताभिन्नाधिकरणतानिरूपकाधेयताविशिष्टाधेय तावत्त्वस्य विवक्षितत्वान्न दोष इत्याहुः ॥ पुटम् (१२१) नित्यद्रव्यवृत्तिरिति स्वरूपकथनं नतु लक्षण प्रविष्टं प्रयोजनाभावादित्युक्त महा- देवेन ! अत्रेदमवसेयं नित्यद्रव्य वृत्तित्वं चानित्यद्रव्यागृत्तित्व अतस्सत्तादौ नातिव्याप्तिः । नचैवं सति नित्य- द्रव्यसमवेतपरिमाणादावतिव्याप्तिरिति वाच्यं नित्यद्रव्येतरासमवेतपदार्थविभाजकापाधिशून्यत्वस्य तदर्थ- त्वात् । नचैवमपि अभावादावतिव्याप्तमिति वाच्यं सपनेतत्वस्यापि प्रवेशनीयत्वात् तस्मानित्यव्यवृत्तिारति स्थानकथनामिति असङ्गतमिति । अन्येतु परिष्कृतविशेषलक्षणस्य समवायादावतिव्याप्तिवारणाय पूर्वोकल- क्षणप्रविष्टमेव नित्यद्रव्यऋत्तित्वं तश्चानित्यद्रव्यावृत्तित्वमतरसमवायस्य नित्यद्रव्य वृत्तित्वेऽपि नातिव्याप्तिः । वृत्तित्वं च कालिकविशेषणत्वदेशिकविशेषणत्वान्यतरसंबन्धेन । तस्मादेतस्यापि लक्षणप्रवेशावश्यकत्वात् न लक्षणप्रविष्टमित्य सङ्गतमित्याहुः ।। पुटम् (११९) स्वभिन्नलिङ्गजन्य स्वविशेष्यकस्वसमानजातीयभेदानुामेत्यविषयत्वमिति विशेषणल- क्षणं परिष्कृतं महादेवेन । अखेदं बोध्यम् । अविषयत्वमित्यत्र अविशेष्यत्वविशेषणेनैव विशेषवान् परमाणु - विशेषभिन्नः पृथिवीत्वादित्यनुमानविषयत्तामादायासंभववारणसंभवे स्वविशेष्यकपदं ध्यर्थम् । नच गगनवृत्ति रितरभिन्नः गगनानुयोगिकसमवायादित्य नुमितिविशेष्यत्वात् असम्भवापत्तिवारणाय स्वमात्र विशेष्यकपरं स्वविशेष्यकपदमावश्यकामति वाच्यम् । गगनवृत्तिविशेषः परमाण्वादिवृत्तिविशेषभिन्नः गगनानुयोगिकसमबा. यादित्यनुमितिविशेष्यत्वादसंभववारणाय स्वविशेष्यकेत्यत्र स्वेतरवृत्तिधर्मानवच्छिन्नत्वेन विशेष्यताया विव. क्षणीयतया अविशेष्यत्वमित्यत्रापि तथा विवक्षणेन स्वेतरशब्दादिवृत्तिगगनवृत्तित्वावच्छिन्नगगनवृत्तिरितर- भिन्नो गगनानुयोगिक समवायादित्यनुमितिविशेध्यतामादायासंभवाभावेन स्वविशेष्य कपदानावश्यकत्वात् । नच तथाप्येतद्विशेषः शब्दश्च तद्विशेषभिन्नः गगनानुयोगिक समवायादित्य नामितीयतादृशविशेष्यतामादाया. संभववारणाय स्वमानविशेष्यकार्यकं तद्वियोषणमावश्यकमिति वाच्यम् । एतद्विशेषस्तद्विशषभिन्नः गगनानु- योगिकसमवायादित्यनुमितिविशेष्यतामादायासंभववारणाय स्वस मानाधिकरणावृत्तित्वेन भेदस्य विशेषणीय - तया एतद्विशेषस्तद्विशेषः शब्दश्च तद्विशेषभित्रः गगनानुयोगिकसमवायादित्य नुमितिविधेयभेदस्य स्वसमाना-- धिकरणगगनस्वादिवृत्तित्वेन तदीयविशेष्यतामादायासंभवामावेन तत्पदवैयर्थ्यस्य दुरित्वात् । नच विशेषो घ- टाभिन्नः इत्यनुमितिविधेयभेदस्य स्वसमानाधिकरणपदाथान्तरवृत्तितया तेनैव तादृशासंभववारणसंभवेन स्वसमानजातीयपवैयापत्त्या पदार्थविभाजकोपाधिरूपेण स्वसमान जातीयत्वविवक्षणवैयर्खापत्या च तद्विवक्षाया असंभवेन निरुतासंभवो दुर्वार एवेति वाच्यं स्वसमानाधिकरणमात्रावृत्तित्वेन लिङ्गविशेषणा-