पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिनकरीयटिप्पणं । वृत्तितावच्छेदकताबच्छेदकसंबन्धावच्छिन्नविच्छेद करवानिरूपकत्वमेव तादृशधर्मान्तरानवच्छिन्नत्वं उ.. कस्थले संयुक्तसमवायत्वनिष्ठायाः स्वाश्रयप्रतियोगिवृत्तित्व संबन्धावच्छिन्नाया विशेष्यतावच्छेदकतावच्छेदक- ताया नियतपूर्ववृत्तित्वप्रहविशेष्यतावच्छेदकतावच्छेदकस्वरूप संबन्धावच्छिन्नत्वाभावान्न दोष इति वाच्यम् । तथा सति दण्डत्वनिष्ठाया दण्डरूपनिष्टविशेष्यतानिरूपितखाश्रय समवेतत्वसंवन्धावच्छिन्नावच्छेदकताया नि- यतपूर्ववृत्तितावच्छेदकत्तावच्छेदकसमवाय संबन्धावच्छिन्नत्वाभावेनातिव्याप्तितादवस्थ्यादिति चेन्न । स्वाश्रय- घटितसंबन्धावच्छिन्ननियतपूर्ववृत्तितावच्छेदकत्वस्य विवक्षितत्वात् दण्डनिष्ठनियतपूर्ववृत्तिताया दण्डरूपाश्र- याघटितसमवाय संबन्धावच्छिन्नत्वान्न दोषः । संयुक्तसमवायनिष्ठानियतपूर्व वृत्तितायास्तु संयुक्तसमवेतसमवाय. स्वाश्रयसमवाय घटितसंबन्धावच्छिन्नत्वान्नाध्याप्तिरिति । नन्वत्र स्वतन्त्रान्वयव्यतिरेकशून्यत्वं न तावत्कारणा- घटितसंबन्धावच्छिन्नान्वयव्यतिरेकशून्यत्वं कारणत्व प्रवेशादात्माश्रयापत्तेः । नापि निरातपूर्ववृत्यघटितत्व- मेव स्वातव्यमिति युक्तं । कपालरूपस्यापि घटरूपं प्रत्यन्यथासिद्धयापत्तेः कपालरूपान्वयव्यतिरेकयोरुतनि. यतपूर्ववृत्तिकपालघटितसंबन्धावच्छिन्नत्वाद्रूपवान् रूपपूर्ववृत्तिरिति प्रहविशेष्यतावच्छेदकत्वाच्च रूपवतः क. पालस्यापि रूपपूर्ववृत्तित्वाक्षते: । नच तद्धर्मावच्छिन्ननिरूपितनियतपूर्ववृत्तितावच्छेदकधर्मान्तराश्रयाघटित . संबन्धावच्छिन्नत्वमेव स्वातन्त्र्यम् । कपालत्वं च न रूपत्वावच्छिन्न निरूपितनियतपूर्ववृत्तितावच्छेदकं न्यूनवृत्ति- स्वादिति नोपदर्शितातिव्याप्तिरिति वाच्यम्। तथापि कपालस्वादिसाधारणस्य द्रव्य समचायित्वस्य रूपत्वाव- च्छिन्ननिरूपितनियतपूर्ववृत्तितावच्छेदकत्वसंभवात् । नच तदोक्तनियतपूर्ववृत्तितावच्छेदकातिनियतपूर्व- वृत्तितावच्छेदकाश्रयाघटितसंबन्धावच्छिन्नत्वमेव विवक्षितम् 'दव्य समवायित्वस्य तु तादृशद्र व्यत्वघटितत्वात् न दोष इति वाच्यम् । तथापि द्रव्यत्वस्यापि तादृश नियतपूर्ववृत्तितावच्छेदकत्वेन तदाश्रयघटित संबन्धावतिक नत्वादिति चेन्न । स्वजन्येतरसावन्नियतपूर्ववृत्तिसमवधानकाले यत्र यत्सत्त्वे अवश्यं यत्सत्त्वं यदभावे अव- श्यं यदभावः तद्भिन्नत्वं तत्र स्वतन्तान्वयव्यतिरेकशून्यत्वम् । कपालरूपे तु स्वजन्यप्रत्यक्षे यावद्धटादिरूप- नियतपूर्ववृत्तितासत्त्वे स्वाश्रयसमवेतत्वसंबन्धेन रूपसत्त्वे समवायेन रूपसत्त्वात् तदभावे तदभावाच न त. द्भिनत्वरूपस्वतन्त्रान्वयव्यतिरेकशून्य त्वमिति । अन्यथासिद्धिशून्यम्य नियता पूर्ववृत्तिता । कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितमिति मूलम् । अत्र कार्यनियतत्वं कार्यपदं च कार्यतापच्छेदकपरं । तथाच कार्यताव- च्छेदकताघटक संबन्धावच्छिन्न कार्यतावच्छेदकनिष्ठव्याप्यतानिरूपितस्वनिरूपकाधिकरणनिरूपित कार्यतावच्छे. दकसंबन्धावच्छिन्नवृत्तित्वसंबन्धावच्छि व्यापकत्वं । तथाच तादृशं यत्का व्यवहितप्राक्क्षणावच्छिन्न कार- णतावच्छेदक संबन्धावच्छिन्न कारणतावच्छेदकाचच्छिन्नवृत्तित्वं तद्वत्वं कारणत्वमिति पर्यवसितम् । अत्र व्या. प्यतायाः कार्यतावच्छेदकताघटकसंवन्धावच्छिन्नत्वानिवेशे तद्धटानुयोगिकस्वविशिष्टसमवायावच्छिन्न घटत्व.. निष्ठव्याप्य तानिरूपितनिहतसंबन्धावच्छिन्न व्यापकतायाः रासमनिष्ठपूर्वत्तितायामपि सरवादतिव्याप्तिः स्यात् अतस्तनिवेशः । कार्यतावच्छेद कनिष्ठत्वनिवेशाच्च तद्धटरूपादिनिष्ठ समवाय संबन्धावच्छिन्न व्याप्यतानिरूपि. तव्यापकताकपूर्व वृत्तितामादाय नातिव्याप्तिः। घटत्वनिष्ठसमवाय संबन्धावच्छिन्नव्याप्यतानिरूपितकालिक- बन्धावच्छिन्नव्यापकताश्रयपूर्ववृत्तित्ववासभादातिन्याप्तिवारणाय व्यापकतायां निरुक्तपरम्परासंबन्धावच्छि. नत्वनिदेशः । संवन्धघटकवृत्तितायां कार्यतावच्छेदकसंबन्धावच्छिन्नत्वनिवेशात् न रासभनिष्ठपूर्ववृत्तितानि- रूपकाधिकरणनिरूपितकालिकसंबन्धावच्छिन्नवृत्तितामादाय रासभेऽतिव्याप्तिः । नचैवं वृत्तिभेदेन वृत्तिताया भेदात् तादृशपूर्ववृत्तिताया वनस्थदण्डादौ अभावादव्याप्तिरिति वाच्यं तस्यास्वावच्छेदककारणतावच्छे. दकधर्मवत्त्वसंबन्धेनैव लक्षणत्वोपगमादिति । यत्तु कार्यनियतत्वे सति कार्यपूर्ववृत्तित्वं कारणत्वमिति तन्न रससामान्यं प्रति रूपसामान्यस्य कारणतापत्तेः तस्य रसव्यापकत्वात् रसाव्यवहितपूर्वकाले वृत्तित्वाच । नच कार्यतावच्छेदकाश्रययावयक्तिपूर्ववृत्तित्वं विवक्षितमिति न दोष इति वाच्यं यावद्वयक्तिपूर्ववृत्तित्वस्याप्रसि- द्धत्वात् । नच दोषोऽयं भवन्मतेऽपि तुल्यः रूपनिष्ठाया रसाधिकरणवृत्तिताया रसान्तराव्यवहितप्राकालाब. च्छिन्नत्वादिति वाच्यम् । पूर्ववृत्तितापदेन स्वनिरूपकाधिकरणवृत्तिकार्याव्यवहितप्राक्कालावच्छिन्नत्तिताया विवक्षितस्वादुकदोषाभावात् । नच ममापि कार्यपूर्ववृत्तित्वपदेन स्वनिरूपकाधिकरणकृत्तिकाव्यिवहितप्रा. -