पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङ्गारामजटीयं । ८६१ व्यापकत्व क्षणावच्छिन्नवृतित्वमेव विवक्षितमिति न दोष इति वाच्यम् यत्र पाकस्थले रसप्रतिबन्धकवशात् रूपो. त्पादकाले रसो नोयनस्तदुत्तरक्षणे चोत्पन्नः तत्र निरुक्तपूर्व वृत्तिताया आप सत्त्वात् । नच यावत्यः कार्यता वच्छेदकाश्रयाः प्रत्येक तत्तद्वयक्त्यव्यवहितप्राक्क्षणावच्छेदेन तत्तद्वयक्त्यधिकरणवृत्तित्वं विवक्षितमिति वा. च्यं नियतपदवैयपित्तेः रासभादौ तादृशपूर्ववृत्तित्वाभावेनवातिव्याप्त्यप्रसक्तः । नच नियतपदसम. भिव्याहारादेव तादृशार्थलाभ इति वाच्यम् । तथापि नियतपदस्य सामानाधिकरण्येन व्यापकत्ववि • शिष्टे लक्षणाकल्पनाप्रयुक्तगौरवस्य दुरुद्धरत्वात् पूर्ववृत्तितापदस्य सामानाधिकरण्ये न विशिष्टपूर्ववृत्तितापरत्वेऽपि लक्षणाकल्पनातादवस्थ्यात् । अस्मिन्मते च नियतपदस्य व्यापकत्वाव. च्छिन्नार्थकतया तस्य चाभेदसंबन्धेन पूर्ववृत्तितायामन्वयेन तद्दाषाभावात् । केचित्तु कार्यतावच्छेदक ताघटकसंबन्धावच्छिन्नकार्यपूर्ववृत्तितावच्छेदकनिष्ठ वाप्यतानिरूपितप्रतियोगितासंबन्धावच्छिन्नव्यापकताक. कार्थतावच्छेदकसंबन्धावच्छिन्नकार्याधिकरणतावानरूपित कार्याव्यवहितप्राक्क्षणावच्छिन्नकारगतावच्छेदकसं. बन्धावच्छिन्नवृत्तिकत्वं कारणत्वं इत्यप्यूचुः । नव्यास्तु कारणत्वस्यानन्यथासिद्धानयतपूर्ववृत्तितावच्छेदकधर्म वत्त्वरूपत्वे प्रतिबन्धकाभावस्य तत्तयक्तित्वेन हेतुत्वापत्तेः यत्र न कारणत्वव्यवहार: तसद्भेदकूटवत्वस्य सर्वज्ञे. नैव ने यत्वात् तत्तद्वयक्तिभेदकूटवत्त्वसंबन्धेन कार्यविशिटा यो धर्मस्तद्वत्त्वं तदित्यपि न युक्तम् । तस्य संवन्धन्व- सन्देहात् तस्मात्कारणत्वं पदार्थान्तरमित्याहुः । अत्र प्रतिवन्धकामावस्य तत्तयक्तित्वेनापि हेतुत्वापत्तिरि- त्यर्थः । यथा चित्ररूपानङ्गीकर्तृनये नानारूपवत्कपालारब्धघटे श्वेतादिरूपापत्तिवारणाय समवायेन श्वेतरूपं प्र. ति स्वाभ्रयसमवेतत्वसंवन्धेन श्रेतातिरिक्तरूपाभावस्य कारणत्वं कल्प्यते अत्र शुक्लेतररूपाभाववन कारण- त्वमिति नीलपीतरूपाभावानामपि कारणत्वापत्तिः शुक्नेतररूपाभावत्वस्येव तत्तदाक्तित्वानामपि नियतपूर्ववृ. त्तितावच्छेदकत्वाविशेषात् । न चावश्यकुप्तलघुनियतपूर्ववृत्तिभिन्नत्वरूपान्यथा सद्धिनिरूपक वात् तसध्यक्ति- त्वानां कारणतावच्छेदकत्वासंभवः नानाकारणतावच्छेदककल्पने गौरवादिति वाच्यं गौरवयात्रापि दुरूप. पादत्वात् । तथाहि शुक्लेतररूपाभावत्वस्य पूर्व वृत्तितावच्छेदकत्वे लाघवं तत्तयक्तित्वानां तदवच्छेदकत्वे गौरवादिति हि वक्तव्यं तच न संभवति । तथाहि शुक्नेतररूपाभावो नियतपूर्ववृत्तिरिति प्रतीतिबलेन शुक. तररूपाभावत्वस्येव तत्तद्यक्तिनियतपूर्ववृत्तिरिति प्रतीति बलेन तत्तद्यक्तित्वानामपि नियतपूर्ववृत्तितावच्छेदकता. याः कुप्ततया कल्पनाभावेन लाघवगौरवविचार एव न संभवतीति । अन्यथासिद्धय नवच्छेदकत्वमपि तस्य न संमवतीत्येव कारणतायाः अतिरिक्तत्वे तु नानाकारणत्वकल्पने तु गौरवं स्फुटमेवाते । तदुक्तं कारणत्वमा तिरिक्तमिति स्यात् प्रन्थकारवचसामकुष्टः । अन्यथा तु गुरुता कुत एव स्याद्धि कारणतयोरुभयोर्वेति । अस्यार्थः कारणत्वमिति अतिरिक्तमेव अन्यथा ग्रन्थकारवच सामकुसृष्टयापत्तिः क्वचित्कारणताद्वयकल्पने गौ- रवमित्यस्य उपपादयितुं अशक्यत्वात् यथा शुक्तररूपाभावत्वेन कारणत्वे लाघवं नीलपीताद्यभावत्वादिना का. रणत्वे गौरवामिति ग्रन्थकारोकिन सच्छते नियतपूर्ववृत्तित्वरूपकारणत्वस्य सिद्धत्वादिति । ननु यत्र न कारणतावच्छेदकत्वव्यवहारः तव तद्यकित्वावच्छिन्न प्रतियोगिताकभेद कूटबद्धर्मवत्त्वमेव कारणत्वमित्युच्यते तथाच तत्तद्यक्तित्वानां कारणतावच्छेदकत्वापत्तिरित्यत आह ॥ योलिन कारण- स्वव्यवहारः न कारणतावच्छेदकत्वव्यवहारः । सर्वनैव ज्ञेयमिति ॥ विशिष्टयुद्धौ विशेषणबुद्धे.. तुतया तादृशभेदकूटज्ञानं विना तत्तद्धटित कारणत्वस्याप्यज्ञेयत्वादिति भावः । ननु संसर्गज्ञानस्य तत्सं. सर्गकबुद्धावहेनुतया तादृशभेदकूटबत्वसंसर्गककारणताग्रहः संभवत्येवेति न दुर्जेयत्वमित्यत आह ॥ तत्तद्रे दकूटवत्त्वेति ॥ कार्यनिरूपितकारणताचच्छेदकत्वष्यवहारो यत्र नास्ति तत्तयक्तित्वावच्छिन्न प्रतियोगि. ताकभेदकूटवत्त्वसंबन्धेन कार्यविशिष्टधर्मवत्त्वं कारणत्वं वेसर्थः ॥ संबन्धवसन्देहादिति ॥ तेन रूपे- ण संसर्गतायां प्रमाणाभावादिति भावः ।। पुटम् (१७८) तथाच सामान्यनिरूपिताधिकरणता न सामान्यादौ एकार्थसमवायस्थाधिकरणत्वा- नियामकत्वादिति ग्रन्थः । अत्रेदं चिन्तनीयं सामान्यनिरूपिताधिकरणतायाः प्रवेशे कालिकसंबन्धावच्छिन्न- सामान्यनिरूपिताधिकरणताया एव ध्वंसे सत्वादतिव्याप्तिवारणाय समवायसंबन्धेनाधिकरणताया अवश्यं वि. यत्र