पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङ्गारामजटीयं । त् कर्मभिस्सहितस्य तस्य तत्त्वज्ञानस्य वैभवात् । अतनुवै शरीराणि जायन्ते सुबहून्यपीत्येवोक्तत्वात् । किञ्च मिथ्याज्ञानप्रागभावासमानकालीनमिथ्याज्ञानध्वंसत्वेन हेतुता न संभवति मिथ्याज्ञानोत्पादकप्रारब्धान्यकर्म- वशात् कायन्यूहस्यलेऽपि किञ्चिच्छरीरावच्छेदेन मिथ्याज्ञानोत्पत्तेरावश्यकत्वात् । तथाच द्वितीयं द्रव्यपदं व्यर्थमिति चेन्न । ध्वसत्वेनेत्यस्य प्रागभावावृत्तिधर्मेणेत्यर्थात् । तथाच दण्डत्वेन जनकत्वमादाय व्यभिचार- वारणाय द्वितीयद्रव्यपदं । नच दण्डत्वमपि दण्ड ध्वंसप्रागभावात्मकदण्डवृत्त्येवेति वाच्यम् प्रागभावपदेन भा- वप्रतियोगिकप्रागभावस्य विवक्षितत्वादिति । स्यादेतद्विशेषणतासंसर्गावच्छिन्न यद्सनिष्ठजनकतानिरूपितस. मवायसंबन्धावच्छिन्नजनकताशालीत्येवं विषयतया प्रत्यक्षं प्रति तादात्म्येन विषयस्य हेतुत्वात स्वप्न. तियोगिसमवायसंबन्धेन नाशं प्रति प्रतियोगितासंबन्धेन नाशस्य हेतुत्वात् अवच्छेद्यतासंबन्धेन कायव्यूह प्रति विशेषणतया मिथ्याज्ञानध्वंसस्य हेतुत्वात् समवायेन घटं प्रति संयोगेन दण्डस्य हेतुत्वाच्च । अष्टाद्वा. रकत्वमपि न देयं अवच्छेद्यतासंबन्धेन नारकीयशरीरं प्रति स्वानुकूलकृत्याश्रयत्वसंबन्धेन साळग्रामध्वंसस्य हेतुत्वादिति चेन्न जनकतावच्छेदकजन्य तावच्छेदकसंबन्धानुपादानतात्पर्येण तदुपादानादिति । ननु तथा- पि मत्कुणध्वंसजन्यपटोलिकाशलाटौ मत्कुणोपादानानुपादेये सारमेयध्वंसजन्यजम्बीरफले च व्यभिचार इति चेन्न पटोलिकाशलावादौ न मत्कुणध्वंसस्य हेतुत्ता प्रमाणाभावात् । किन्तु संयोगसंबन्धेन मत्कुणस्य मत्कुण. संयोगस्य वा हेतुत्वं मत्कुणध्वंसस्तु तत्राजनक इत्येवाभ्युपगमादिति न काप्यनुपपत्तिः । चेष्टात्वं जातिविशे- षः चेष्टेति प्रत्यक्षसिद्धः । नच शरीरत्वमेव पृथिवीत्वव्याप्यजातिः चेष्टात्वं तरिक्रयात्वमिति वाच्यम् । पृथिवी. स्वादिना साकर्येण पृथिवीत्वादिच्याप्याने कशरीरत्वजातिकल्पनं गौरवादिति । अन्न चेष्टात्वस्याप्युत्क्षेपणत्वा- दिना सङ्करणोरक्षेपणत्वादिव्याप्यनामाचेष्टास्वजात्यङ्गीकारस्यावश्यकतया गौरवं तुल्य मेव। नच पिण्डगतरूपादेरे. व परत्वापरत्वासमवायिकारणत्वमस्त्विति वाच्यं कालिकपरत्वापरत्वयोर्वायावुत्पत्त्या व्यभिचारात् अत एव पृथिवीपिण्डसंयोगस्य न तन कारणत्वं पृथिव्यसंयुक्तपदार्थ तादृशपरत्वापरत्वयोरुत्पादेन व्यभिचारादिति म. हादेवः । अत्रेदं चिन्त्यं पिण्डगतरूपादेः परत्वापरत्वासमवायि कारणत्वशङ्का न युक्ता तथा सति एकस्मिन्ने- व परत्वापरत्वयोर्द्वयोरप्युत्पत्यापत्तेः द्वयोरपि रूपत्वावच्छिन्नस्यैव कारणत्वात् । नचैकस्मिन्नेव सामान्यतः परत्वापरत्वमुत्पद्यत एवेति वाच्यम् । यत्र यदवाधिकपरत्वमुत्पन्नं तत्र तदवधिकापरत्वस्याप्युत्पत्त्यापत्ते: अ. स्माकं तु तनिष्टकालसंयोगाधिककालसंयोगस्य तदवाधिकपरत्व हेतुत्वं तन्निष्ठकालसंयोगन्यून संयोगस्य तदवधि. कापरत्वहेतुत्वमिति कालिकपरत्वापरत्वयोः वायावुपत्त्या व्यभिचार इति यदुक्तं तदर युक्तं स्पर्शस्य कारण वे व्यभिचाराप्रसक्तः । पुटम्(४१३)इन्द्रियत्वावच्छिन्न जनकतानिरूपित्तजन्यताशालिस्वं प्रत्यक्षलक्षणं अनुमियादादतिव्याप्तिवारणाय इन्द्रियत्वावच्छिन्नति । नव चाक्षुषं प्रति चक्षुत्वादिना कारणत्वस्यावश्यकतया प्रत्यक्षत्रावच्छिन्नं प्रति जन्यत्र- त्यक्षत्वावच्छिन्नं प्रति वा इन्द्रियत्वेन कारणहवे मानाभावेनेदं लक्षणं संभवति नचा वच्छेदकत्वं न स्वरूपसं- बन्धविशेषरूपं अपि त्वनतिरिक्तवृत्तित्वरूपं तथाच स्वसमानाधिकरणभेदप्रतियोगितानवच्छेदकेन्द्रियत्वजन- कतानिरूपितजन्यत्वं विवक्षितमिति वाच्यम् । तथा सति मनोनिष्ट' या अनुमिति जनकताया अपि तादृश- स्वात् अनुमित्मादावतिव्याप्तदुरित्वात । नच अन्यूनवृत्तित्वमवच्छेदकत्वम् । तथाच स्वावच्छिन्नप्रतियोगि. ताकभेदासमानाधिकरणेन्द्रियत्वजनकतानिरूपित्तजन्यावं विवक्षितं मनोमात्रनिष्ठाया अनुमित्तिजनकताया अ- ताशत्वान्नातिव्याप्तिरिति वाच्यं असंभवापत्तेः चक्षुस्त्वादिभेदेन तत्तदवच्छिन्न जनकत्ताया भिन्नभिन्नत्वेन कस्यापि जनकतायास्स्वावच्छिन्न प्रतियोगिताकभेदासमानाधिकरणेन्द्रियत्वकत्वाभावात् । नचन्द्रियत्वसमा नाधिकरणभेदप्रतियोगितावच्छेदकतानवच्छेदकस्वनिष्ठजन्यतानिरूपितजनकतावकत्वं समुदितलक्षणार्थः प्रत्यक्षनिष्ठजन्यतानिरूपितजनकत्तात्वस्य तादृशत्वाल्लक्षणसंभवः अनुमितिनिष्टजन्यतानिरूपितजनकतावस्या- तादशत्वान्नातिप्रसङ्ग इति वाच्यम् । निखिलप्रत्यक्षसाधारणानुगतस्वत्वस्यैवामावेन स्वपदेन तत्तत्प्रत्यक्षव्य के- रेवोपादेयतया कस्या अपि प्रत्यक्षव्यक्तेः स्वपदेनोपादातुमशक्यत्वात् सर्वस्या अपि प्रत्यक्षव्यक्तः स्वनि- तत्तजन्यनिरूपितजनकतावस्यापे ताहशत्वात् । नचेन्द्रियत्वसमानाधिकरणभेद: योगितावच्छेदक