पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङ्गारामजटीयं | पुटम् (४८३) स्वाधिकरणावृत्तिसाध्यवदन्योन्याभावकत्वस्य व्याप्तित्वे साध्ययत्ताप्रहविरोधितानियामकसं- बन्धेनैवावृत्तित्वस्यावश्यं विवक्षणीयतया सत्ताभाववान् जात्यभावादिलादावव्याप्तिरित्युक्तं दिनकरेण । तदसत् स्वाधिकरणवृत्यधिकरणत्वावृत्तिसाध्यवदन्योन्याभाबाधिकरणतास्वविवक्षणेनाव्याप्त्यनवकाशात् । इदानीञ्च श्रु- त्तित्वं स्वरूपसंबन्धेनैव । एतेन संयोगसंबन्धावच्छिन्नघटाभावे साध्ये विषयितया हेतौ घटादावव्याप्तिरित्यापि निरस्तम् । हेत्वधिकरणज्ञानादिवृत्त्यधिकरणत्तायां साध्यवदन्योन्याभावाधिकरणतात्वासत्त्वेनाध्याप्त्यनवकाशात साध्यवदन्योन्याभावाधिकरणतात्वघटकमधिकरणत्वं साध्यवत्ता प्रहविरोधितानियामकसंबन्धेन । साध्यवद- न्योन्याभाववत्साध्यतावच्छेदकताघटकसंबन्धावच्छिन्नसाध्यतावच्छेद कनिष्ठावच्छेदकतानिरूपकसाध्यतावच्छे. दकसंबन्धावच्छिन्नावच्छेदकताकप्रतियोगिताकान्योन्याभावप्रतियोगितावच्छेदकतायां साध्यतावच्छेदकसंब. न्धावच्छिन्नत्वनिवेशात् न वह्निमान् धूमादित्यादौ समवायसंवन्धावच्छिन्नवाहत्वावच्छिन्नावच्छेदकताकप्रतियो. गिताकान्योन्याभावमादायाव्याप्तिः । प्रतियोगितावच्छेदकतावच्छेदकतायां साध्यतावच्छेदकताघटकसं- बन्धावच्छिन्नत्वनिवेशान्न गुणवान द्रव्यत्वादित्यादौ विषयतासंबन्धावच्छिन्नगुणत्वनिष्ठावच्छेदकताकसमवायसं. बन्धावच्छिन्नावच्छेद कताकप्रतियोगिताकान्योन्याभावमादायाव्याप्तिः । ननु तथापि महानसीयवह्निमान् धू. मादित्यादावच्याप्तिः महानसीयत्वनिष्टसाध्यतावच्छेदकताघटककालिकसंबन्धावच्छिन्नवाहित्यनिष्ठावच्छेदक- ताकवह्नित्वनिष्ठसाध्यतावच्छेदकताघटक समवायसंबन्धावच्छिन्नमहानसीयत्वनिष्ठावच्छेदकताकप्रतियोगिता- कान्योन्याभावस्य हेतुमति सत्त्वादिति चेन्न स्वावच्छेदकसंबन्धावच्छिन्नत्वस्वसामानाधिकरण्योभयसबन्धेन साध्यतावच्छेदकताविशिष्टान्यावच्छेदकत्वानिरूपकप्रतियोगितावच्छेदकताकान्योन्याभावस्य विवक्षितत्वा- त् । उपदर्शितवह्निनिष्टप्रतियोगितावच्छेदकता निरुतविशिष्टान्यावच्छेदकतानिरूपिकैव महानसीयत्वनिष्टप्र- तियोगितावच्छेदकतावच्छेदकतायाः वह्नित्वनिष्ठसाध्यतावच्छेदकतावच्छेदकसंबन्धावच्छिन्नवेऽपि तत्सामाना- धिकरण्याभावाद्वह्नित्वनिष्ट प्रतियोगितावच्छेदकतावच्छेदकताया महानसीयत्वनिष्ठमाध्यतावच्छेदकताघटकका. लिकसंबन्धावच्छिन्नत्वेऽपि तत्सामानाधिकरण्याभावाञ्च विशिष्टान्यतया तादृशान्योन्याभावमादायाव्याप्ते- रप्रसकेरिति दिक् । पुटम् ( ४७४ ) स्मरणात्मकपरामर्श व्याप्तिज्ञानस्य व्यभिचार इत्यपि न तत्रापि संस्कारसंबन्धेन पूर्व व्याप्तिज्ञानस्य सत्त्वादिति दिनकरः । अनेदं चिन्यते । व्याप्तिज्ञानस्य संस्कारसंबन्धेन कारणत्वं न सं. भवति पूर्व व्याप्तिग्रहस्थले संस्कारसंबन्धेन व्याप्तिप्रहस्यावश्यकत्वेऽपि यत्र शाब्दात्मकपरामर्शः तत्रोक्तसं. बन्धेन व्याप्तिज्ञानस्याभावात् । नच तत्रापि योग्यताज्ञानसमुदायव्याप्तिज्ञानं शाब्दबोधात पूर्वमावश्यकमिति वाच्यम् । यत्र तावदर्थोपस्थितिमूलकः खलेकपोतन्यायेन शाब्दात्मकपरामर्शः तत्र विशिष्टव्याप्तिज्ञानात्मकयो- ग्यताज्ञानस्यासत्त्वात् । नच नोत्पद्यत एव ततोऽनुमितिविशिष्टवैशिष्टयबोधात्मकपरामर्शस्यैवानमितिहेतुत्यो- पगमादिति वाच्यम् । तथापि यत्रावान्तरवाश्यार्थबोधात्मकं व्याप्तिज्ञानं ततो विशिष्टवैशिष्ट्यबोधात्मकपरामर्शः तत्र व्याप्तिज्ञानस्य स्वजन्यसंस्कारसंबन्धेन परामर्शहेतुत्वासंभवात् । एवं यत्र विशिष्टवैशिष्टयबोधात्मकप्रा- त्यक्षिकपरामर्शः तत्र विशेषणतावच्छेदक प्रकारकनिर्णयविधया पूर्व व्याप्तिज्ञानस्यावश्यकत्वेऽपि स्वजन्यसं. स्कारसंबन्धेन तस्याभावात् । अत्रेदं बोध्यम् । नहि परामर्शत्वावच्छिन्नं प्रति व्याप्तिज्ञानत्वेन संस्कारसंब- धेन कारणता स्वीक्रियते येनोक्तदूषणं स्यात् । परन्तु परामर्शस्य व्याप्तिज्ञानव्यापारत्वोपपादनार्थ स्मरणा. रमकपरामर्शस्य संस्कारसंबन्धावच्छिन्नध्याप्तिज्ञाननिष्ठजनकतानिरूपितजन्यत्वमुपपादितम् । नच खजन्यसं- स्कारसंबन्धावच्छिन्नव्याप्तिज्ञाननिष्ठजनकत्तानिरूपितजन्यताशालिपरामर्शस्यैव व्याप्तिज्ञानव्यापारत्वोपगमे निक रुतप्रात्यक्षिकपरामर्शादनुमितिर्न स्यादिति वाच्यम् । सामान्यतो व्याप्तिज्ञाननिष्ठजनकतानिरूपितजन्यताशा- लिपरामर्शस्यैव व्यापारत्वं तत्रच स्मरणात्मकपरामर्शस्य संस्कारसंबन्धावच्छिन्नन्याप्तिज्ञाननिष्ठजनकतात्वं प्रात्यक्षिकपरामर्शस्थले तु समवायसंबन्धावच्छिन्नव्याप्तिज्ञाननिष्ठजनकतानिरूपकत्वामित्येव वदभिप्रायात् ॥ पुटम् ( ४८५ ) ननु वैशिष्टयव्यासज्यवृत्तिधर्मानवच्छिन्न प्रतियोगिताकत्वेनाभावविशेषणात् नाव्या. प्तिरित्यत आइ गुणवानिति दिनकरः । अत्र वैशिष्ट्यच्यासज्यवृत्तिधर्मानच्छिन्नप्रतियोगिताकत्वेन त- 109 ३ 1