पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिनकरीयटिप्पणं। वाभावविशेषणे विशिष्ट सत्तावान् जातेरित्यादावतिव्याप्तिः । तत्र हि हेतुसमानाधिकरणाभावो न सत्तात्वा. वच्छिन्न प्रतियोगिताकाभावः किन्तु विशिष्टसत्तात्वावच्छिन्नप्रतियोगिताकाभावो वाच्यः सच न संभवति त. श्य वैशिष्टयावच्छिन्न प्रतियोगिताकत्वेन लक्षणघटकाचादित्यभावान्त रमादायातिव्याप्तिदुरैव । नच साध्य- तावच्छेदकातिरिक्तः यो वैशिष्टयव्यासज्यवृत्तिधर्मः तदनवच्छिन्नप्रतियोगिताकत्वमेव विवक्षणीयमिति तत्र विशिष्टस तात्वावच्छिन्न प्रतियोगिताकाभावमादाय नातिव्याप्तिरिति वाच्यम् । प्रमेयत्वावच्छिन्न माध्यतावच्छे. दकसद्धेतौ प्रमेयत्ववान् घटत्वादित्यादौ अव्याप्तिः तत्र प्रमेयत्वावच्छिन्नसाध्यतावच्छेदकातिरिक्तस्याप्रास. द्धत्वात् तस्मादिदमसङ्गतमिति चेन्न साध्यतावच्छेदकाविषयकप्रतीतिविषयत्वस्य वैशिष्टयव्यासज्य वृत्तिधर्म विशेषणत्वात् । नच तथापि तत्र साध्यतावच्छेदकीभूतप्रमेयत्वाविषयक प्रतीतरप्रसिद्धत्वादव्याप्तिारैवेति वाच्यम् । यत्र येन रूपेण यस्य साध्यतावच्छेदकत्वं तत्र तद्धर्मावच्छिन्नं साध्यतावच्छेदकपदेन उपादे. यं यत्र च स्वरूपतस्साध्यतावच्छेदकत्वं तत्र स्वरूपत एव तदुपादेयमित्यनुपपत्त्यभावात् ॥ पुटम् ( ५१७ ) प्रमेयत्वविशिष्टव्यभिचारादावतिव्याप्तिवारणाय प्रकृतानुमितिप्रतिबन्धकतावच्छेद- कधर्मान्तराघांटेतत्वेनानुमितिप्रतिबन्धकतावच्छेदकाचेषयतानिरूपकतावच्छेदकधर्मो विशेषणीय इति अनुमि- तिविरोधितावच्छेदकधर्मो विशेषणीय इत्युक्त दिनकरेण । तदर्थश्च प्रकतानुमितिप्रतिबन्धकतावच्छेदकवि- षयतानिरूपकता तच्छेदकधर्मान्तराघटितत्वेनानुमिति प्रतिबन्ध कतावच्छेदकविषयि तानिरूपकतावच्छेदकध- मो विवक्षणीय इति। नन्वत्र धूमाभाववदवृत्तिवह्निमान् धूमवान् वहेरित्यादौ धूमाभावविशिष्टधूमाभाववद्वृत्ति- वहिमत्त्वावच्छिन्नरूप व्यभिचारघटितत्वेनानुमिति प्रतिबन्धकतावच्छेदकबाधेऽव्याप्तिः धूमाभावविशिष्टधूमा. भाववत्तिवह्निमत्त्वरूपानुमिति प्रतिबन्धकतावच्छेदकविषयितानिरूप कतावच्छेदकधर्मस्य तादृशविषयितानि- रूपकतावच्छेदकीभूनधूमाभाववद्वृत्तिवह्नित्वरूपधर्मान्तर घटितत्वात् । न च स्त्रावच्छिन्ननिरूपितविषयत्वाव-- च्छिन्न प्रतिबन्धकतासामान्यावच्छेदकविषयतानिरूपकतावच्छेदकं यत्स्वावच्छिन्नाविषयकप्रतीतिविषयित्ताव- च्छेदकं तद घटितत्वमेव यद्रूपे विशेषणीयम् । धूमाभावपत्तियहि मत्वं तु स्वावच्छिन्ननिरूपितविषयत्वावच्छि. प्रतिबन्धकतासामान्यावच्छेदकविषयितानिरूपकतावच्छेदकं तदवच्छिन्ननिरूपितविषयतायाः स्वावच्छिन्न. निरूपितविषयित्वान्यूनवृत्तिव्याप्तिज्ञान प्रतिबन्धकतानतिरिक्तवृतित्वेऽपि तादृशप्रतिबन्धकतासामान्यान्तर्मत- विशिष्टानुमितिप्रतिबन्धकत्वानतिरिकवृत्तित्वाभावात् । तथाच तद्वटितत्वमादाय नोक्ताव्याप्तिरिति वाच्यम- संभवापत्तेः स्वावच्छिन्ननिरूपितविषयत्वावच्छिन्न प्रतिबन्ध कतासामान्यावच्छेद कविषयितानिरूपकतावच्छेद- कस्वावच्छिन्नविषयक प्रतीति विषयत्वावच्छेदकस्याप्रसिद्धेः व्यभिचारत्वाद्यवच्छिन्नविषयत्वाबांच्छन्न प्रतिबन्ध- कतासामान्यानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकव्यभिचारत्वप्रमेयविशिष्टव्यभिचारत्वादेः स्वावच्छि-- नाविषयकप्रतीतिविषयतावच्छेदकत्वाभावादिति चेन्न । स्वावच्छिन्न निरूपितविपयित्वान्यूनवृत्तियत्किञ्चित्प्रकृ. तानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयतात्वव्यापकखावच्छिन्ननिरूप्यताकधर्मावच्छिन्नत्वस्य समुदितल- क्षणार्थत्वेन दोषाभावात् । वं व्यभिचारित्वं तदवच्छिन्ननिरूपितविषयत्वावच्छिन्नयत्किञ्चिद्याप्तिज्ञान प्रतिब- न्धकतावच्छेदकविषयितायाः सर्वस्या अपि स्वावच्छिन्ननिरूप्यत्वात् लक्षणसमन्वयः । प्रमेयत्वविशिष्टव्यभि चारत्वं तु स्वपदेनोपादातुमशक्यं तदवच्छिन्ननिरूपितविषयत्वावच्छिन्नयत्किञ्चित्प्रतिबन्ध कतावच्छेदकशुद्ध- व्यभिचारस्वावच्छिन्ननिरूपितविषयतायाः स्वावच्छिन्ननिरूप्यत्वादिति नातिव्याप्तिः । एवं व्यभिचारघटित. बाधकत्वावच्छिन्ननिरूपितविषयत्वावच्छिन्नानुमितिप्रतिबन्धकतावच्छेदकविषयतायाः सर्धस्या एव स्वाव- च्छिन्ननिरूपितत्वनियमानातिव्याप्तिरित्यादि बोध्यम् ॥ पुटम् ( ५१७ ) नन्वत्र अनुमितितत्करणान्यतरप्रतिबन्ध कत्वं अन्यतरनिष्ठप्रतिबध्यतानिरूपितत्व घटितं यदि तदा पर्वतो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टदस्य दोषताप्रसङ्गः पर्वतो वाहिमान हदो वह्नि - मानिति समूहालम्बनात्मकप्रकृतानुमितिनिष्ठप्रतिबध्यता निरूपित प्रतिबन्धकतावच्छेदकत्वात् तादृशान्यतरत्वा वच्छिन्नप्रतिबध्यतानिवेशे असंभवः तादृशान्यतरत्वव्यापकप्रतिबध्यतानिवेशे व्यभिचारादौ बाधे चाव्याप्तिरिति दूषितं दिनकरेण । तत्तु न समीचीनम् । अनुमितितत्करणान्यतरप्रतिबन्धकेल्यस्य स्वावच्छेदकत्वस्वनिरूपितका-