पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिनकरीयटिप्पणं । लक्षणम् । अत्र सामान्यवत्त्वे सतीति विशेषणं व्यर्थम् । नच सामान्यादावतिव्याप्तिवारणाय तदिति वा- च्यम् । तद्विशेषणदानेऽपि कालिकसंबन्धेन पदार्थविभाजकोपाधिमत्त्वमादाय कालादावातिव्याप्तिवारणाय स. मवायेन तद्वत्त्वस्यावश्यं विवक्षणीयतया तत एव सामान्यादावतिव्याप्तिवारण संभवात् । नच जगदाधार - ताप्रयोजकसंबन्धभिन्न संबन्धेन पदार्थविभाजकतावच्छेदक संबन्धेन वा तद्वत्त्वं विवक्षणीयमित्यभिप्रायेण त द्विशेषण दानमिति वाच्यम् । प्रक्षाळनाद्धीति न्यायेन निहतसंबन्धेन तद्वत्त्वमुक्ता सामान्यादावतिव्याप्तिं स- म्पाद्य तद्वारणाच विशेषणान्तरदानापेक्षया समवायेन तद्वत्वविवक्षणाया एव युक्तत्वात् । ननु सामान्यवरचे सति कमान्यत्वे सति निर्गुणत्वं गुणलक्षणं अत उत्पन्न विनष्टघटाङ्गीकर्तृनय तत्रातिव्याप्तमिदं लक्षणम् । नच गुणवदवृत्तिपदार्थविभाजकोपाधिमत्त्वं निगुणत्वे सतीत्यस्यार्थ इति वाच्यम् । तथा सत्युक्तयुक्त्या सामा- न्यवत्वे सतीत्यस्य वैयापातादिति चेन गुणवद्वृत्तिपदार्थविभाजकोपाधिशून्यत्वस्य तदर्थत्वात् । तथाच सामान्यादावतिव्याप्तिवारणाय सामान्यत्रत्वे सतीति विशेषणमपि साथ कमवेत्यवधेयं यथोक्तलक्षणे त. स्यानिवेशेनोभयथापि वैयाभावाच । द्रव्यत्वव्यापकतावच्छेदकसत्ताभिनजातिमत्वं गुणस्य लक्षणम् । नन्व- त्रोत्पन्नविन द्रव्याजीक नये दव्यत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकतानवच्छेदकत्वं तब्यापकताच. च्छेदकरवं गुणस्तस्य न संभवतीत्य संभव इति चेन्न द्रव्यत्वपदेन संयोगस्य विवक्षितत्वात् । नच तत्तत्संयो- मव्यापकतावच्छेदकद्रव्यत्वमादायातिव्याप्तिरिति वाच्यं संयोगत्वावच्छिन्ननिरूपकताकव्यापकताया वि वक्षितत्वात् । अत्र केचित् उत्पन्नविनष्टद्रव्ये प्रमाणाभावः समवाय कारण नाशस्यासमवायिकारणनाशय वा दव्यनाशं प्रति कारणत्वेन पूर्वक्षण तदभावात् तत्सत्त्वे च समवायि कारणासमवायिकारण यो: कार्यसहभादे- न हेतुत्वात् द्रव्योत्पतेरेवासंभवात् । नचाविनश्यदवस्थयोरेव समवाय समवाथि कारण यो कार्य सहभावेन हेतुत्वं एवञ्च विनश्यदयस्थ काले घटोत्पत्तिसंभवत्येवेत्युत्पन्नाविनष्टद्रव्यं निरा बाध मेवेति वाच्यम् । तथा सति विनश्यवस्थेऽपि घटे गुणोत्पत्तिस्संभवत्येवेति प्रकृतलक्षणस्य निर्दोषत्वापत्तेः किम्द अविनश्यदवस्थयारेच तयोः कार्यसहभावेन हेतुत्वमिति नियमे मानाभावादित्याहुः । तत्र घटोत्पत्तिद्वितीयक्षणे कपालनाशाङ्गीकारेऽ- पि खाश्रयघटितसनिकर्षण कपालरूपादीनां घटादाय सत्त्वेन तत्र गुणोत्पादासंभवादिति । मूर्तत्वव्यापकता. वच्छेदकगुणवृत्तिजातिमत्त्वं मूर्तगुणानां लक्षणम् । अत्र त्रसरेणुपरिमाणे अपकर्षाख्यजात्यस्य स्वेनैवाने लेख. नात् तस्य च मूर्तत्वव्यापकतावच्छेदकतया तजातिमति परिमाणेऽतिव्याप्तिः एवं कियाजनकतावच्छेदक- वजात्यावच्छिन्नशब्दजनकतावच्छेदकवैजात्यावच्छिन्ने च संयोगे शब्दजनकतावच्छेदकजात्यावच्छिन्ने दळ- द्वयविभागेऽतिव्याप्तिः नच गुणवृत्तीत्यस्य गुणत्वमाक्षाद्याप्येत्यर्थ इति वाच्यम् ! तथा सति वेगस्थितस्थाप-- काजन्यत्वस्य कार्यतावच्छेदककोरिप्रवेशे गौरवाद्वैजात्य मेव कार्यतावच्छेदकतयोपेयत इति वाच्यं तद्वैजा- त्यस्य मधुररसव्यावृत्तत्वे तत्र कार्यकारणभावान्तर कल्पनापत्त्या तत्साधारण्योपगमस्यावश्यकतया तादृश- वैजात्यस्य द्रव्यविभाजकोपाधिव्याप्यतावच्छेदकत्वाभावात् । एवं सांसिद्धिकद्रवत्वत्वस्य जलत्वव्याप्यताच- च्छेदकत्वेऽपि द्रव्यत्वावृत्तित्वात् द्रव्यविभाजकोपाधिव्याप्यतावच्छेदकत्वाभावात् सांसिद्धिकद्रवत्वेऽतिव्या. प्तिः एवं स्थितस्थापकस्य पृथिवीमात्रसाधारण्येनानीकर्तृनये स्थितस्थापकत्वस्य पृथिवीत्वव्याप्यतावच्छेदक- तया तादृशजातिशून्यत्वाभावेन तत्राव्याप्तिः। नच द्रव्यविभाजकोपाधिव्याप्यतावच्छेदकजातिमदत्ति- संयोगविभागवेगद्रवत्वावृत्तिजातिशून्यत्वं विवाक्षतं तथाच पृथिवीत्वव्याप्यतावच्छेदकतिकवादिमदत्ति- रसत्वादिमति रसादौ नातिव्याप्तिरिति वाच्यम् । तथापि सांसिद्धिकद्रवत्वेऽतिव्याप्तेदुर्वारत्वात् पृथिवीत्व. व्याप्यतावच्छेदकनीलत्वादिमदत्तिरूपत्वादिमति रूपे जलत्वव्याप्यतावच्छेदकशीतत्ववदवृत्तिस्पर्शत्वादिमति स्पर्शे चातिव्याप्त्यप्रसक्तया रूपस्पर्शान्यत्वे सतीति विशेषणवैयापत्तेश्च । नापि द्रव्यविभाजकोपाधिया- प्यो यस्येति व्युत्पत्त्या द्रव्यविभाजकोपाधिनिष्ठच्याप्यतानिरूपकतावच्छेदकत्वमेव विवक्षितमिति सौसिद्धि- कद्रवत्वेऽतिव्याप्तेस्तदवस्थत्वात् सङ्ख्यादावव्याप्तेः द्रव्यविभाजकोपाधेः व्यापकत्वादतस्तद्वृत्तित्वेनेत्युत्तरप्र- न्यस्यासाङ्गत्यापत्तेः । अपि चान संयोगपदवैयर्थ्य संयोगत्वस्य दयविभाजकोपाधिव्याप्यत्वाभावात् । नच संयोगत्वव्याप्यशब्दजनकतावच्छेदकवैजात्यमादायाव्याप्तेरिणाय तत्पदमावश्यकामिति वाच्यम् । ता-