पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङ्गारामजटीयं । -- द्रवत्वस्य नत्वस्थाने एकत्वान्यसङ्घयावृत्त्यन्यत्वं निवेश्योक्तातिप्रसङ्गवारणात् तथापि पूर्वोकातिव्याप्तिवारणमाशय मेव । अनोच्यते गुणत्वव्याप्यजात्या स्वसजातीयनिरूपितसमवायिकारणतावद्वृत्तिसङ्ख्यावृत्त्यन्यत्वं निवेश्योकाति. व्याप्तज्ञानातिरिकद्रव्याभिन्नभावनिरूपितनिमित्तकारणतावद्वृत्तिसङ्ख्यात्वपृथक्त्वातिरिकजातिमत्त्वं विवक्षि. तम् । रूपादिकमादाय लक्षणसमन्वयः। उष्णस्पर्शश्चात्र लक्ष्यः मुक्तावळ्या तथा प्रतिपादनात् अत उष्णस्पर्शस्य पाकजनिमित्तकारणत्वेऽपि न क्षतिः । अनुष्णाशीतत्वादिकमादाय लक्षणसमन्वयात् । संयोगभिन्नत्वमपि निमित्तकारणतानिरूपकाभावे विशेषणीयं तेन पिण्डीभाबनिमित्तकारणे स्नेहे नाव्याप्तिः । अत्र परिमाणास. भवायिकारणद्वित्वादावतिव्याप्तिवारणाय गुणत्वव्याप्यजात्या स्वसजातीयनिरूपित्तत्वं असमवाथिकारणता. विशेषणम् । नच सङ्ख्याभिन्नत्वस्थाने एकत्वान्य सङ्ख्यावृत्त्यन्यत्वमेव जातौ विशेषणं क्रियतां तावतैव द्वित्वा- दिवारणसंभवात् किमुक्तगुरुविशेषणेनेति वाच्यम् । तथापि भेरीदण्डसंयोगवृत्तिशब्दजनकतावच्छेदकवैजा- त्यं दळद्वयविमागनिष्ठशब्दजनकतावच्छेदकवैजात्यं चादायातिव्याप्तवारणाय तद्विशेषण!वश्यकत्वात् भेर्याकाश. संयोगादीनां शब्दादौ निमित्तकारणत्वेऽपि निरुक्तवैजात्यानां तदवृत्तित्वात् । विवक्षिते तु शब्दस्य संयोगजातीय- स्वाभावानातिव्याप्तिः । अथ स्नेहेऽव्याप्तिवारणाय निमित्तकारणतानिरूपकाभावे संयोगातिरिक्त त्वनिवेशे गुरुत्ववेगयोरव्याप्तिः तयोराभिघाताख्यसंयोग प्रत्येव निमितकारणतया तदतिरिक्तं प्रति अनतिरिक्तत्वात् । अपिच पिण्डीभावात्मकविलक्षणसं योगभिन्नत्वमेव निविष्टं नतु सामान्यतस्सं योगभिन्नत्वं अतो नातिव्याप्ति- रिति वाच्यं तथापि द्रव्यत्वेऽतिव्याप्तेः पिण्डीभावं प्रत्येव निमित्तकारणत्वादिति हि पिण्डीभावभिन्नत्वमपि निवेशयितुं न शक्यत इति चेत् मास्तु तनिवेशः द्रव्याभिन्नत्वनिवेशेऽपि स्नेहेऽतिव्याप्तिश्च अनायल्या स्नेहत्त्वं निमित्तकारणे निवेश्य वारणाय अथ तथापि नैमित्तिकद्रवत्वस्य कुत्रापि निमित्तकारणत्वभावात् नैमित्तिकद्रवत्वमादायातिव्याप्तिः । नच तन्निवेशे नैमित्तिकद्रवत्वस्य पिण्डीभावनि मित्तकारणतया तद्वृत्तित्वात्तस्य नातिव्याप्तिरिति वाच्यं सांसिद्धिकद्रव त्वत्वेनैव पिण्डीभावनिमित्तकारणत. या तैलान्तर्गलजलनिष्टजलत्वस्यैव तद्धेतुत्योपगमात् इति चेन्न नैमित्तिकद्रवत्वभित्रस्याप्यनायत्या विशेष्ये निवेशनीयत्वात् । अथवा स्नेहान्यत्वं निवेश्य पिण्डीभावातिरिक्तत्वं निमित्तकारणतानिरूपकाभावे निवेश्य सामान्यतो द्रवत्वान्यत्वमेव निवेशयितुमुचितमिति । आत्मविशेषगुणानां निमित्तकारणत्वं लक्षणम् । ननु यादृशज्ञानादिव्यक्तः कुत्रापि न निमित्तकारणत्वमासीत् तत्रेदमन्याप्तमतिव्याप्तं च द्रव्यादौ । नच निमित्त कारणवृत्तिगुणत्वव्याप्यजातिमत्त्वं विवक्षितमिति न दोष इति वाच्यं निमित्त कारणीभूतभावनावृत्तिसंस्का. रत्वजातिमादाय वेगस्थितस्थापकयोरतिव्याप्तः ननु निमित्तकारणवृत्तिगुणत्वव्याप्यजातिमत्वं विवक्षितं ज्ञाने प्रत्यक्षादिकमादाय सुखदुःखेच्छारेषेषु प्राकट्याप्राकट्य योर्जातिविशेषयोरनुभवासि- द्धनेन ते आदाय लक्षणसमन्वयः । स्वर्गादिरूपतत्तद्विलक्षणफलजनकतावच्छेदकतया धर्मत्वव्याप्यजातीनां नाकादिरूपतत्तद्विलक्षणदुःखजनकतावच्छेदकतया चाधर्मत्वव्याप्यजातीनां सिद्धत्वात्तयोरपि लक्षणसङ्गतिः । भावनायां तु भावनात्वमेव सुलभं यत्नेनतु प्रवृत्तित्वेन प्रवृत्तजीवनयोनित्वानि सुलभानि तथाच संस्कारत्व- मादाय नाव्याप्तिरिति चेन्न तथाप्युष्णत्वादिकमादाय अव्याप्ते?रित्वात् । असमवायिकारणवृत्तिनिमित्तकार- णवृत्तिगुणत्वव्याप्यजातिमत्त्वं समुदितलक्षणार्थः । उष्णत्वादिकं संस्कारवत्त्वं चासमवायिकारणवृत्त्येवेति न दोष इति वाच्यम् । तथा सत्यात्मप्रत्यक्षं प्रति आत्मगतपरममहत्त्वस्य कारणतायाः पूर्वमङ्गीकृतत्वात् परम- महत्त्वस्य कुत्राप्यसमवायिकारणत्वाभावाच परममहत्त्वत्वजातिमादाय परिमाणेऽतिव्याप्तेर्दुर्वारस्वात् । नच ज्ञानातिरिक्रनिरूपितनिमित्तकारणव निवेश्यते अतो नातिव्याप्तिरिति वाच्यं भावनायामव्याप्त्यापत्तेः स्मृति प्रत्येव भावनाया निमित्तकारणतया ज्ञानातिरिक्तनिमित्तकारणत्वे मानाभावात् । नच प्रत्यक्षातिरि- कनिरूपितनिमित्तकारणत्वमेव निवेशितं नतु सामान्यतो ज्ञानातिरिकत्वनिवेश इति नाव्याप्तिरिति वाच्यम् । तथा सति ज्ञायमानलिङ्गस्यामितिकारणतावादिनये मूर्तभिन्नद्रव्यत्वप्रकारकात्मविशेष्यकानुमितौ परममह- त्त्वस्य निमित्तकारणताया अतिव्याप्तेर्दुरित्वात् । अथ समवायिकारणवृत्तिप्रत्यक्षातिरिकनिरूपितनिमित्त. कारणतावद्वृत्तिगुणत्वसाक्षायाप्यजातिमत्त्वं विवक्षितम् । परममहत्वन्तु प्रवृत्तित्वेन प्रवृत्तित्वजीवनयोनिगुणत्व. -