पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङ्गारामजदीयं । ८७३ सिद्धम् ॥ परत्वादीनां नासमवायिकारणत्वं नापि निमित्तकारणत्वमिति मुकावळीग्रन्थः । परस्वापरत्वद्वि- त्वादेः द्विपृथक्त्वादीनामित्यर्थः । द्वित्वादिरूपं च द्वित्वादिरूपविशेषपरम् । तथाच परिमाणासमवायिकारण- द्वित्वायतिरिकासमवायि कारणावृत्तिनिमित्तकारणावृत्तिजातिमत्त्वे सति परिमाणासमवायिकारणान्यत्वे सति गुणत्वं लक्षणम् । एतत्सर्वमाभिप्रेत्योक्तं परस्त्वन्यत्रानुसन्धेय इति दिनकरेण ॥ पुटम् (७०७) यद्यप्यणुत्वमेव हस्वत्वमस्तु महत्त्वमेव दीर्घत्वमस्त्विति कुतमातुर्विध्यं तथापि तदवाधिकाणुतया प्रतीयमाने तदवाधिकहूस्वत्वाव्यवहारात् तदवधिकमहत्वबत्तया प्रतीयमाने तदवाधि- कदीर्घत्वाव्यवहाराच्च हूस्वत्व दीर्घत्वयोरतिरिक्तपरिमाणतया त चातुर्विध्यं बोध्यामिति दिनकरप्रन्धः। अणुत्व- मेवेत्यत्यापकृष्ट महत्त्वमेवेत्यर्थः यथाश्रुते वृक्षो घटो ह्रस्व इति प्रतीसेरनुपपत्तेः घटस्य महत्त्वेनाणुत्वात्पार्थ- क्येन न विभाजकोऽनुपपन्न इति भावः ॥ तदयधिकेति ॥ घटाघधिकापकृष्टमहत्त्ववत्तया प्रतीयमाने तदवाधिक हस्वत्वाभावाव्यवहारात् घटावधिकोत्कर्षमहत्त्ववत्तया प्रतीयमाने घटे तदवधिकोत्कृष्टत्वाव्यव. हारादित्यर्थः । हूस्वत्वदीर्घत्वे नापकर्षोत्कर्षरूपे किन्वतिरिक्तवैजात्ये महत्त्वत्वव्याप्ये तथाच घटनि. टमहत्त्वापेक्षया हस्वत्वत्व जाते: घटनिष्ठमहत्त्वे पटनिष्टमहत्त्वापेक्षया दीर्घत्वत्व जातेध घटनिष्ठमहत्त्वेऽ. नङ्गीकारेण नोक्तव्यवहारानुपपत्तिः हस्वत्वत्वदीर्घत्वत्वयोमहत्त्वत्वविरुद्धत्वे एकस्यां व्यकौं नानाप- रिमाणाङ्गीकारस्यावश्यकतया गौरवात् अस्माकन्तु महत्त्वस्यैव हस्वत्वव्यवहारविषयत्वाभ्युपगमेन लाघवात्। ननु महत्त्वव्याप्योत्कर्षादिना हस्वत्वत्त्वदीर्घत्वत्वयोस्स करापत्तिः दण्डाद्यपेक्षया दीर्घस्तम्भाद्यपेक्षयोत्कृष्टम- हत् ववव्यसमवेतपरिमाणे दण्डापेक्षया हस्वत्वस्तम्भापेक्षयापकृष्टमहत्त्वव व्यसमवेतपरिमाणे पर- स्परपरिहारेण वर्तमानयोः दण्डनिष्ठ परिमाणावधिकहस्वत्वत्वस्तम्भनिष्टपारमाणावधिकोत्कर्षयोः दण्डापेक्ष- याह्रस्वातम्भापेक्षयोत्कृष्ट महत्त्ववद्व्यसमवेतपरिमाणे समावेशात् । एवं दण्डापेक्षयादीर्घ-स्तम्भापे- पेक्षयाउत्कृष्टमहत्वव व्यसमवेतपरिमाणे दण्डापेक्षया हस्व-स्तम्भापेक्षयापकृष्टमहत्त्ववव्यसमवेतप- रिमाणे च परस्परपरिहारेण वर्तमानयोः दण्डनिष्ठपरिमाणावधिकदीर्घवस्तम्भनिष्ठपरिमाणावधिकापकर्ष यो: दण्डापेक्षया दोघस्तम्भापेक्षयापकृष्टमहत्त्ववह व्यसमवेतपरिमाणे समावेशात् । नच ह्रस्वत्वपरिमाणस्य दीर्घत्वपरिमाणस्य च तत्तदवधिभेदेन भिन्नत्वेऽपि ह्रस्वत्वत्वजातीर्घत्वत्व जातेश्च एकतया दण्डापेक्षया दीर्घः समवेतपरिमाणेऽपि ह्रस्वत्वत्व जातिरस्त्येव एवं हस्वेऽपि दबित्वत्ववत्परिमाणमस्त्येवेति न सार्थमिति वाच्यम् । तथापि सर्वापेक्षया दीर्घद्रव्यसमवेतपरिमाणे सर्वापेक्षया हस्वद्रव्यसमवेतपरिमाणे च परस्परपरि- हारेण वर्तमानयोः ह्रस्वत्वत्वदीर्घत्वत्वयोर्घटादिपरिमाणे समावेशेन साङ्कर्यस्य दुर्वारत्वादिति चेन्न तत्तदत्राधिकापकर्षोत्कर्षादिव्याप्यनानाह्रस्वत्वत्वदीर्घत्वत्व जातिस्वीकारेण सार्याप्रसः । तस्माचातु- विध्योपपत्तिटुवारैवेति । केचित्तु अणु दीर्घ महद्भस्वमिति वाक्ये अणु दीर्घमिति विभागः । दीर्घपदं महत्परं तथाच परिमाण द्विविधं अणुत्वं महत्त्वञ्चेत्यर्थः । महस्वामिति महत्त्वविभागः । महत्त्वपदच्च उत्कृष्टमहत्त्वपरं ह्रस्वत्वपदं च अपकृष्टमहत्वपरं तथाच महत्त्वं द्विविधं परममहत्त्वमपकृष्टमहत्वञ्चेत्यर्थः अत: कारिकाविरोधो नास्तीत्याहुः । अन्ये तु दीर्घत्वत्वहत्वत्वत्वयोमहत्त्वत्वव्याप्यत्वेऽपि प्रमाणप्रमेयेत्या- दिवत् व्याप्यधर्मेणापि विभागात्वीकारात् न परिमाणचातुर्वध्यानुपपत्तिरित्याहुः ।। पुटम् ( ७१६ ) ननु संयोगत्वं नान्यतरकर्मणः कार्यतावच्छेदकं उभयकर्मजसंयोगे संयोगजसंयोगे च व्याभि- चारादिति चेन्न विजातीयकर्मत्वेन विजातीय संयोगत्वेन समवायेन हेतुहेतुमद्भावात् उभयकर्मसंयोगे च ताह शबैजात्याभावेन व्यभिचाराभाबादेवं उभयकर्मणः संयोगस्यापि बोभ्यामिति दिनकरः । अत्रोभयकर्मजन्यसंयोगे व्याभिचारशङ्कर न संभवति प्रतियोगितासम्बन्धेन संयोगत्वावच्छिन्नं प्रति क्रियात्वेन समवाय संबन्धेन कारणत्वं न त्वन्यतरक्रियात्वेन उभयकर्मजन्यसंयोगस्य च उभयत्रैव प्रतियोग्य नुयोगिभावः स्वीक्रियत इति व्यभि- चाराप्रसक्तः । नचैतदस्वरसेनैव संयोगजसंयोग इति स्थलान्तरानुसरणं तत्र हि हस्ततसंयोगजन्यशरीरत- रूसंयोगे शरीरजन्यप्रतियोगितासंबन्धेन तत्र क्रियाविरहादिति वाच्यम्। तथा सति क्रियाजन्यसंयोगमात्रे संयोगजसंयोगव्यावृतं वैजात्यं स्वीकृत्य प्रतियोगितासंबन्धेन विजातीयसंयोगत्वेन समबायसंवन्धेन किया. 110 ।